भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 358, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 358

३३२ सटीकजातकपारिजाते- राशिगुणक पिण्ड होता है। एवं ग्रहोंको भी अपने २ गुणकसे गुणे उनका योग ग्रहगुणक पिण्ड होता है। यहां गुणकों को कहते हैं- मेषादि राशियोंके गुणक क्रमसे ७।१०।८।४।१०।५।७।८।९।५।११।१२ हैं। सूर्यादि ग्रहोंके ५।५।८।५।१०।७।५ ये क्रमसे आयु साधनार्थ गुणक हैं ॥ ४४ ॥ तद्राशिखेटगुणकैक्यफलानि हृत्वा त्रिंशद्द्भिरब्दचयमासदिनादिकाः स्युः । तद्द्वादशाधिकसमा यदि राशिमानैराहत्य तत्समतयाऽनुहरेत्तदायुः ॥ ४५ ॥ इदानीं ग्रहाणामष्टकवर्गशुद्धायुरानयनमाह—तदिति । तद्राशिखेटगुणकैक्यफलानि = पूर्वप्रदर्शितानां राशिगुणपिण्डानां ग्रहगुणपिण्डानाञ्चैक्यफलानि (योगपिण्डमानानीति यावत्) त्रिंशद्भिः (३०) हृत्वा = भक्त्वा, फलम् अब्दचयमासदिनादिकाः = वर्ष-मास-दिन-नाडी- प्रभृतयो भवेयुः । तत्र वर्षमाने द्वादशाधिके सति राशिमानैर्द्वादशभिराहत्य विभज्य, तत्सम- तया = लब्धमितवर्षैस्तत्तद्ग्रहाणामष्टकवर्गजनितमायुर्व्यवह्रियते । यथा हि—प्रदर्शितोदाहरणे योगपिण्डः २०५, त्रिंशद्भक्तो जातं वर्षादिकमायुः = २०५÷३० = ६ व., १० मा. । एवं सर्वेषां पिण्डमानादायुरानयेमिति ॥ ४५ ॥ राशि गुणपिण्ड-ग्रहगुणपिण्डोंके योगमें ३० से भाग देनेसे वर्ष, मास, दिन होंगे। वर्ष १२ से अधिक हो तो १२ से भाग देकर शेष वर्ष ग्रहण करने चाहियें। वही उस ग्रहकी आयु होगी ॥ ४५ ॥ उच्चं गतस्य द्विगुणं तदीयं नीचं गतस्यास्तगतस्य चार्द्धम् । अतोऽन्तराले त्वनुपात्यमायुरारस्य वक्रे द्विगुणीकृतं स्यात् ॥ ४६ ॥ मूलत्रिकोणनिजमित्रगृहोपगानां तुङ्गादिवर्गशुभयोगनिरीक्षितानाम् । उक्तप्रकारगणितागममायुरेव पापारिवर्गसहितस्य त्रिपादमायुः ॥ ४७ ॥ इदानीं गणितागतायुषि वैशिष्ट्यमाह—उच्चमिति । उच्चं = स्वकीयोच्चराशिं गतस्य ग्रहस्य, तदीयं = तस्य गणितागतं यदायुस्तद् द्विगुणं कुर्यादिति शेषः । नीचं गतस्य सूर्येण सहास्तं गतस्य च ग्रहस्य अर्द्धमायुः क्षीयतेऽर्द्धमेवावशिष्टं भवति । अतोऽन्तराले त्वनुपा- तमायुरिति । उच्चे द्विगुणं नीचेऽर्द्धमिति राशिषट्के आयुषोऽर्द्धस्य त्रिगुणितस्य चयापचयौ भवतस्तदा नीचादुच्चाद्वाऽभीष्टान्तरे विद्यमाने ग्रहे आयुषः कियानुपचयोऽपचयो वा भवे- दित्यनुपातेनायुषः स्पष्टीकरणं स्यादिति । आरस्य = भौमस्य, वक्रे = विलोमगमने, द्विगुणी- कृतं तदायुः ग्राह्यमिति । ये ग्रहाः स्वकीयमूलत्रिकोणे, स्वमित्रगृहे, स्वोच्चादिवर्गे वा स्थिता भवेयुस्तथा शुभ- ग्रहेण युक्ता निरीक्षिताश्च भवेयुस्तेषामुक्तप्रकारगणितागतमेवायुर्ग्राह्यम् । न तेषामायुषि चया- पचयौ कुर्यादित्यर्थः । अथ च यो ग्रहः पापग्रहस्य शत्रुग्रहस्य वा वर्गगतो भवति तस्य त्रिपादमायुः=पादेन ( चतुर्थांशेन ) रहितं=चतुर्थांशोनं गणितागतायुर्ग्राह्यमिति ॥४६-४७॥ उच्च राशिमें ग्रह हो तो दूनी, नीचराशिमें हो वा अस्त हो तो आधी आयु होती है। इसके बीच में अनुपात द्वारा आयु निश्चय करे, मंगल वक्री हो तो आयु को दूनी करे ॥४६॥ मूल त्रिकोण, अपनी उच्च राशि, अपने गृहमें प्राप्त ग्रहोंकी और उच्चादि वर्ग शुभ दृष्ट ग्रहोंकी उक्त प्रकारसे गणित की हुई आयु होती है। पापादि वर्गमें स्थित ग्रहकी चतुर्थांशोन आयु होती है ॥ ४७ ॥ रविमुख्यनभोगदत्तसंख्याः परमायुः शरदस्तु मानवानाम् ॥ सविलग्नसमाश्च केचिदाहुर्गुरुमूलात्समुपैति तुल्यमायुः ॥ ४८ ॥ इदानीमष्टवर्गसिद्धं परमायुःप्रमाणमाह—रवीति । रविमुख्याः सूर्यादयो ये नभोगा ग्रहास्तैर्दत्तसंख्याः, शरदः = वर्षाणि, मानवानां परमायुर्भवति । अष्टकवर्गवशात्सूर्यादिसप्त-