जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 346, कुल 588 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ का सम्पूर्ण पाठ देवनागरी में पंक्ति-दर-पंक्ति दिया गया है:
३२० सटीकजातक्रपारिजाते- द्विको मनस्तापनृपालचोरकृतापवादाशननाशनानि ॥ ५ ॥ त्रिकैस्त्वसञ्चारकृशावलम्बकलेवरव्याकुलमानसानि । सुखासुखार्थव्ययवित्तलाभफलप्रदः सागरबिन्दुकः स्यात् ॥ ६ ॥ सद्रत्नलाभसुतलालनाधुसङ्गविद्याधनानि कुरुते च सपञ्चबिन्दुः । षड्बिन्दुकस्तु नवमोहनरूपशीलसङ्ग्रामजिद्धनयशोवलवाहनानि ॥ ७ ॥ सप्तप्रबिन्दुस्तुरगादयानसेनाधनप्राभवशोभनानि । बिन्द्वष्टकः सप्तगुणाभिरामराजप्रतापं प्रकटीकरोति ॥ ८ ॥ इदानीमिष्टकालाष्टकवर्गे बिन्दुसङ्ख्यापरत्वेन भावग्रहफलान्युच्यन्ते । मेषादीति षड्भिः लोकैः मेषादिके यस्मिन् गृहे पूर्वोक्तविचारेणाष्टौ बिन्दवः (शुभचिह्नानि) भवेयुस्तद्भाव- स्य ते ग्रहबिन्दवः पुष्टिकरा भवन्ति । एतदुक्तं शेयम् । यस्य ग्रहस्याष्टकवर्गो विचार्यते तस्य ग्रहस्य यस्मिन् भावे सर्वेभ्य एव ग्रहेभ्यः शुभत्वं (अष्टावपि बिन्दवो भवेयुः) स्या- त्तदा तस्य भावस्य तद्ग्रहवशात्पुष्टिर्भवति, अर्थात्चारवशात्तद्भावे समागते तस्मिन् ग्रहे तद्दशायां च तद्भावफलस्य वृद्धिवच्येति । एवं षट्पञ्चसप्तबिन्दुयुतानि भानि शुभफलदानि भवन्ति । यस्मिन् यस्मिन् भावे पञ्च, षट्, सप्त वा बिन्दवो भवन्ति तस्मिन् तस्मिन् शुभं फलं वाच्यमिति । सागरबिन्दुयोगे = यत्र भावे चत्वारो बिन्दवः स्युस्तस्मिन्, मिश्रं फलं = शुभमशुभं च फलं भवति । ये च शून्यभावा अर्थात् येषु भावेषु नैकोऽपि शुभबिन्दुः स्यात् किन्तु सर्वा (अष्टौ) रेखा एव भवेयुस्ते भावा रोगापवादभयदा भवन्ति । अत एकादि- बिन्दुयुतानां सूर्यादिग्रहाणां भिन्नाष्टवर्गजनितं = तत्कालेऽष्टकवर्गात् समुद्भूतं सर्वफलं = शुभाशुभं, प्रवच्मि = कथयाम्यहं ग्रन्थकार इति । स्पष्टमन्यत्सर्वमित्यलं पल्लवितेन । अत्र
(चित्र: कुण्डली चक्र)
| भाव/स्थान | विवरण |
|---|---|
| १ (लग्न) | ल. १२ शु. ०१०।।।१।। |
| २ | सं. १० ।।०८०८० |
| ३ | ११।।।।०:०० |
| ४ | सु. ।। ।। ०८० |
| ५ | बु. चं. ।। ।। ०० |
| ६ | ३ ।।।।।०८० |
| ७ | ९ ।। ।।।। ०० |
| ८ | ४ ।। ।। ०८०० |
| ९ | ६ ०८ ।। ।। |
| १० | ८ ०।।।।।।। |
| ११ | वृ. ८ ।।।००००० |
| १२ | श. ७ ।। : ०:०:० |
किल यदुक्तं बिन्दुपरत्वेन शुभाशुभं फलं तत्र बिन्दूनामधगमप्रकार उच्यते । यत्र तत्र भावे वर्त्तमानो यः कश्चिद् ग्रहो यावद्भ्यो ग्रहेभ्यः शुभस्तावन्तस्तस्य तत्र बिन्दवो लेख्याः। यावद्भ्यो ग्रहेभ्योऽशुभस्तावत्यो रेखा लेख्याः। एवं बिन्दूनां रेखाणाञ्चान्तरे कृते यदवशिष्येत तद्वशात् उक्तं शुभाशुभं वाच्यम् । तत्र शुभफले रेखापेक्षया बिन्दुभि- रधिकैर्भवितव्यमिति । उदाहरणार्थं भौमाष्टकवर्गचक्रं विलिख्यते- अत्रोदाहरणे-'वक्रस्तूपचयेष्विनादित्यादि'-बृहज्जातकोक्त श्लोकवशात् मेषे त्रयो बि- न्दवः पञ्च रेखाश्च विद्यन्ते तत्रान्तरेण रेखाद्वयमवशिष्यते । तेन गोचरवशाद्यदा भौमो मेष- स्यो भवेत्तदाऽष्टभागद्वयेनाशुभः स्यादिति । वृषे बिन्दुत्रयं रेखापञ्चकं च विद्यते, तत्रान्तरेण रेखाद्वयमवशिष्टमिति वृषेऽपि चारवशादागते भौमेऽष्टभागयुगलेनाशुभं फलं वाच्यम् । मिथु- नेऽपि तथैव । कर्के बिन्दुचतुष्कं रेखाचतुष्कं च, तत्रान्तरेण किमपि नावशिष्टमिति तत्र नापि शुभं नाप्यशुभं चेति । सिंहे बिन्दुषट्कं रेखात्रयं चास्ति, तत्रान्तरेण बिन्दुद्वयमवशिष्टमिति सिंहस्थो गोचरीयो भौमोऽष्टमभागद्वयेन शुभो भवेत् । एवं किल कन्यायामष्टभागचतुष्के- नाशुभः । तुलायामष्टभागद्वयेन शुभः । वृश्चिके षड्गुणितेनाष्टभागेनाशुभः । धनुषि अष्टभा- गचतुष्टयेनाशुभः । मकरेऽष्टभागद्व येन शुभः । कुम्भेऽष्टभागेनैकेनाशुभः । मीनेऽष्टभागयुग- लेनाशुभ इति ॥ ३-८ ॥