जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 342, कुल 588 में से
संदर्भ में पढ़ेंर्भेषु' इति वृद्धवाक्यमनुस्मरन् स्थिराष्टकवर्गस्यावसरप्राप्तौ सलग्नाखिलखेटेभ्यो गोचरेण प्रतिराशि विचरत एकैकस्य गगनेचरस्य सदसत्फलनिरूपणार्थमष्टकवर्गा निरूप्यन्ते । तेषु चाष्टकवर्गेषु सर्वेभ्यो ग्रहेभ्य एकैकस्य शुभस्थानानि पठितानि । यानि चापठितानि तान्यशुभानि । शुभस्थानानि बिन्दूपलक्षितानि, अशुभानि च रेखोपलक्षितानि क्रियन्ते । तानि शुभचिह्नानि ( बिन्दुरूपाणि ) प्रत्येकस्य ग्र्हस्य कियन्ति कियन्तीति प्रोच्यते- चक्रमिति श्लोकयुगलेन । लग्नदिवाकराद्यैः = सूर्यादयः सप्त ग्रहा लग्नञ्चेत्यष्टौ भवन्ति तैः, सह = सहितं, चक्रं विलिख्यार्थाज्जन्मकालिकचक्रे यथावस्थानं सलग्नं ग्रहमण्डलं विलिख्य तस्मिन्, सूर्यादिलग्नभवनान्तविद्यच्चराणामष्टानां, वाच्याष्टकोपगताः = प्रत्येकग्रहवशादुत्पन्नाः, ये वर्णा-(शुभचिह्नानि ) स्ते नियोजिताः = सङ्कलिताश्चेद्भ- वेयुस्तदा भिन्नाष्टवर्गजनिताखिलबिन्दवः स्युः । ते सङ्कलिताः बिन्दवः पृथक् पृथक् प्रत्ये- कस्य ग्रहस्योच्यन्ते-देवो धव इत्यादयः । सूर्यस्य देवः = ४८ अष्टचत्वारिंशत् । ( अत्र कटपयवर्गभवैरिहेत्यादिसङ्ख्यावगमनसंकेतेनावगम्या अङ्काः ) । चन्द्रस्य, धवः = ४९ उनपञ्चाशत् । कुजस्य धीगः = ३९ ऊनचत्वारिंशत् । बुधस्य वशः = ५४ चतुःपञ्चाशत् । गुरोः तमः = ५६ षट्पञ्चाशत् । शुक्रस्य रसाः = ५२ द्विपञ्चाशत् । शनेः धूलिः = ३९ ऊन- चत्वारिंशत् । एते किल सूर्यादिसप्तखेटानां सङ्कलिताः शुभबिन्दवः पृथक् पृथगुक्तास्ते- षामपि संयोगेन समुदायबिन्दवः सालोल-(३३७) सङ्ख्याः = सप्तत्रिंशदधिकशतत्रयमिता भवन्ति । प्रतीत्यर्थं तद्गणितं, ४८ + ४९ + ३९ + ५४ + ५६ + ५२ + ३९ = ३३७ । अत्र यदुक्तं 'समुदायबिन्दवः' इति तत्को नाम समुदायस्तदुच्यते, सर्वाष्टवर्गः समुदाय- संज्ञ इति । अथात्र प्रसङ्गात् प्रत्येकस्य ग्रहस्याष्टकवर्गा वराहोक्ता विलिख्यन्ते—
सूर्याष्टकवर्गः—स्वादर्कः $^{१}$प्रथमाय$^{११}$बन्धुनिधना$^{८}$द्गम्या$^{२}$ $^{१०}$ज्ञात$^{९}$पोषूनगो$^{७}$ षष्ठात् स्वाद्विध, तद्वदेव रविजात्, शुक्रात् स्मरान्त्यारिषु$^{७\ १२\ ६}$ । जीवात् धर्म$^{९}$सुता$^{५}$यशत्रुषु$^{११\ ६}$, दश$^{१०}$त्र्या$^{३}$या$^{११}$रिगः$^{६}$ शीतगोः एष्वेवान्त्य$^{१२}$तपः$^{९}$सुतेषु$^{५}$ च बुधात्, लग्नात् सबन्ध्वन्त्यगः$^{४\ १२}$ ॥ १ ॥
चन्द्राष्टकवर्गः—लग्नात् षट्$^{६}$त्रि$^{३}$दश$^{१०}$ायगः$^{११}$, सधन$^{२}$धी$^{५}$धर्मेषु$^{९}$ वाराच्छशात् स्वात् सास्ता$^{७}$दिषु$^{८}$, साष्ट$^{८}$सप्तसु$^{७}$ रवेः, षट्$^{६}$त्र्या$^{३}$य$^{११}$धीस्थो$^{५}$ यमात् । धीत्र्यायाष्टमकण्टकेषु शशिजात्, जीवाद् व्ययायाष्टगः, केन्द्रस्थश्च, सितात्तु धर्मसुखधीत्र्यायास्पदस्नानगः ॥ २ ॥
भौमाष्टमीवर्गः—वक्रस्तूपचयेष्विनात्, सतनयेष्वाद्याधिके पूष्यात्, चन्द्राद् दिग्विषफलेषु, केन्द्रनिधनप्राप्त्यर्थगः स्वाच्छुभः । धर्म्याष्टमकेन्द्रगोऽर्कतनयात् ज्ञात् षट्त्रिधीलाभगः, शुक्रात् षड्द्व्ययलाभमृत्युषु, गुरोः कर्मन्त्यलाभारिषु ॥ ३ ॥
बुधाष्टकवर्गः—द्यायायाष्टपःसुखेषु भृगुजात् सन्त्यात्मजेष्विन्दुजः, साह्लास्तेषु यमारयोः व्ययरिपुप्राप्त्यष्टगो वाक्पतेः । धर्म्यारिसुतव्ययेषु सवितुः, स्वात् साधकर्मत्रिगः षट्स्वायाष्टमुखास्तदेषु हिमगोः, सायेषु लग्नाच्छुभः ॥ ४ ॥
गुरोरष्टकवर्गः—दिक्स्वायाष्टमदायबन्धुषु कुजात्, स्वात् सन्निकेन्द्यङ्गिराः, सूर्यात् सन्त्रिनवेषु, धीस्वनवदिग्लाभारिगो भार्गवात् ।