भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 274, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 274

२४८ सटीकजातकपारिजाते- युते सति मृदङ्गयोगः स्यात् । अत्र यद्युक्तमुच्चग्रहांशकपताविति, तत्र यदि द्वौ बहवो वा ग्रहा उच्चस्थाः स्युस्तदा बलवतो ग्रहणं कार्यमिति । मृदङ्गयोगफलमाह-कल्याणरूपनृपतुल्य यशःप्रदः स्यादिति स्पष्टमेवेति ॥ १४२॥ यदि उच्चगत ग्रहका नवांशपति कोण या केन्द्रमेंहो और अपने उच्चगृही या स्वगृहीमें हो, बलवान् हो, और लग्नेश भी बली हो तो “मृदङ्ग” योग होता है । यह मृदङ्ग योग कल्याण, रूप और राजाके सदृश यश देनेवाला है ॥ १४२ ॥ अथ श्रीनाथयोगः । कामेश्वरे कर्मगते, स्वतुङ्गे कर्माधिपे भाग्यपसंयुते च । श्रीनाथयोगः शुभदस्तदानीं जातो नरः शक्रसमो नृपालः ॥ १४३ ॥ इदानीं श्रीनाथयोग उच्यते—कामेश्वर इति । कामेश्वरे = सप्तमभावेशे, कर्मगते=दश- मभावमुपगते, स्वतुङ्गे = स्वकीयोच्चराशि- मुपगते कर्माधिपे = दशमेशे, भाग्यपेन ( नवमेशेन ) संयुते च सति शुभदः श्रीनाथयोगः स्यात् । तदानीं ( श्रीनाथ- योगोपलक्षिते काले ) जातो नरः शक्र- समः = इन्द्रतुल्यः, नृपालः = राजा भवति ॥ १४३ ॥ [कुण्डली: १ ल. | १० शु. | ९ | ७ वृ. श. | मध्य: श्रीनाथ:] सप्तमेश कर्ममें हो और कर्मेश अपनी उच्च राशिमें स्थित होकर भाग्येशके साथ होतो “श्रीनाथ” योग होता है । इस योगका जातक इन्द्रके समान राजा होता है ॥ १४३ ॥ अथ शारदयोगः । योगः शारदसंज्ञकः सुतगते कर्माधिपे चन्द्रजे केन्द्रस्थे दिननायके निजगृहप्राप्तेऽतिवीर्यान्विते ॥ चन्द्रात् कोणगते पुरन्दरगुरौ सौम्यत्रिकोणे कुजे लाभे वा यदि देवमन्त्रिणि बुधात्तच्छारदासंज्ञकः ॥ १४४ ॥ स्त्रीपुत्रबन्धुसुखरूपगुणानुरक्ताः भूपप्रिया गुरुमहीसुरदेवभक्ताः । विद्याविनोदरतिशीलतपोबलाढ्याः जाताः स्वधर्मनिरता भुवि शारदाख्ये ॥१४५॥ इदानीं शारदयोगं तस्य फलञ्चाह—योग इति । कर्माधिपे = दशमेशे, सुतगते = पञ्च- मभावगते, चन्द्रजे = बुधे, केन्द्र-( १।४।७ १० भाव-) गते, दिननायके=सूर्ये, निजगृह- प्राप्ते = सिंहराशिमुपगतेऽतिवीर्यान्विते ( पूर्णबलयुक्ते ) शारदसंज्ञकः योगः स्यात् । योगा- न्तरमाह—पुरन्दरगुरौ=बृहस्पतौ, चन्द्रात् यत्र तत्र गतात्, कोणगते ( ९।५ भावगते ), कुजे=भौमे, सौम्यत्रिकोणे = बुधात् पञ्चमं नवमं वोपगते, अथवा देवमन्त्रिणि = गुरौ बुधात् यदि लाभे=एकादशमुपगते सति तच्छारदसंज्ञको योगो भवति ॥ शारदयोगफलमाह— स्त्रीपुत्रेत्यादिना स्पष्टार्थेन ॥ १४४-१४५ ॥