जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 37, कुल 588 में से
संदर्भ में पढ़ेंराशिशीलाध्यायः ॥ १ ॥ ११ कूटा राशिः ( प्राणिमात्रम् ) "स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम्" इत्यमरः, स जीवो ज्ञेय इति । प्रयोजनं च-सूतिकागारे प्रश्ने च द्रव्यादिज्ञानम् ॥ १९ ॥ विद्वान् लोग मेषादि राशियों की धातु, मूल और जीव संज्ञा कहते हैं, (जैसे १।४।७। १० धातु २।५।८।११ मूल और ३।६।९।१२ जीव हैं) एवं विषम और सम संज्ञा कहे हैं । सोना से मिट्टी तक धातु । वृक्ष से तृण तक मूल । प्राणीमात्र जीव हैं ॥ १९ ॥ अथ मेषादीनां विप्रत्वादिनिरूपणम् । मीनालिवृषभा विप्राश्चापाजहरयो नृपाः । कुम्भयुग्मतुला वैश्याः शूद्राः स्त्रीमृगकर्कटाः ॥ २० ॥ मीनालिवृषभाः=मीनवृश्चिकवृषराशयः, विप्राः = ब्राह्मणवर्णाः । चापाजहरयः = धनु- मेषसिंहाः, नृपाः = क्षत्रियाः । कुम्भयुग्मतुला वैश्याः स्त्रीमृगकर्कटाः=कन्यामकरकर्काः शूद्राः=शूद्रवर्णा भवन्ति । प्रयोजनं च-चौरादेवर्णज्ञानम्, विवाहादौ च वधूवरयोर्वर्णज्ञानम् । Notes-अत्र प्रकृतग्रन्थे वर्णपाठे भेदः । द्रष्टव्यं रामाचार्योक्तम्— द्विजाः झषालिकर्कटास्ततो नृपा विशोऽङ्घ्रिजाः । वरस्य वर्णतोऽधिका वधूर्न शस्यते बुधैः । इति ॥ २० ॥
| ब्रा. | क्ष. | वै. | शू. | वर्णाः |
|---|---|---|---|---|
| १२।४।८ | १।५।९ | २।६।१० | ३।७।११ | राशयः |
| १२।८।२ | १।५।९ | ११।३।७ | ६।१०।४ | मतान्तरे |
| मीन, वृश्चिक और वृष राशि ब्राह्मण वर्ण हैं । धनु, मेष और सिंह क्षत्रिय वर्ण हैं। | ||||
| कुम्भ, मिथुन और तुला वैश्य वर्ण हैं । कन्या, मकर और कर्क शूद्र वर्ण हैं ॥ २० ॥ | ||||
| अथ मेषादीनां कालविशेषे अन्धत्वादिनिरूपणम् । | ||||
| सदा निशान्धाः क्रियगोमृगेशा मध्यन्दिने कर्कटयुग्मकन्याः । | ||||
| पूर्वाह्नकाले बधिरौ तुलाली धन्वी मृगाख्यश्च तथाऽपराह्ने ॥ २१ ॥ | ||||
| मृगाननश्चापधरश्च पङ्गू सन्धिद्वये नाशकरौ भवेताम् । | ||||
| स्यादृक्षसन्धिः कटकालिमीनभान्तं प्रगण्डान्तमिति प्रसिद्धम् ॥ २२ ॥ | ||||
| क्रियगोमृगेशाः ( मेष-वृष-सिंहाः ) सदा निशान्धाः = सदैव रात्र्यन्धा भवन्ति । | ||||
| न कस्यामपि रात्रौ तेषामन्धत्वन्निरस्यतीति सदापदोपादानम् । अत्र 'महानिशान्धा' | ||||
| इत्यपि पाठान्तरम् । तदा महानिशायामर्द्धरात्रे ( निशीथे ) अन्धाः स्युरिति । | ||||
| कर्कटयुग्मकन्याः, मध्यन्दिने = दिनस्य मध्यभागेऽन्धत्वमाप्नुवन्ति । तुलाली=तुलावृश्चिकौ | ||||
| पूर्वाह्नकाले = दिनस्य प्रथमे त्रिभागे बधिरौ भवतः । धन्वी = धनुः, मृगाख्यश्च = मकरश्चेति | ||||
| द्वौ, अपराह्ने = दिनस्य तृतीये त्रिभागे तथा=बधिरौ भवतः । मृगानन चापधरश्च=मकरधनुषी | ||||
| सन्धिद्वये=सन्ध्याद्वितये, पङ्गू = पङ्गुसञ्ज्ञकौ (खञ्जौ) भवतः । नाशक्राविति=तौ पङ्गू राशी | ||||
| नाशक्रावनिष्टकरौ भवेताम् । सन्ध्याद्वये धनुर्मकरौ राशी यदि लग्ने भवेतां तदा जात- | ||||
| कस्य प्रष्टुर्वा नाशकरौ भवत इत्यर्थः । स्यादृक्षसन्धिरिति । कर्कटालिमीनभान्तं = कर्कवृ- | ||||
| श्चिकमीनराशीनामन्तमृक्षसन्धिरिति सञ्ज्ञकम् । यत्र नक्षत्रराश्योर्युगपदवसानं तदेवर्क्ष- | ||||
| सन्धिः । यथा-कर्कस्य श्लेषान्तेऽवसानं, ज्येष्ठान्ते वृश्चिकान्तं, पौष्णान्ते मीनान्तं च भवति । |