भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 366, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 366

३४० सटीकजातकपारिजाते- मशनीनामन्यतमे वा कोण- (५।९) गे ग्रहे सति अत्रेदं विचिन्त्यम्। लग्नमारभ्य शनिपर्यन्तेषु राशिषु यावन्तो बिन्दवस्तान् सप्तभिः सङ्गुण्य सप्तविंशतिभिर्भागमहरेत्तदा यल्लुब्धं तावन्मिते नक्षत्रे यदि रविर्भौमो वा शनिः (पापग्रहः) अथवा कोणस्थितः कश्चिद्ग्रहो भवेत्तदा, नराणां विपुला = महती रोगादिपीडा स्यादिति मूलशब्दार्थः । अथात्र मन्त्रेश्वरेण लब्धतुल्यगताब्दे तथोक्तम्— लग्नात्प्रभृतिमन्दान्तमेकीकृत्य फलानि वै । सप्तभिर्गुणयेत्पश्चात् सप्तविंशहतात्फलम् ॥ तत्समानगते वर्षे दुःखं वा रोगमाप्नुयात् एवं मन्दादिलग्नान्तं भौमराहोस्तथा फलम् ॥ इति ॥६८॥ मन्दादीति । मन्दं=शनिमारभ्य लग्नान्तं यावद्राशिषु फलं=समुदायाष्टकबिन्दु- सङ्ख्या, वा आरात् = मङ्गलात् लग्नान्तमथवा, उदया॑त् = लग्नात् कुजान्तं फलं तद्वत् सप्तभिः सङ्गुण्य सप्तविंशतिभिः २७ भक्तं कृत्वा लब्धमिते नक्षत्रे रव्यादिपापे गतवति तद्वत्=रोगादिपीडा वाच्या । अथ च शुभैक्यसङ्ख्यागततारकायां—शुभग्रहाणां यावन्तो बिन्दवस्तेषामैक्यवशाद्य- क्तव्यता तारा, अर्थात् लग्नादितो मन्दान्तगतं मन्दादितो लग्नान्तगतमित्यादि यथा प्रदर्शितं तथैव लग्नादिशुभग्रहान्तं फलं सप्तभिः सङ्गुण्य सप्तविंशतिभिः भक्तं कुर्यात्, लब्धमिते नक्षत्रे गतवति शुभग्रहे सौख्यफलं ब्रूयादिति । अत्रापि लब्धतुल्ये वर्षे तत्तदुक्तं फलमुक्तं जातकादेशकारेण । तथा तद्वचनम्— लग्नादारभ्य सूर्यात्मजगतभवनाक्षान्तमेकत्र युक्त्वा ७ २७ सुध्ने तस्मिन् सुखाप्ते गतवति फलतुल्याब्दके रोगशोकाः । मन्दादालग्नमेवं क्षितिसुतगभावाच्चादिलग्नं विलग्ना- दाभौमं त्वेति कृत्वा विधिमशुभमतिर्बादिशोचोदिताब्दे ॥ इति ॥ अत एव श्लोकद्वयेऽपि तदुक्तलक्षणे लब्धसंख्यामिते गताब्दे तत्तदुक्तं शुभाशुभ- फलं वाच्यमिति सिद्धान्तः ॥ ६९ ॥ लग्नसे शनि पर्यन्तकी बिन्दुसंख्याको ७ से गुणाकर २७ के भाग देनेसे जो लब्धि प्राप्त हो उसमें सूर्यादि पापग्रह या कोणस्थ ग्रह प्राप्त हो तो मनुष्योंको बड़ी रोगादि पीड़ा हो ॥६८॥ शनिसे लग्नान्त जो फल उसी प्रकार मङ्गलसे लग्न पर्यन्त तथा लग्नसे मङ्गल पर्यन्त विचारे । शुभ संख्याकी एकत्रताकी संख्यामें शुभग्रह सौख्य फल देनेवाले हैं, ऐसा आचार्य कहते हैं ॥ ६९ ॥ शोध्यं राशिषुचरणगुणकैः संगुणय्यैतदैक्यं हत्वा शैलैरुडुगणहृतं लब्धमब्दादिकं स्यात् । मानाधिक्ये विशातमशते तारकायुर्वराङ्गैः सङ्गुण्याप्तं दिवसनिचयैर्भानुभिः शुद्धमायुः ॥ ७० ॥ शोध्यमिति । शोध्यं = त्रिकोणैकाधिपत्यशोधनजातं फलं राशेषु चरस्य (ग्रहस्य) च गुणकैः ४४ श्लोकोक्तैः सङ्गुण्य (तत्तद्ग्रहस्य पृथक् पृथगिति) एतेषामैक्यं विधाय तच्छैलैः ७ हत्वा (संगुण्य) उडुगणैः २७ हतं = भक्तं सद्यल्लब्धं तदब्दादिकं = वर्षा- दिकं स्यात् । तस्मिन् वर्षादौ मानाधिक्ये = शताधिक्ये समागते सति तद्विशतं = शतोर्न्नितं कार्यं, अशते = शताल्पे सति तदेव ग्राह्यं, तद्देतारकायुः = नक्षत्रायुः कथ्यते । अथ तदायुः वराङ्गैः = ३२४ भिः हत्वा = सङ्गुण्य, दिवसनिचयैः दिनसमूहैः (वर्षान्तःपातिभिः)