भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 337, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 337

मान्द्यब्दादिफलाध्यायः ॥६॥ ३१९ अधुना द्रेष्काणफलानि विवक्षुरादौ द्रेष्काणसंज्ञा उच्यन्ते । कण्ठीरवाजघटकीटमृगान- नाद्याः = सिंह-मेष-कुम्भ-वृश्चिक-मकरराशीनां प्रथमद्रेष्काणाः, मीनालिसिंहवणिगन्त्यगताः = मीन-वृश्चिक-सिंह-तुलाराशीनां तृतीयद्रेष्काणाः, कटकस्य = कर्कराशेः, सरीसृपस्य = वृश्चि- कस्य च मध्यस्थितो द्वितीयद्रेष्काणश्चैते एकादश क्रूराः = क्रूरसंज्ञका द्रेष्काणा भवन्तीति बहुशः सन्तः प्रवदन्ति । कुलीरमीन।दिगतौ = कर्क-मीनराश्योः प्रथमद्रेष्काणौ, मीनाङ्गनाम- न्दिरमध्यगौ = मीनकन्याराश्योर्द्वितीयद्रेष्काणौ, गोयुग्मयोरन्त्यगतत्रिभागौ = वृषमिथुनयोस्तृ- तीयद्रेष्काणौ चैत् षट् तोयचराः = जलचराख्या दृकाणा उच्यन्ते विज्ञैः । मेषाश्विगोकुम्भ- मृगद्वितीयः = मेषधनुर्वृषकुम्भमकरराशीनां द्वितीयद्रेष्काणाः, तुलाधरस्त्रीयुगपूर्वभागः = तुला- कन्यामिथुनराशीनां प्रथमद्रेष्काणाः, चापाङ्गनातोयधरान्त्ययाताः = धनुःकन्याकुम्भराशीनां तृतीयद्रेष्काणाश्चैते एकादश सौम्याः = सौम्यसंज्ञका द्रेष्काणा प्रभवन्ति । मृगाजकर्कान्त्य- गताः = मकरमेषकर्कराशीनां तृतीयाः, वृषस्य, चापस्य (धनुषः) च राशेः पूर्वयातौ प्रथम- द्रेष्काणौ, नृयुग्मतौलीहरिमध्यगाः = मिथुनतुलासिंहानां द्वितीयाश्चैतेऽष्टौ विमिश्रसंज्ञा द्रे- ष्काणा भवन्तीति मनीषिणः संवदन्ति । द्रेष्काणजातफलमुच्यते । क्रूरद्रेष्काणजात इति स्पष्टार्थः । जन्मलग्ने यो द्रेष्काणस्तत्फलं वाच्यमिति ॥ ११३–११७ ॥ द्रेष्काणानां संज्ञाचक्रम्

राशयःद्रेष्काणाःसंज्ञा
५।१।११।८।१०क्रूराः
१२।८।५।७११
४।८
४।१२जलचराः
१२।६
२।३
१।९।२।११।१०सौम्याः
७।६।३११
९।६।११
१०।१।४विमिश्राः
२।९
३।७।५
सिंह, मेष, कुम्भ, वृश्चिक, मकर, इन राशियोंका पहला द्रेष्काण, मीन, वृश्चिक, सिंह,
तुला इन राशियों के अन्तिम द्रेष्काण और कर्क-वृश्चिक का मध्य द्रेष्काण क्रूर
संज्ञक होते हैं ॥ ११३ ॥
कर्क-मीनके आदि द्रेष्काण, मीन-कन्याका मध्य द्रेष्काण, वृष-मिथुनके अन्त्यका
त्रिभाग ( द्रेष्काण ) ये छै तोयचर द्रेष्काण होते हैं ॥ ११४ ॥
मेष-धनु-वृष-कुम्भ-मकर इन राशियोंका द्वितीय; तुला, कन्या, मिथुनका प्रथम
द्रेष्काण और धनु-कन्या, कुम्भके अन्त्य द्रेष्काण सौम्य संज्ञक होते हैं ॥ ११५ ॥
मकर, मेष, कर्क इन राशियोंके अन्त्य द्रेष्काण, वृष-धनुका पहला द्रेष्काण, मिथुन-
तुला-सिंहके मध्य द्रेष्काणकी विमिश्र संज्ञा कहते हैं ॥ ११६ ॥
जिस मनुष्यका जन्म क्रूर द्रेष्काणमें हो वह खल बुद्धि, घूमनेवाला, पापकमी, अपवादी
होता है । तोय भागमें उत्पन्न जो बालक है वह दाता, ओगी, दयालु, कृषि तथा जलचर
वस्तुसे बलवान् और शौर्य रहित होता है ।