भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 360, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 360

३६४ सटीकजातकपारिजाते- रव्यादयो ग्रहा यत्र यत्र स्थिता भवन्ति तत्तद्राशियातास्तेषां स्वस्वाष्टवर्गोपगता बिन्दुसङ्ख्याः यास्ताभ्यः सर्वे वेधाष्टवर्गप्रभवायुरब्दाः (भिन्नाष्टवर्गजनितायुर्वर्षाणि) हरणक्रियाश्च पूर्ववद्भवन्ति ॥ ५० ॥ सूर्य आदि ग्रह जिस २ राशिमें हों उस २ राशिमें उसके अष्टवर्ग वाले जितने बिन्दु हों उनके भिन्नाष्टवर्गोत्पन्न आयु और सभी हरण क्रियायें पूर्ववत् होती हैं ॥ ५० ॥ तत्तत्कारकभावबिन्दुगुणितं शोध्यावशिष्टं फलं विंशत्या सह सप्तभिश्च विहृतं तच्छेषताराशनौ । तातस्तज्जननी सहोदरजनो बन्धुः सुतः स्त्री स्वयं तत्तुल्या विलयं प्रयान्ति विपुलश्रीनाशहेतुश्च वा ॥ ५१ ॥ इति भिन्नाष्टवर्गः । इदानीम् अष्टकवर्गवशाच्छनिकर्तृकानिष्टनक्षत्राण्याह-तत्तदिति। शोध्यावशिष्टम्=अष्ट- वर्गे त्रिकोणेकाधिपत्यशोधनाच्छेषं फलं तत्तत्कारकभावबिन्दुगुणितं = यस्य यस्य भावस्य विचारः क्रियते तत्तद्भावस्य यो यो ग्रहः कारकस्तत्तद्भावस्थिते भावे यद्विन्दुफलं तेन गुणितं कार्यम् । यथा पितृभावस्य विचारे समुपस्थिते पितृकारकः सूर्यः, अतः सूर्याष्टक- वर्गे शोध्यावशेषं यत् फलं तत् सूर्यान्नवमभावगतबिन्दुमानेन गुणितं कार्यमिति । तत् विंशत्या सह सप्तभिरर्थात्सप्तविंशति(२७)भिः विहृतं = भक्तं, तच्छेषताराशनौ = शेषमिते नक्षत्रे गतवति शनैश्चरे-तातः, तज्जननी, सहोदरजनः, बन्धुः, सुतः, स्त्री, स्वयंश्च विलयं प्रयान्ति = म्रियन्ते । अर्थात्सूर्यात्तातः = जातस्य पिता । चन्द्राज्जननी = जातस्य माता । भौमात्सहोदरः । बुधाद्वन्धुः = मित्रम् । गुरोः सुतः । शुक्रात्स्त्री । शनेः जातः स्वयमेव नाश- म्रियात् । अथवा तत्तुल्याः = पितृतुल्यः, मातृतुल्यः, भ्रातृतुल्य इत्यादिः म्रियते । वा तेषां मरणाभावे विपुलश्रीनाशहेतुर्भवति । उदाहरणम्-उक्तोदाहरणे भ्रातृविचारे कर्तव्ये भ्रातृकारको भौमो मकरे विद्यते तस्य शोध्यावशिष्टं फलम्=१५। भौमात्तृतीये मीने फलं = २ । अतः तयोः १५, २ गुणनफले- ३० ऽस्मिन्सप्तविंशतिभक्ते शेषं=३ कृत्तिकानक्षत्रगतः कृत्तिकागते शनैश्चरे तस्य भ्रातुर्भ्रातृ- तुल्यस्य वा नाशं ब्रूयादेवं सर्वत्र विचिन्त्यमिति ॥ ५१ ॥ जिसका विचार करना हो उसके कारकसे उतनी राशिमें जो बिन्दु हो उससे उस कारकके शोधनावशेष बिन्दुको गुणकर २७ से भाग लेने पर जो शेष हो उसमें जब शनि हो तो क्रमसे उसके पिता-माता-भाई-बन्धु-पुत्र-स्त्री और स्वयं नाशको प्राप्त होते हैं, विपुल लक्ष्मीका भी वही नाश होनेका कारण है ॥ ५१ ॥ इति भिन्नाष्टकवर्गः । -:००:००:- अथ समुदायाष्टकवर्गः । ततः समालिख्य भूगोलचक्रं समस्तबिन्दुस्थितराशिकोष्ठम् । रव्यादिकानामजपूर्वकाणां बिन्दूपगस्थानफलं वदामि ॥ ५२ ॥ आपञ्चविंशति फलान्यफलान्यसत्यमात्रिशदक्षसहितानि सममध्यमानि । त्रिंशत्पराणि सुखवित्तयशस्कराणि तद्भाववृद्धिफलदानि च समुदाये ॥ ५३ ॥ इदानीं समुदायाष्टकवर्गं सफलमाह-तत इत्यादिभिरेकविंशतिभिः श्लोकैः । तत्र तावत् पूर्वोक्तप्रकारैः प्रतिराशि प्रत्येकस्य ग्रहस्याष्टकवर्गे प्रसाध्य शुभाशुभबिन्दुरेखात्मकं ज्ञानं कृत्वा तत्सङ्कलनमेव पृथक् पृथक् ग्रहस्य सर्वाष्टकवर्गजातं ( समुदायाष्टकवर्गोत्पन्नम् )