जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 326, कुल 588 में से
संदर्भ में पढ़ें३०० सटीकजातकपारिजाते- पादे तृतीये चित्रायाः पूर्वार्द्धे यमभस्य च। तृतीयांशेऽर्कतारायाश्चतुर्थांशेऽन्त्यभस्य च ॥ जातस्तु पितरं हन्ति जाता चेन्मातरन्तथा ॥ ६३ ॥ पूर्वाषाढे नक्षत्रे धनुर्धरराशिलग्ने जातः पितृविनाशको भवति । तत्र जातस्य पिता म्रियते इति । पुष्ये नक्षत्रे कर्कटके लग्ने च जातस्तथैव पितृमृत्युकरो भवेत् ॥ ६० ॥ पूर्वाषाढे पुष्ये च नक्षत्रे प्रथमांशक्तः = प्रथमचरणक्रमात् पितरं, मातरं, सुतं, मातुलं च जातः शिशुः हन्यात् । पूर्वाषाढस्य पुष्यस्य च प्रथमे चरणे जातो बालकः पितृ- नाशो भवति । द्वितीयचरणे मातरं नाशयति । तृतीयचरणे बालकमेवं चतुर्थचरणे मातुलं नाशयति ॥ ६१ ॥ उत्तराफल्गुनीनक्षत्रस्य प्रथमे चरणे, तिष्य-(पुष्य-) नक्षत्रस्य मध्यस्थपादयोरुभयोः द्वितीयतृतीयचरणयोः, चित्रायास्तृतीये पादे, यमभस्य = भरणीनक्षत्रस्य पूर्वार्द्धे च, अर्कता- रायाः = हस्तनक्षत्रस्य तृतीयांशे = तृतीयपादे तथाऽन्त्यभस्य = रेवतीनक्षत्रस्य चतुर्थांशे = चतुर्थचरणे जातस्तूतृपक्षो बालकस्तु पितरं हन्ति तथा यदि चेत्तत्र जाताऽर्थातन्न कन्या जायते तदा मातरं हन्ति ॥ ६२-६३ ॥ पूर्वाषाढ़में धनु लग्नमें उत्पन्न हुआ बालक पिताका नाश करे । पुष्यमें कर्क लग्नमें उत्पन्न हो तो पिताकी मृत्यु करनेवाला होवे ॥ ६० ॥ पूर्वाषाढ़ और पुष्यमें बालक प्रथमांशकके क्रमसे पिता, माता, बालक तथा मामाका नाश करता है ॥ ६१ ॥ उत्तराफल्गुनीके प्रथम चरणमें, पुष्य नक्षत्रके मध्यके दोनों चरणोंमें, चित्राके तीसरे चरण में भरणीके पूर्वार्द्धमें, हस्तके तृतीय पादमें और रेवती नक्षत्रके अन्त्य चरणमें पुत्रके जन्मसे पिताको, कन्याके जन्मसे माताको अनिष्ट होता है ॥ ६२-६३ ॥ अथ गण्डकालः । षोडशाब्दास्तुरङ्गाद्ये मघाद्ये चाष्टवत्सराः ॥ ६४ ॥ एकाब्दः शक्रतारायां चत्वारस्त्व्राष्ट्रमूलयोः । सार्पे वर्षद्वयं चैव रेवत्यामेकवत्सरः ॥ ६५ ॥ द्वौ मासौ चोत्तरादोषः पुष्यर्क्षे तु त्रिमासकम् । नवमे मासि पितरं पूर्वाषाढोद्भवं हरेत् ॥ ६६ ॥ हस्तर्क्षे यदि जातस्तु पितरं द्वादशाब्दके । अभुक्तमूलजः पुत्रः पितरं हन्ति तत्क्षणात् ॥ ६७ ॥ अभुक्तमूलजनितो यदि जीवति मानवः । निजवंशकरः श्रीमान् बहुसेनाधिपोऽथवा ॥ ६८ ॥ गण्डान्ते यान्युक्तान्यशुभफलानि तानि कियद्भिर्दिनैः फलन्तीत्यत्रोच्यते । स्पष्टार्थाश्चैते श्लोकाः । एतेषां दोषाणां परिहारार्थं प्रत्येकस्य शान्तिः प्रकर्त्तव्या । शान्तिविधिः शान्ति- पद्धतौ द्रष्टव्यः । इति ॥ ६४-६८ ॥ अश्विनीके आदि चरणमें जायमान गण्डदोष १६ वर्षमें । मघाके आदिचरणोत्पन्न ८ वर्षमें, ज्येष्ठामें उत्पन्न एक वर्षमें, चित्रा और मूलमें उत्पन्न ४ वर्षमें, श्लेषामें उत्पन्न २ वर्षमें । रेवतीमें उत्पन्न १ वर्षमें, उत्तराका दोष २ मासमें, पुष्यका दोष ३ मासमें होता है। पूर्वाषाढ़में उत्पन्न ९ वें मासमें पिताको अनिष्टकारक होता है । हस्तके गण्डमें यदि बालक उत्पन्न हो तो १२ वें वर्षमें पिताका संहार करे। अभुक्त मूलका उत्पन्न बालक उसी क्षण पिताका नाश करता है ॥ ६४-६७ ॥