जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 361, कुल 588 में से
संदर्भ में पढ़ेंशुभमशुभं वा विजानीयादिति । तदेव तावदुच्यते । सर्वेषामेव ग्रहाणां पृथक् पृथक् भगोलचक्रं = अष्टकवर्गविचारणीयकोष्ठकं समालिख्य ततोऽनन्तरं समस्तबिन्दुस्थितराशि- कोष्ठं = प्रत्येकग्रहस्य प्रतिराशि बिन्दुसङ्ख्यामवगम्य च तेषां पृथक् पृथगुच्यमानं फलं विजानीयात् । अथ च रव्यादिकानां = सूर्यादिसप्तग्रहाणां ( सलग्नानाम् ) अजपूर्वकाणां = मेषादीनां द्वादशराशीनां विन्दूपगस्थानफलं = सर्वेषां ग्रहाणां द्वादशसु राशिषु ये बिन्द- वस्तेषां फलं वदामि । समुदाये = समुद्रायाष्टकवर्गे आपञ्चविंशतिफलानि = सर्वाष्टकवर्गजाता बिन्दवो यदि पञ्चविंशतिमिताः स्युस्तदा तानि अफलानि = असत्फलानीति । त्रिंशदक्षसहितानि = पञ्चविंशतिमारभ्य त्रिंशद्यावत् बिन्दवः, समध्यमनि = मध्यफलानीति । त्रिंशत्पराणि = त्रिंशद्भ्योऽधिका बिन्दवश्चेत् तदा तानि सुखवित्तयशस्कराणि = उत्तमफलकानि भवन्ति, तद्भाववृद्धिफलदानि च = यद्भावसम्बन्धिनस्ते बिन्दवस्तद्भावस्य पोषकाश्च भवन्तीति । Notes—जन्मकाले यो ग्रहो यद्भावे स्थितो यद्भावकारको वा भवति तस्य भावस्य शुभाशुभं फलमुक्तप्रकारेण ग्रहाष्टकवर्गोत्पन्नबलाबलवशाद्विविच्यं तदेव सूक्ष्मं स्यादिति५२-५३ फिर भगोल चक्रको अच्छे प्रकारसे लिखकर सूर्यादि ग्रहोंका, मेषादि राशियोंका समस्त बिन्दुस्थिति राशि कोष्ठ बिन्दु प्राप्त फलको कहता हूं ॥ ५२ ॥ समुदायाष्टवर्गमें एकसे २५ तक बिन्दु अफल असत्य हैं २५ से ३० पर्यन्त ५ मध्यम हैं, ३० के बाद सुख-वित्त-यश करने वाले उस भावकी वृद्धि फल देते हैं ॥ ५३ ॥ इदानीमष्टकवर्गवशाच्छुभस्थानादिगता अप्यशुभा अशुभस्थानगता अपि शुभदा- भवन्तीत्याह— ये तुङ्गराशिश्वसुहृद्गृहस्था ये कोणकेन्द्रोपचयस्थिताश्च । ये सौम्यवर्गादिवलोपयातास्ते नाशदा लाघवबिन्दुकाश्वेत् ॥ ५४ ॥ ये चावसानरिपुरन्ध्रतुरङ्गभानां ये नीचपापरिपूखेचरवर्गयुक्ताः । ये मान्दिराशिप॑तिना सह बोधकाश्च ते सर्वमुख्यफलदास्त्वधिबिन्दुकाश्वेत् ॥ ५५ ॥ ये तुङ्गराशीति । ये ग्रहाः, स्वस्वतुङ्गराशिगताः, स्वमित्रराशिगताः केन्द्रे ( १।४।७। १० ) वा कोणे ( ५।९ ) स्थिताश्च भवेयुः, अपि च शुभवर्गादिगता बलशालिनश्च भवेयु- स्तेऽपि चेद्यदि अष्टकवर्गे लाघवबिन्दुकाः = अल्पशुभचिह्नकाः स्युस्तदा ते नाशदाः = अशुभफलदा एव भवन्ति । अथ ये ग्रहाः अवसाने = द्वादशे, रिपौ = षष्ठे, रन्ध्रे = अष्टमे, तुरङ्गे = सप्तमे भावे वा स्थिता भवेयुः, ये च नीचराशौ, पापग्रहस्य-शत्रुग्रहस्य च वर्ग- गता भवेयुरपि च ये गुलिकराशीशेन सह स्थिताः तत्सम्बन्धिनश्च भवेयुस्तेऽपि यदि अष्टक- वर्गे अधिबिन्दुकाः = अधिकशुभचिह्नकाः स्युस्तदा ते सर्वमुख्यफलदाः = निखिलशुभफल- सूचका भवन्ति । अत्रैतदुक्तं भवति । अष्टकवर्गे शुभा अशुभा अपि ग्रहा यदि अधिक- बिन्दुयुक्ताः स्युस्तदा शुभफलदा लघुबिन्दुका अशुभफलदा भवन्ति । न तत्र केवलं शुभा- शुभपरत्वेन शुभाशुभं फलं भवतीति विज्ञेयम् ॥ ५४-५५ ॥ जो उच्च राशि-मित्रगृही और जो। केन्द्र, कोण, उपचयमें स्थित हैं जो शुभवर्गमें हैं बलवान् हैं वे भी थोड़ी बिन्दुओंसे नाशक हैं ॥ ५४ ॥ जो ग्रह नीच पापग्रहके वर्गमें युक्त हों जो गुलिक राशिके स्वामीके साथ हों वे विशेष 23 बिन्दुके हों तो सब कालमें फलके देनेवाले हैं ॥ ५५ ॥