जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 364, कुल 588 में से
संदर्भ में पढ़ें३३८ सटीकजातकपारिजाते- इदानीं योगविशिष्टे आयुःप्रमाणमाह- रिःफाधीशे मन्दगेहोदयस्थे होरारन्ध्रस्वामिनौ दुर्बलौ च । लग्ने यावद्विन्दुसंख्यास्तदीया जातस्यायुर्वत्सराः सम्भवन्ति ॥ ६१ ॥ रिःफाधीश इति । रिःफाधीशो द्वादशेशस्तस्मिन् मन्दगेहोदयस्थे = मकरकुम्भान्य- तरराशिलग्ने व्यवस्थिते ( मकरः कुम्भो वा लग्नं तस्मिन् द्वादशेशः स्यादिति ) होरार- न्ध्रस्वामिनौ = लग्नेशाष्टमेशौ च दुर्बलौ भवेतां तदाऽस्मिन् योगे लग्ने यावन्तः सर्वाष्टक- वर्गजा बिन्दवः स्युस्तत्सङ्ख्यास्तस्य जातस्यायुर्वत्सराः सम्भवन्ति । उक्तलक्षणे योगे लग्ने यावन्तो बिन्दवस्तावन्ति वर्षाणि बातको जीवतीति भावः । Notes—अत्र मन्दगेहोदये रिःफाधीशो गुरुः शनिरपि भवितुमर्हः । मकरलग्ने गुरु रिःफेशः, कुम्भोदये शनिरेव रिःफेशः । तथा लग्नेशो हि शनिरेव । अष्टमेशः सूर्यः, बुधश्च भवितुमर्ह इति विविच्यम् । परञ्च कुम्भो राशि शनेर्मूलत्रिकोणमतो मन्यते ‘मन्द- गेहोदये’ इत्यत्र मकरराशिलग्नमेव ग्राह्यम् । तदा लग्नेशः शनिः, अष्टमेशः सूर्यः, रिःफेशो गुरुः स्यादिति ॥ ६१ ॥ द्वादश भावका स्वामी शनिकी राशिमें हो, और लग्न अष्टमका स्वामी निर्बल हों तो लग्नमें जितनी बिन्दु हों उतने वर्षकी जातककी आयु होती है ॥ ६१ ॥ इदानीं ग्रहयोगवशाद्विन्दुफलान्याह- यानाधीशे लग्नगे वाहनस्थे लग्नाधीशे तद्ग्रहोपेतराश्योः । त्रिंशत्संख्या बिन्दवः सत्रयस्त्रिंशज्जाता राजश्रीनिदाना नरेशाः ॥ ६२ ॥ यानाधीश इति । यानाधीशे = चतुर्थभावेशे लग्नगे, लग्नाधीशे = लग्नस्वामिनि वाह- नस्थे = चतुर्थभावमुपगते सति तद्ग्रहोपेतराश्योः = लग्नचतुर्थभावयोः यदि सत्रयस्त्रिंश- त्सङ्ख्याः ३३ बिन्दवश्चेद्वेवेयुस्तदा ते जाता नरा राजश्रीनिदानाः = राजैश्वर्यप्रधाना नरेशाः = भूपाला भवन्ति । अत्रेदमुक्तं भवति । लग्नेशश्चतुर्थे, चतुर्थेशो लग्ने च भवे- त्तथा लग्नचतुर्थभावयोर्योगबिन्दवस्त्रयस्त्रिंश ३३ न्मिताः स्युस्तदा जातो विविधसम्प- द्युतो भवतीति ॥ ६२ ॥ चतुर्थका स्वामी लग्नमें और लग्नेश चतुर्थमें हो तो उन दोनों राशिमें यदि ३३ बिन्दु हों तो राजलक्ष्मीयुक्त राजा होवे ॥ ६२ ॥ होराबन्धुप्राप्तिभावत्रयेषु त्रिंशन्मानाधिक्यबिन्दूपगेषु । जातस्तेजःश्रीबहुत्वं च राज्यं चत्वारिंशद्वत्सरादूर्ध्वमेति ॥ ६३ ॥ होरेति । होरा = लग्नम्, बन्धुः = चतुर्थभावः, प्राप्तिः = एकादशभावः इत्येषु भाव- त्रयेषु त्रिंशन्मानाधिक्यविन्दूपगेषु = प्रथम-चतुर्थ-लाभभावानां समुदायाष्टकवर्गबिन्दवो मिलिता यदि त्रिंशदधिकाः स्युस्तदा जातो नरः चत्वारिंशद्वत्सरादूर्ध्वं तेजः, श्रीबहुत्वं राज्यं च एति = प्राप्नोति । अस्मिंल्लक्षणे जातो ४० चत्वारिंशद्वर्षादूर्ध्वं भाग्यवान् भवतीति भावः ॥ ६३ ॥ लग्न चतुर्थ लाभ इन तीन स्थानमें तीससे अधिक बिन्दु हों तो जातक तेजस्वी, बहुत बड़ा धनी हो और उसको ४० वर्षके ऊपर राज्य मिले ॥ ६३ ॥ यत्पञ्चविंशतिमुखास्त्रिदशान्तसंख्या बन्धुस्थिता नवमराशिकबिन्दवश्च । यद्यष्टकेन सह विंशतिवत्सराणामन्ते परे शरदि वा नरवाहनाढ्यः ॥ ६४ ॥ यदिति । यदि बन्धुस्थिताः = चतुर्थभावगताः, नवमराशिकबिन्दवश्च सम्मिलिता पञ्चविंशतिमुखाः = पञ्चविंशतिमारभ्य त्रिदशान्तसङ्ख्याः = त्रिः दश त्रिगुणिता दश अन्त-