भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 36, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 36

केन्द्रं गतोऽह्नि द्विपदो बलाढ्यः चतुष्पदाः केन्द्रगता रजन्याम् । कीटास्तु सर्वे यदि कण्टकस्थाः सन्धिद्वये वीर्ययुता भवन्ति ॥ १८ ॥ चापापरार्द्धहरिगोमकरादिमेषाः = धनुरपरार्द्ध-सिंह-वृष-मकरपूर्वार्द्ध-मेषाश्चतुष्पदाख्या- श्चतुष्पदसञ्ज्ञकास्तथा मानस्थिताः=माने दशमे स्थितास्तदा च बलयुताः=बलिनो भवन्ति । कन्यान्नृयुग्मघटतौलिशरासनाग्राः=कन्या-मिथुन-कुम्भ-तुला-धनुराद्यभागा नरा नरराशयो द्विपदा द्विपदसञ्ज्ञकास्तथा अमी यदि लग्नान्विताः स्युस्तदा बलाढ्या बलिनो भवन्ति । मृगापरार्द्धान्त्यकुलीरसञ्ज्ञाः=मकरोत्तरार्द्ध-मीन-कर्काः, जलाभिधानाः=जलचरसञ्ज्ञकास्तथा चतुर्थे=चतुर्थभावे बलिनो भवन्ति । वृश्चिकनामधेयो वृश्चिकराशिश्चलाश्रयो जलाश्नयसञ्ज्ञस्तथा स सप्तमस्थानगतो बली स्यात्, सप्तमे भावे वृश्चिको बलवानित्यर्थः । तथाऽऽह वराहः— "कण्टककेन्द्रचतुष्टयसञ्ज्ञाः सप्तमलग्नचतुर्थखभानाम् । तेषु यथाभिहितेषु बलाढ्याः कीटनराम्बुचराः पशवश्च" इति । अथ कालपरत्वेन राशिबलं निरूप्यते—केन्द्रमिति । द्विपदो नरराशिः केन्द्रं=लग्नच- तुर्थसप्तमदशमभावानामन्यतमं गतोऽवस्थितोऽह्नि=दिने बलाढ्यो भवति । केन्द्रवर्ती नररा- शिर्दिने बलीत्यर्थः । चतुष्पदाः = चतुष्पदसञ्ज्ञकराशयः केन्द्रगता रजन्यां = रात्रौ बलि- न इति । कीटास्तु सर्वे = सकलाः कीटा जलचराः ( अत्र कीटशब्देन न केवलं वृश्चिकस्य ग्रहणं किन्तु सर्वे जलचरा गृह्यन्ते ) यदि कण्टकस्थाः केन्द्रगताः स्युस्तदा सन्धिद्वये दिन- रात्र्योः सन्धियुगले ( सन्ध्याद्वितये ) वीर्ययुता बलिनो भवन्ति । तथोक्तं च स्वल्पजा- तके—"सन्ध्याधुरात्रिवलिनः कीटा नृचतुष्पदाश्चैवम्” इति । एतद्राशिबलाबलत्वं जन्मनि प्रश्ने च सम्यग्विवेचनीयमिति ॥ १६-१८ ॥ धनुका परार्ध, सिंह, वृष, मकरका पूर्वार्द्ध और मेष ये चतुष्पद हैं और ये दशम भावमें बली होते हैं। कन्या, मिथुन, कुम्भ, तुला, धनुका पूर्वार्द्ध ये नर राशि हैं और ये लग्नमें बली होते हैं ॥ १६ ॥ मकर का परार्ध, मीन और कर्क जलचर हैं और चौथेमें बली होते हैं। वृश्चिक जलाशय है, वह सप्तम स्थानमें प्राप्त होनेपर बली होता है ॥ १७ ॥ द्विपद ( नर ) केन्द्रमें प्राप्त होकर दिनमें बली होते हैं । चतुष्पद, केन्द्रमें जानेपर रात्रिमें बली होते हैं । सभी कीट ( जलचर ) केन्द्रमें प्राप्त होकर दोनों सन्ध्या-( सुबह और शाम ) में बली होते हैं ॥ १८ ॥ अथ राशीनां धातु-मूल जीवसञ्ज्ञाः । धातुमूलं जीवमित्याहुराया मेषादीनामोजयुग्मे तथैव ॥ स्वर्णाद्धात्वादिमृत्तिकान्तं तृणान्तं वृक्षात्तन्मूलं जीवकूटः स जीवः ॥ १६ ॥ अथ राशीनां धात्वादिविशेषसञ्ज्ञां कथयति—धातुरिति । मेषादीनां द्वादश- राशीनां क्रमात् धातुः, मूलं, जीव इति सञ्ज्ञामार्या विद्वांस आहुः । यथा मेषो धातुसञ्ज्ञो वृषो मूलसञ्ज्ञो मिथुनं जीवसञ्ज्ञम् , एवं मेष-कर्क-तुला-मकरा धातुसंज्ञाः । वृष-सिंह- वृश्चिक-कुम्भा मूलसञ्ज्ञाः । मिथुन-कन्या-धनुर्मीना जीवसञ्ज्ञा भवन्ति । ओजयुग्मे तथैव । तथैव = तेनैव विधिना मेषादीनामोजयुग्मे सञ्ज्ञे भवतः । मेष ओजो वृषः समः । एवं मेष-मिथुन-सिंह-तुला-धनुः-कुम्भा ओजराशयः ( विषमाः ) । वृष- कर्क-कन्या-वृश्चिक-मकर-मीनाः समराशयः । अथ यदुक्तं धातुर्मूलं जीव इति तत्र को धातुः, किं मूलं, कथ जीव इति सन्देहे आह—स्वर्णाद्धातुरित्यादि । स्वर्णान्मृत्तिकान्तं = मृत्तिकापर्यन्तो धातुः । वृक्षात्तृणान्तं मूलं ज्ञेयम् । जीवकूटो जीवानां प्राणिनां