जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 272, कुल 588 में से
संदर्भ में पढ़ें२४६ सटीकजातकपारिजाते- अथ चामरयोगः। लग्नेश्वरे केन्द्रगते स्वतुङ्गे जीवेक्षिते चामरनाम योगः। सौम्यद्वये लग्नगृहे कलत्रे नवास्पदे वा यदि चामरः स्यात् ॥ १३६ ॥ योगे जातश्चामरे राजपूज्यो विद्वान् वाग्मी पण्डितो वा महीपः। सर्वज्ञः स्याद्वेदशास्त्राधिकारी जीवेल्लोके सप्ततिर्वत्सराणाम् ॥ १३७ ॥ इदानीं चामरयोगं तत्फलञ्चाह—लग्नेश्वर इत्यादिशलोकयुगलेन। स्वतुङ्गे = स्वकीयोच्च- राशि गतवति, लग्नेश्वरे, केन्द्र-(१।४।७।१० एतदन्यतमभाव- ) गते तस्मिन्, जीवे- क्षिते-गुरुणा दृष्टे चामरनाम योगः स्यात्। योगान्तरमाह—यदि लग्नगृहे, वा कलत्रे = सप्तमे भावे, वा नवमे, वा आस्प- दे = दशमे भावे, सौम्यद्वये व्यवस्थिते चामरः योगः स्यात्। तत्फलं योग इत्य- नेन स्पष्टार्थकेन श्लोकेनाह ॥१३६-१३७॥ [ चक्रम्: चामरयोगः — तनु/लग्न: ॥. बु. शु. ल. १; व्यय: गु. ।; कर्म: १० मं. ।; धर्म: बु. शु. ॥.; जाया: बु. शु. ॥. ] लग्नका स्वामी अपनी उच्च राशिका होकर केन्द्रमें स्थित हो और गुरुसे दृष्ट हो तो “चामर” योग होता है। यदि लग्नमें, या सप्तममें या नवम, या दशममें दो शुभग्रह हों तो “चामर योग होता है ॥ १३६ ॥ चामर योग में उत्पन्न होनेवाला मनुष्य राजपूज्य, विद्वान्, वक्ता, पण्डित, वा राजा, सर्वज्ञ, वेदशास्त्रका अधिकारी और ७० वर्षतक जीनेवाला होता है ॥ १३७ ॥ अथ शङ्खयोगः। अन्योन्यकेन्द्रगृहगौ सुतशत्रुनाथौ लग्नाधिपे बलयुते यदि शङ्खयोगः। लग्नाधिपे च गगनाधिपतौ चरस्थे भाग्याधिपे बलयुते तु तथा वदन्ति १३८ शङ्के जातो भोगशीलो दयालुः स्त्रीपुत्रार्थक्षेत्रवान् पुण्यकर्मा। शास्त्रज्ञानाचारसाधुक्रियावान् जीवेल्लोके वत्सराणामशीतिः ॥ १३६ ॥ अधुना शङ्खयोगं तत्फलञ्चाह—अन्योन्येति। सुतशत्रुनाथौ = पञ्चमेशषष्ठेशौ, अन्यो- न्यकेन्द्रगृहगौ = परस्परं केन्द्रगतौ भवेतां, लग्नाधिपे = लग्नेशे यदि बलेन (स्वस्थानादि- वीर्येण) युते सति शङ्खनामको योगः स्यात्। अथ योगान्तरमाह—लग्नाधिपे, गगना- धिपतौ = दशमेशे च (च शब्दः पुनरर्थे) चरस्थे ( १।४।७।१० राशीनामन्यतमस्थे) सति, भाग्याधिपे = नवमेशे तु बलयुते तथाऽर्थाच्छङ्खयोगं वदन्ति मनीषिणः इति। तत्फ- लञ्च शङ्के जात इत्यादिना स्पष्टार्थेन श्लोकेनाहेति ॥ १३८-१३९ ॥ [ चक्रम् १: शङ्खयोगः ।. — १: शु. २ ल.; २: ३; ३: ४; ४: ५ बु.; ५: ६; ६: ७; ७: ८; ८: ९; ९: १० मं.; १०: ११; ११: १२; १२: १ ] [ चक्रम् २: शङ्खयोगः ॥. — १: २ ल.; २: ३; ३: ४ शु.; ४: ५; ५: ६; ६: ७; ७: ८; ८: ९; ९: १० श.; १०: ११; ११: १; १२: १ ]