जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 357, कुल 588 में से
संदर्भ में पढ़ेंअष्टकवर्गाध्यायः ॥ १० ॥ ३३१ शोध्यावशिष्टानि गुणीकृतानि मेषादिमानैर्गुणकं हि भानाम् । सूर्यादिकास्ते गुणिताः स्वमानैरेषां ग्रहाणां गुणकं वदन्ति ॥ ४३ ॥ शैलाशावसुसागराम्बरशरैः शैलाहिगोसायकै- रीशद्वादशभिश्च राशिगुणकैर्मेषादिभानां क्रमात् । बाणैः पञ्चभिरष्टकैः शरनभःशैलेषुभिर्भास्वरा- देवं व्योमतलाधिवासगुणकैरायुर्विधानोदितैः ॥ ४४ ॥ इदानीं गुणकपिण्डं गुणकाङ्कांश्चाह—शोध्यावशिष्टानीति । त्रिकोणैकाधिपत्यशोधना- च्छेषफलानि, मेषादिमानैः = मेषादिराशीनां यानि पृथक्पृथक् मानानि ( गुणकाङ्काः ) पठितानि तैः, गुणीकृतानि = गुणितानि, तदा तद्गुणनफलैक्यं, भानां = राशीनां हि गुणकं वदन्ति । एवं प्रत्येकस्य ग्रहस्याष्टकवर्गे राशीनां गुणकपिण्ड उत्पद्यते । ग्रहगुणकपिण्डमाह— सूर्यादिका ग्रहास्ते स्वमानैः गुणिताः । अत्रेदं चिन्त्यम् । सूर्यादयो ग्रहा यत्र यत्र राशौ भवेयुस्तत्तद्राशेरधःस्था ये शोध्यावशेषाङ्कास्ते सूर्यादीनां स्वस्वगुणकमानैर्गुणिताः कार्याः । तेषां योगो ग्रहगुणकपिण्डो जायते । अथ राशीनां गुणकाङ्काः—मे ० = ७ । वृ ० = १० । मि ० = ८ । क ० = ४ । सिं ० = १० । कं ० = ५ । तु ० = ७ । वृ ० = ८ । ध ० = ९ । म ० = ५ । कुं ० = ११ । मी ० = १२ । ग्रहाणां गुणकाङ्काः—सू ० = ५ । चं ० = ५ । मं ० = ८ । बु ० = ५ । वृ ० = १० । शु ० = ७ । श ० = ५ । एवमाह पराशरः— शोध्यावशेषं संस्थाप्य राशिमानेन वर्द्धयेत् । ग्रहयुक्तेऽपि तद्राशौ ग्रहमानेन वर्द्धयेत् ॥ गोसिंहौ दशगुणितौ वसुभिर्मिथुनालिनौ । वणिङ्मेषौ तु मुनिभिः कन्यकामकरौ शरैः ॥ शेषाः स्वमानगुणिता राशिमाना इमे क्रमात् । जीवारशुकसौम्यानां दशवसुमुनीन्द्रियैः क्रमाद् गुणकाः । बुधस्य सङ्ख्या शेषाणां ग्रहगुणंर्गुणयेत पृथक् कार्याः ॥ अथ राशिगुणकोदाहरणम्—प्रदर्शितोदाहृतौ मेषाधःफलं १, मेषगुणेन ७ गुणितं जातं = ७ । वृषाधः फलं १, वृषगुण-१० गुणितं जातं = १० । एवं कर्के ३ × ४ = १२ । सिंहे ३ × १० = ३० । तुलायां २ × ७ = १४ । मकरे ३ × ५ = १५ । मीने २ × १२ = २४ । एषामैक्यं ( ७ + १० + १२ + ३० + १४ + १५ + २४ = ) राशि- गुणकपिण्डः = ११२ । एवं सूर्यो मेषे, मेषस्य फलं १, सूर्यगुणेन ५ गुणितं जातम् = ५ । चन्द्रो वृषे, वृष- फलं १, चन्द्रगुणेन ५ गुणितं = ५ । भौमो मकरे, मकरफलं ३, भौमगुणेन ८ गुणितं = २४ । बुधो वृषे वृषफलं १ बुधगुणेन ५ गुणितं = ५ । गुरुः कर्कटे, कर्कफलं ३, गुरुगुणेन १० गुणितं = ३० । शुक्रो मीने, मीनफलं २, शुक्रगुणेन ७ गुणितं = १४ । शनिस्तुलायां, तुलाफलं २, शनिगुणेन ५ गुणितं = १० । एषां योगः ( ५ + ५ + २४ + ५ + ३० + १४ + १० = ) ग्रहगुणकपिण्डः = ६३ । अथ राशिग्रहगुणकैक्यम् = ११२ + ९३ = २०५ = योगपिण्ड इति भौमाष्टकवर्गे जातं पिण्डमानम् = २०५ । एवमेव सर्वेषामष्टकवर्गे पिण्डानयनं कार्यमिति ॥ ४३-४४ ॥ शोधन करने पर जो शेष फल हों उन्हें मेष आदि राशिके गुणकसे गुणे, उनका योग