जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 273, कुल 588 में से
संदर्भ में पढ़ेंराजयोगाध्यायः ।।७।। २४७ पुत्रेश और षष्ठेश परस्पर केन्द्रमें स्थित हों लग्नेश बलवान् हो तो “शङ्ख” योग होता है । लग्नेश और दशमेश चरराशिमें हों भाग्येश बली हो तो 'शङ्ख' योग होता है ॥ १४८ ॥ शंखयोगमें उत्पन्न होनेवाला भोगशील, दयालु, जीवान्, पुत्रवान्, क्षेत्रवान्, पुण्यकर्मा, शास्त्र ज्ञान द्वारा आचार और साधु क्रिया वाला और लोक में ८० वर्ष जीनेवाला होता है॥ अथ भेरीयोगः । स्वान्त्योदयास्तभवनेषु वियच्चरेषु कर्माधिपे बलयुते यदि भेरीयोगः । केन्द्रं गतौ सुरगुरोः सितलग्ननाथौ भाग्येश्वरे बलयुते तु तथैव वाच्यम् ॥१४०॥ दीर्घायुषो विगतरोगभया नरेन्द्राः बह्वर्थभूमिसुतदारयुताः प्रसिद्धाः । आचारभूरिसुखशौर्यमहानुभावाः भेरीप्रजातमनुजा निपुणाः कुलीनाः ॥१४१॥ इदानीं भेरीयोगं तस्य फलञ्चाह—स्वान्त्येति । स्वान्त्योदयास्तभवनेषु = द्वितीयद्वाद- शप्रथमसप्तमभावेषु, वियच्चरेषु = ग्रहेषु यथासम्भवं विद्यमानेषु यदि कर्माधिपे = दशमेशे बलयुते = सबले सति भेरीयोगो भवति । अथ च सुरगुरोः = बृहस्पतेः सकाशात्, केन्द्रं ( १।४।७।१० एतदन्यतमभावं ) गतौ, सितलग्ननाथौ = शुक्र-जन्मलग्रेशौ भवेतां, भा- ग्येश्वरे = नवमेशे तु बलयुते तथैव वाच्यमर्थात्भेरीयोगः स्यादिति वाच्यम् । तस्य भेरी- योगस्य फलं दीर्घायुष इत्यनेन सुखावगमेनोक्तमिति ॥ १४०-१४१ ॥ यदि दूसरे, बारहवें, लग्न और सप्तममें ग्रह हों दशमेश बली हो तो 'भेरी' योग होता है । वृहस्पतिसे केन्द्रमें शुक्र और लग्नेश हों और भाग्येश बलवान् हो तो "भेरी" योग होताहै ॥ भेरीयोगका जातक दीर्घायु, रोग-भयसे रहित, राजा, बहुत धन-भूमि-पुत्र-स्त्रीसे युत, प्रसिद्ध, आचारवान्, पूर्ण सुखी, पराक्रमसे युत, महानुभाव, प्रत्येक कार्यमें निपुण तथा कुलीन होता है ॥ १४१ ॥ | शु.चं.बु. २ | सू. १ | बृ. १२ | | २ | १ | १२ | | ३ | ११ | | ३ | ११ | | ४ | भेरी-योगः । | १० | | ४ बृ. | भेरी-योगः ॥ | मं. १० | | ५ | ९ | | ५ | ९ | | ६ | मं. ७ श. | ८ | | ६ | ७ शु. | ८ | अथ मृदङ्गयोगः । उच्चग्रहांशकपतौ यदि कोणकेन्द्रे तुङ्गस्वकीयभवनोपगते बलाढ्ये । लग्नाधिपे बलयुते तु मृदङ्गयोगः कल्याणरूपनृपतुल्ययशःप्रदः स्यात् ॥१४२॥ इदानीं मृदङ्गयोग उच्यते—उच्चेति । उच्चग्रहांशकपतौ = जन्मकाले यो ग्रहः | २ | ल. १ | | स्वोच्चराशिस्थः स यद्राशिसम्बन्धिनवांशे | ३ | | | व्यवस्थितो भवेत्तन्नवांशराशिप्तौ ग्रहे | ४ बृ. १२° | मृदङ्गयोगः | १० मं. | यदि लग्नात् केन्द्रकोणे ( १।४।७।१०।५।६ | | | | एतदन्यतमे ) याते, तुङ्गस्वकीयभव- | | ७ शु. | | नोपगते = स्वोच्चे वा स्वराशौ गतवति बलाढ्ये च, लग्नाधिपे = लग्नेशे तु बल-