भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 327, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 327

मान्द्यब्दादिफलाध्यायः ॥६॥ ३०१ यदि अभुक्त मूलका बालक जीवे तो अपने वंशका कर्त्ता, श्रीमान् और बहुत सेनाका मालिक होवे ॥ ६८ ॥ अथ तिथिदोषः । कृष्णपक्षे चतुर्दश्यां षडंशे प्रथमे शुभम् । द्वितीये पितरं हन्ति तृतीये मातरं तथा ॥ ६९ ॥ चतुर्थे मातुलं हन्ति पञ्चमे भ्रातृनाशनम् । षष्ठे यदि शिशुं हन्ति गण्डदोष इतीरितः ॥ ७० ॥ अमायां तु प्रजातानां गजानां वाजिनां तथा । गवां च महिषादीनां मनुष्याणां विशेषतः ॥ ७१ ॥ सिनीवालीप्रजातानां त्याग एव हि सर्वदा । विशेषाच्च कुहूत्यानां शान्तिं कुर्याद्विधानतः ॥ नारीं विनाऽवशेषाणां परित्यागो विधीयते ॥ ७२ ॥ इदानीं तिथिगण्डमुच्यते । कृष्णपक्षे . चतुर्दशीतिथिमानं षड्भक्तं कार्यं तत्र प्रथमे षडंशे जातस्य शुभम् । तत्र प्रथमे षडंशे गण्डदोषो न भवतीति भावः । अन्यत्स्पष्टमेव । अथामायां तिथौ जायमानानां गजानां = हस्तिनां, वाजिनामश्वानां, गवां, महिषादीनां च तथा मनुष्याणां विशेषतो निश्चयेन त्याग एव कर्त्तव्यः । यदि साऽमा सिनीवाली भवति । अथ कुहूसंज्ञकामायां तिथौ जातानामेतेषां दोषपरिहारार्थं विधानतः = पद्धतिक्रमेण शान्तिं कुर्यात् । एतदुक्तं भवति । सिनीवाल्यामुत्पन्नानां गजादीनां त्यागः प्रकर्त्तव्यः, कुहूजा- तानां विशेषेण त्यागः कर्त्तव्यः । अत्र सिनीवालीकुहूद्दर्शयोर्लक्षणमुच्यते । यस्याममायां चन्द्रस्य काचित्कला दृश्यते सा सिनीवाली भवति, अर्थात् सा चतुर्दशीयुक्ता भवति । यस्याममायां चन्द्रस्य कलाः पूर्णतया परिक्षीणा भवन्ति, सा कुहूनाम्नी भवति । अर्थात् सा शुद्धाऽमेति । “सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः” । इत्यमरसिंहवचनात् । तत्र त्यागाशक्तौ तद्दोषप्रशमनार्थं शान्तिः प्रकर्त्तव्या । अत्र मनुष्यस्य परित्यागे मोहसम्भवान्नरयोनिं विनाऽवशेषाणां गजादिपशुजातीनां परित्याग एवो- त्तमः पक्षो विधीयते ॥ ६९-७२ ॥ कृष्णपक्षकी चतुर्दशीके पहला षडंश (तिथिमानका छठवां हिस्सा) शुभ है, दूसरे अंशका गण्डदोष पिताका, तीसरे अंशका माताका, चौथे अंशमें जायमान मामाका, पांचवें अंशमें उत्पन्न भाईका नाश करता है। छठे अंशका गंड बालकका नाश करता है ॥६९-७० ॥ अमावस्यामें उत्पन्न होनेवाले हाथी-घोड़ा-गाय-भैंसोंको और विशेषतः मनुष्योंको अनिष्ट होता है । सिनीवाली अमावसमें उत्पन्न हो तो सर्वदा त्याग करे, कुहू अमावसके [L3