जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 363, कुल 588 में से
संदर्भ में पढ़ेंअष्टकवर्गाध्यायः ।।१०।। ३३७ बिन्दुमिति । केचिदपरे सन्तः=विद्वांसः पूर्व-( ५७ तमश्लोके ) परिभाषितखण्डत्र- ये रिष्फरन्ध्रोपयातं=द्वादशेऽष्टमे च भावे स्थितं बिन्दुं त्यक्त्वा शिष्टम्=उर्वरितं खण्डं प्रथमं, द्वितीयं, तृतीयं च इच्छन्ति = स्वीकुर्वन्ति । इदं विचिन्त्यम् । केचिद् व्ययादिकमि- त्युक्तप्रकारे अष्टमो द्वादशो भावो यत्र यत्र खण्डे निपतति तत्र तत्राष्टमोपगता द्वादशो- पगताश्च बिन्दवो न ग्राह्या इति । परमेतन्न वैद्यनाथाभिमतं केचिदिति पदोपादानात् । अथ सिद्धबिन्दुवशात्फलमाह—तुल्येति । प्रथमादि-खण्डत्रये यदि तुल्या एव बि- न्दवो भवेयुस्तदा निखिले वयसि मिश्रं ( सुखदुःखादिकं ) फलं वाच्यम् । यत्र खण्डे स्वल्पाः=अत्यल्पा बिन्दवो भवेयुस्तत्र वयसि दुःखं = कष्टादिकं विनिर्दिशेत् । यत्र खण्डे अधिका बिन्दवो भवेयुस्तत्र वयसि नराणां=जनिमतां सम्पदः=सुखैश्वर्याणि विनिर्दिशेत् ॥५८॥ बारहवें आठवेंमें प्राप्त बिन्दुका त्याग करे ऐसा कोई २ सन्त कहे हैं, तुल्य, स्वल्प, अधिक बिन्दुके क्रमसे मिश्रफल, दुःख तथा धन होते हैं । तुल्य बिन्दुमें मिश्र फल, अल्प- बिन्दुमें दुःख, अधिक बिन्दुमें धन ॥ ५८ ॥ इदानीं पूर्वोक्तखण्डत्रये ग्रहयोगफलमाह— सौम्याक्रान्तं यदि सुखकरं मिश्रदं मिश्रयोगं खण्डं पापद्युचरसहितं क्लेशयोगाकरं स्यात् । बिन्दुस्वल्पे यदि निजमनस्तापवान् पापवादी बिन्दाधिक्ये वयसि विपुलः श्रीसमेतः प्रजातः ॥ ५६ ॥ सौम्याक्रान्तमिति । सौम्याक्रान्तं = शुभग्रहसंयुक्तं खण्डं यदि स्यात्तदा जातस्य खण्ड- समे वयसि सुखकरं भवति । मिश्रयोगं = पापेन शुभेन च संयुक्तं खण्डं मिश्रदं = शुभं, अशुभं च फलं करोति तत्तुल्ये वयसि । पापद्युचरसहितं = केवलं पापग्रहेण युक्तं खण्डं तत्तुल्ये वयसि जातस्य क्लेशयोगाकरं = अतीव दुःखजनकं भवति । अथ बिन्दुपरत्वेन खण्डफलमाह—बिन्दुस्वल्प इति । यदि खण्डे बिन्दुस्वल्पे = अ- त्यल्पबिन्दुयुक्ते सति तत्तुल्ये वयसिभागे जातो निजमनस्तापवान्, पापवादी च भवेत् । बिन्दाधिक्ये वयसि = यत्र खण्डे अधिकबिन्दवः स्युस्तत्तुल्ये वयसि प्रजातो विपुलश्रीसमेतः = अतीव सम्पदादियुक्तो भवेदिति ॥ ५९ ॥ यदि शुभग्रहसे आक्रान्त ( युक्त ) हो तो शुभफल देनेवाला, मिश्रित ग्रहसे आक्रान्त हो तो मिश्र फल देनेवाला, पापग्रहसे युक्त हो तो क्लेशप्रद होये । यदि थोड़ी बिन्दु हो तो अपने मनको ताप पहुंचाने वाला पापी हो, अधिक बिन्दुमें अधिक अवस्थामें विद्वान्, अधिक लक्ष्मीवान् होवे ॥ ५९ ॥ इदानीं कस्मिंश्चिद्विशिष्टयोगे सति लग्नगतबिन्दुसंख्याफलमाह— यावद्बिन्दुर्लग्नगस्तावदीयसङ्ख्यातीते वत्सरे राजयानम् । वित्तं पुत्रं चातिविद्यामुपैति जातः सम्पद्योगशाली नरश्चेत् ॥ ६० ॥ यावदिति । लग्नराशौ यावन्तः सर्वाष्टकवर्गजाता बिन्दवो भवेयुस्तत्तुल्येऽतीते वत्सरे= बिन्दुसङ्ख्यामितगताब्दे जातो नरो राजयानम्, वित्तम्, पुत्रम्, अतिविद्यां च उपैति प्राप्नोति । चेद्यदि स जातः सम्पद्योगशाली नरः स्यात् = तस्य जन्मकाले यदि कश्चित् सुखादिविशिष्टो योगः स्यात्तदैव । नान्यथा केवलं लग्नगतबिन्दुवशादुक्तव्यमिति भावः ॥६०॥ जितने बिन्दु लग्नमें हों उतने उसके वर्ष बीतने पर राज यान ( सवारी ) प्राप्त हो । धन, पुत्र, विशेष विद्या प्राप्त होती है यदि वह मनुष्य संपत्ति योग वाला हो तो ॥ ६० ॥ २५ जा०