जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 329, कुल 588 में से
संदर्भ में पढ़ेंमान्द्यब्दादिफलाध्यायः ॥६॥ ३०३ त्रयोविंशतिनक्षत्रं वैनाशिकमिति स्मृतम् । जातिदेशाभिषेकाख्याः पञ्चविंशादितारकाः ॥ ८० ॥ जन्मतारादयो यस्य विद्धाः पापवियच्चरैः । सद्यो मृत्युकरास्तस्य शुभैः शुभफलप्रदाः ॥ ८१ ॥ अधुना ताराऽपरनामकानि कानिचिन्नक्षत्राणि कथ्यन्ते । यस्मिन्नक्षत्रे जन्म भवति तदाद्यं ( जन्मर्क्षम् ) प्रथममिति । जन्मर्क्षाद्दशमं नक्षत्रं कर्मसंज्ञकम् । षोडशकं साङ्घाति- कमार्या वदन्ति । अष्टादशं नक्षत्रं समुदायसंज्ञकम् । एकोनविंशतितमम् (१९) नक्षत्रं आधा- नसंज्ञकम् । त्रयोविंशतितमं नक्षत्रं जातिसंज्ञम् । षड्विंशं देशाख्यम् । सप्तविंशं च अभिषेक- संज्ञकमुक्तम् । प्रयोजनमुच्यते । जन्मतारादय इति । यस्य जातस्य जन्मतारादयः परिभा- षितास्ताराः पापवियच्चरैः = पापग्रहैः विद्धाः = सप्तशलाकाचक्रे विद्धाः स्युस्तस्य जातस्य सद्यः = शीघ्रमेव मृत्युकारा भवन्ति । यदि तास्ताराः शुभग्रहैर्विद्धा भवेयुस्तदा जातस्य शुभ- फलप्रदा भवन्तीति ॥ ७९-८१ ॥ जन्म नक्षत्र की “आद्य” दशमकी “कर्म” सोलहवें की “सांघातिक” अठारहवें की “समु- दाय” उन्नीसवेंकी “आधान” और तेईसवेंकी “वैनाशिक” संज्ञा कही है । पच्चीसवें आदि की “जाति-देश-अभिषेक” संज्ञा है ॥ ७९-८० ॥ जिसके जन्म तारादिक पाप ग्रहसे वेध हो उसकी तुरन्त मृत्यु होती है और शुभ ग्रहसे वेध हो तो जन्मादि तारा शुभफल देनेवाली होती है ॥ ८१ ॥ अथ गण्डदोषापवादः । वैशाखे श्रावणे माघे फाल्गुन्यां व्योमसम्भवम् । आषाढपुष्यसौम्येषु ज्येष्ठे मासि च मानुषम् ॥ ८२ ॥ अश्वयुक्चैत्रकार्तिक्यां भाद्रे च बिलसम्भवम् । मर्त्ये मृत्युर्गण्डदोषः पाताले नास्ति पुष्करे ॥ ८३ ॥ जातमात्रे कुमारस्य मुखमालोकयेत्पिता । पितॄणात्स विमुच्येत पुत्रस्य मुखदर्शनात् ॥ ८४ ॥ पूर्वमुक्ता ये गण्डदोषास्तेषामपवाद उच्यते । वैशाखे, श्रावणे, माघे, फाल्गुन्यां ( फ- ल्गुनीयुक्तायाम् ) फाल्गुने चेति मासचतुष्टये व्योमसम्भवमाकाशसञ्जातं गण्डमुक्तम् । आषाढ़ः प्रसिद्धः, पुष्यः = पौषमासः, सौम्यो मार्गमासस्तेषु, ज्येष्ठे च मासि मानुषं = मनु- षbloकोद्भवं गण्डान्तं ज्ञेयम् । अश्वयुगाश्विनो मासः । चैत्रः प्रसिद्धः, कार्त्तिकी = कार्त्तिक- मासः । भाद्रो भाद्रमास इति मासचतुष्टये बिलसम्भवं = पाताललोकोद्भवं गण्डान्तं ज्ञेयम् । अभिप्राय उच्यते । मर्त्ये ( ज्येष्ठआषाढमार्गपौ ) षेतिमासचतुष्टये ) जातस्य गण्डदोषो मृत्युर्भ- वति । पाताले ( चैत्रभाद्राश्विनकार्त्तिकेषु ) पुष्करे = आकाशे “व्योमपुष्करमम्बरमित्यमरः” ( वैशाखश्रावणमाघफाल्गुनेषु ) च जातस्य गण्डदोषो न भवतीति । यत्रोद्भवं गण्डं तत्रैवा- निष्टं करोतीति भावः । अथ पितृकर्त्तव्यमुच्यते । पिता जातमात्रे = त्वरितं जायमाने कुमारे तस्य कुमारस्य मुखमालोकयेत् । तत्र कुमारमुखसन्दर्शने हेतुरुच्यते । सः पिता पुत्रस्य मुखदर्शनात् पितॄणात=पितॄणां ऋणात् पितृयज्ञात् ( पितृश्राद्धतर्पणादिरूपात् ) विमुच्येत । पुन्नाम्नो नरका- स्त्रायत इति पुत्रशब्दव्युत्पत्त्या यस्य पुत्रोद्गमो न भवत्यसौ पितृणग्रस्तो नरकं व्रजति । ‘अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च, इति वचनाच्च पुत्रोदयादेव पितुर्नरकात्प- 21 रित्राणमिति जातमात्रे पुत्राननमालोकनीयमिति ॥ ८२-८४ ॥