जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 359, कुल 588 में से
संदर्भ में पढ़ेंअष्टकवर्गाध्यायः ॥ १०॥ ३५३ ग्रहाणां यदायुःप्रमाणं सिद्ध्यति तदेव परमायुर्भवति जातकस्येति । अत्र केचिदाचार्याः ( पराशरादयः ) लघ्निलमसमाः = लग्नायुर्वर्षसहिताः सूर्यादिग्रहायुर्वर्षसङ्ख्याः परमायुर्भवती- त्याहुः । तदुक्तं ( पराशरोक्तं ) लग्नशुभस्थानम्— १. आर्किज्ञशुक्रगुरुवाराः, २. सौम्यदेवेज्यभार्गवाः । ३. हित्वा सौम्यगुरू शेषाः, ४. सूर्येज्यभृगुसूर्यजाः ॥ ५. तथा जीवभृगू बुद्धौ, ६. सर्वे शुक्नं विना क्षते । ७. जीव एफस्तथा द्यूने, ८. मृतौ सौम्यभृगू तथा ॥ ९. धर्मे गुरुक्षितौ, सर्वे १०. खे चाये, ११. शुक्रमन्तरा । १२. सूर्यचन्द्रौ तथा रिष्फे स्थानं लग्नस्य कीर्त्तितम् ॥ प्रथमादिद्वादशभावे उक्तानां ग्रहाणामवस्थितौ लग्नस्य बिन्दवो ( शुभचिह्नानि ) जायन्ते । तन् उक्तवल्लग्नायुरप्यानेयमिति । तल्लग्नायुर्वर्षसहितं सूर्यादिसप्तग्रहायुर्मानं पर- मायुरुक्तम् । अथ सर्वत्रैव गुरुमूलात् = गुरु महन्मूलमानयनप्रकारो यस्य तस्माद् बृहद् ( सूक्ष्म ) गणितप्रकारेणेति यावत्, यदायुः सिद्ध्यति तत्तुल्यमायुः जातः समुपैतीति ॥ ४८॥
अथ लग्नाष्टवर्गस्थानचक्रम्
| भावाः | १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| सू. | ० | ० | ० | ० | ० | ० | ||||||
| चं. | ० | ० | ० | ० | ० | |||||||
| मं. | ० | ० | ० | ० | ० | |||||||
| बु. | ० | ० | ० | ० | ० | ० | ० | |||||
| बृ. | ० | ० | ० | ० | ० | ० | ० | ० | ||||
| शु. | ० | ० | ० | ० | ० | ० | ० | |||||
| श. | ० | ० | ० | ० | ० | ० | ||||||
| ल. | ० | ० | ० | ० |
सूर्यादि ग्रहोंकी आयुःसंख्याके योग तुल्य मनुष्योंकी परमायु होती है। किसीका मत है कि उसमें लग्नायुको भी जोड़नी चाहिये । यहां निष्कर्ष यह है कि सूक्ष्म गणितसे जो आयु हो वही लेनी चाहिये ॥ ४८ ॥ केन्द्रादन्यगते चन्द्रे सखेढे चाष्टवर्गजम् । आयुरेव नभःस्थाने शुभपापयुतेऽथवा ॥ ४६ ॥ इदानीमष्टवर्गायुर्ग्रहणस्थितिमाह - केन्द्रादिति । चन्द्रे केन्द्रा ( १।४।७।१० ) दन्य- गते सखेढे = केनचित्कैश्चिद्वा ग्रहेण ग्रहैर्वा सहिते च अष्टवर्गवशाज्जातमेवायुर्ग्राह्यम् । एतदुक्तं भवति । यस्य जन्मकाले चन्द्रः केन्द्रगतो न भवेद्ग्रहयुक्तश्चान्यत्र स्थितः स्यात्तदा तस्य जातस्याष्टकवर्गायुुरेव ग्रहीतव्यम् । अथवा नभः स्थाने = लग्नाद्दशमे गृहे शुभपापयुते = शुभपापग्रहाभ्यां सहिते अष्टवर्गजमेवायुः साध्यम् । उक्तलक्षणद्व- येऽन्यतरस्य प्राप्तौ अष्टवर्गजमायुरेव ग्राह्यमर्याद्वैतयोरभावेऽन्यदायुः साधनप्रकारोक्त- मायुः ग्राह्यमिति ॥ ४९ ॥ ग्रह सहित चन्द्रमा केन्द्रातिरिक्त स्थानमें हो, अथवा दशम भाव पापग्रह शुभ ग्रहसे युक्त हो तो वही ( अष्टवर्गायु ) आयु ग्राह्य है ॥ ४९ ॥ रव्यादिखेटात्स्थितराशियाताः स्वकीयवर्गोपगबिन्दुसंख्याः । वेधाष्टवर्गप्रभवायुरब्दा भवन्ति सर्वे हरणक्रियाश्च ॥ ५० ॥