जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 277, कुल 588 में से
संदर्भ में पढ़ेंराजयोगाध्यायः ॥ ७ ॥ २५१ इदानीं लक्ष्मीयोगं तत्फलञ्चाह— केन्द्र इति। भाग्येशे=नवमभावेशे, मूल- त्रिकोणस्थे, वा परमोच्चगे सति केन्द्रे व्य- वस्थिते, लग्नाधिपे=जन्मलग्नेशे, बला- ढ्ये=स्थानादिवीर्य्युते च लक्ष्मीयोगः स्या- दिति मनीषिभिरीरितः=कथितः। तथाहि- परमोच्चगते केन्द्रे भाग्यनाथे शुभेक्षिते । लग्नाधिपे बलाढ्ये तु लक्ष्मीयोग इतीरितः॥ जातकादेशे ।
[कुंडली १: लक्ष्मीयोगः]
- लग्न (१): ल.
- चतुर्थ भाव (४): बृ. ५°
- नवम भाव (९): ९
- दशम भाव (१०): मं. १०
- मध्य: लक्ष्मीयोगः
एवं च—स्वर्क्षोच्चे यदि कोणकण्टकयुतौ भाग्येशशुक्रावुभौ लक्ष्म्याख्यः । इति फलदीपिकायाम् । लक्ष्मीयोगस्य फलञ्च सरलार्थेन 'गुणाभिराम' इति श्लोकेनोक्तमिति ॥१५२-१५३॥ यदि भाग्येश परमोच्चमें या मूलत्रिकोणमें होकर केन्द्रमें स्थित हो और लग्नेश बलवान् हो तो वह 'लक्ष्मीयोग' होता है ॥ १५२ ॥ इस लक्ष्मी योगमें जातक सुन्दर गुणवाला, बहुत देशका स्वामी, विद्या और कीर्तिसे युक्त तथा कामदेवके सदृश सुन्दर रूपवाला, दश दिशाओंमें राजोंसे पूजनीय, श्रेष्ठ राजा और बहुत स्त्री तथा पुत्रवाला होवे ॥ १५३ ॥ अथ कुसुमयोगः । स्थिरलग्ने भृगौ केन्द्रे त्रिकोणोन्दौ शुभेतरे । मानस्थानगते सौरे योगोऽयं कुसुमो भवेत् ॥ १५४ ॥ दाता महीमण्डलनाथवन्द्यो भोगी महावंशजराजमुख्यः । लोके महाकीर्तियुतः प्रतापी नाथो नराणां कुसुमोद्भवः स्यात् ॥१५५॥ इदानीं कुसुमयोगं तत्फलञ्चाह-स्थि- रलग्न इति । स्थिरलग्ने=२, ५, ८, ११ एतदन्यतमराशौ व्यवस्थिते भृगौ=शुक्रे, केन्द्रे गतवति, शुभेतरे = नवमभावरहिते, त्रिकोणोन्दौ=त्रिकोणगतचन्द्रे, ( त्रिकोण- शब्देन पञ्चमनवमौ भावौ गृह्येते तत्र 'शुभेतरे' इत्यनेन पञ्चमभाव एवावशिष्ट- स्तेन चन्द्रे पञ्चमभावगते इत्यर्थः ) सौरे= शनैश्चरे मानस्थानगते = दशमभावमुपगते
[कुंडली २: कुसुम योगः]
- लग्न (२): शु.
- द्वितीय भाव: ३
- तृतीय भाव: ४
- चतुर्थ भाव: ५
- पञ्चम भाव (६): चं.
- षष्ठ भाव: ७
- सप्तम भाव: ८
- अष्टम भाव: ९
- नवम भाव: १०
- दशम भाव (११): शः
- एकादश भाव: १२
- द्वादश भाव: १
- मध्य: कुसुम योगः ।
सति अयं योगः कुसुमः' भवेत् । तत्फलञ्च स्पष्टमेव ॥ १५४-१५५ ॥ स्थिर लग्नमें शुक्र केन्द्रमें हो, चन्द्रमा शुभतर त्रिकोणमें हो याने ५ वें भावमें हो और शनि दशवें हो तो यह "कुसुम" योग होता है ॥ १५४ ॥ कुसुम योगमें उत्पन्न जातक दानी, राजा से पूजित, भोगी, उत्तम कुलमें उत्पन्न, राजे में मुख्य, समस्त लोकोंमें यशस्वी, प्रतापी राजा होता है ॥ १५५ ॥ अथ पारिजातयोगः । विलग्ननाथस्थितराशिनाथस्थानेश्वरो वाऽपि [तदंशनाथः । केन्द्रत्रिकोणोपगतो यदि स्यात्स्वतुङ्गगो वा यदि परिजातः ॥ १५६ ॥