भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 328, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 328

३०२ सटीकजातकपारिजाते- ग्रहपीडितनक्षत्रे जातो रोगनिपीडितः । ग्रहमुक्ते काञ्चितर्चें दत्तपुत्रो भवेत्सुतः ॥ ७६ ॥ व्यतीपातेऽङ्गहीनः स्यात् परिघे मृत्युमाप्नुयात् । वैधृतौ पितरं हन्ति विष्कम्भे चार्थहानिकृत् । शूले तु शूलरोगी स्याद् गण्डे गण्डमवाप्नुयात् ॥ ७७ ॥ इदानीं योगजातगण्डमुच्यते । यस्मिन्नक्षत्रे पितुर्जन्म वरीवर्त्ति तन्नक्षत्रे तथा कर्म्म- क्षै = दशमनक्षत्रे च जातो जायमानो बालकः पितृविनाशको भवति । तथा पितुर्जन्मराशे- र्नवांशे तल्लग्ने च जातः सद्य एव पितृमृत्युप्रदो भवति । अन्यत्स्पष्टार्थकमैव ॥ ७३-७७ ॥ पिताके जन्म-नक्षत्र या १० वें नक्षत्रमें उत्पन्न बालक पिताका नाश करता है। पिताके जन्म राशिके नवांशमें जायमान तथा उस लग्नमें उत्पन्न जातक तुरन्त पिताको मृत्यु देता है । मुसल और मुद्गर योगमें उत्पन्न जातक शुभनाशक होता है । अङ्गारमें जायमान बालक दरिद्र होता है। गुलिकमें उत्पन्न अङ्गहीन होता है । रिक्ताका पैदा हुआ बच्चा नपुंसक होता है । यमघंट योगोत्पन्न कुमार लङ्गड़ा होता है । ग्रहपीडित नक्षत्रमें जायमान बालक रोगसे पीड़ित रहता है । ग्रहमुक्त और काञ्चितर्चमें दत्तक पुत्र होता है । व्यती- पातमें अङ्गहीन होता है । परिघमें मृत्यु होती है । वैधृतियोगका उत्पन्न पिताका नाश करता है । विष्कम्भका जायमान धननाश करता है । शूलोत्पन्न शूल रोगी होता है । गण्डवालेको गंड रोग होता है ॥ ७३-७७ ॥ अथ दन्तोद्गमफलम् । सदन्तजातः कुलनाशकारी द्वितीयमासादिचतुष्टयान्ते । दन्तोद्भवो मृत्युकरः पितुः स्यात् षष्ठे शिशोस्तत्परतः शुभं स्यात् ॥ ७८ ॥ अथ जातकस्य दन्तोद्गमे फलमुच्यते । यदि बालो दन्तयुक्तो जायते तदाऽसौ कुल- नाशकारी भवति । जन्मानन्तरं द्वितीयमासादिचतुष्टयान्ते = द्वितीयमारभ्य पञ्चममासं याव- च्छिशोर्दन्तोद्भवः पितुर्मृत्युकरः स्यात् । षष्ठे मासे दन्तोद्भवः शिशोरेव मृत्युकरो भवति । परतः = सप्तमादिमासेषु दन्तोद्भवश्चेत्तदा शुभं वाच्यमिति । परञ्चात्र दन्तजनने फलवैष- म्यं दृश्यते— “मासे चेत्प्रथमे भवेत्सदशनो बालो विनश्येत्स्वयं हन्यात्स क्रमतोऽनुजातभगिनीमात्रग्रजान् द्व्यादिके ॥ षष्ठादौ लभते हि भोगमतुलं तातात्सुखं पुष्टतां लक्ष्मीं सौख्यमथो जनौ सदशनो बोध्यं स्वपित्रोर्दिहा” ॥ इति रामाचार्यवचनात् , तथा— प्रथमे दन्तजननात्स्वयमेव विनश्यति । द्वितीये भ्रातरं हन्ति तृतीये भगिनीं तथा ॥ चतुर्थे मातरं हन्ति पञ्चमे चात्मनोऽग्रजम् । षष्ठे च मन्त्रजीवी स्यात्सप्तमे पितुसौख्यदः ॥ अष्टमे पुष्टिजनको नवमे लभते धनम् । लभते दशमे मासि सौख्यमेकादशेऽपि वा ॥ द्वादशे धनसम्पत्तिर्दन्तानां जनने फलम् ॥ इति चण्डेश्वरवचनाच्चेति ॥ ७८ ॥ दाँतके सहित उत्पन्न बालक कुलका नाशक होता है । दूसरे माससे ४ मास तक दांत होनेसे बालक पिताका, षष्ठमें शिशुका नाश करेगा । सप्तम आदि मासोंमें दन्त उत्पन्न होनेसे शुभ होगा ॥ ७८ ॥ अथ जन्मताराद्यः । जन्मर्क्षमाद्यं दशमन्तु कर्म साङ्घातिकं षोडशभं वदन्ति । अष्टादशं स्यात् समुदायसंज्ञमाधानमेकोनतविंशतिः स्यात् ॥ ७९ ॥

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक) · पृष्ठ 328, कुल 588 में से · BharatKosha