जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 367, कुल 588 में से
संदर्भ में पढ़ेंमातुलैः = ३६५ प्रमितैः भक्तं कुर्यात् तदा लब्धं शुद्धं आयुः स्यात् । एतद्धि शुद्धाष्टक- वर्गजनितं ज्ञेयमिति । अत्र यदुक्तं मानाधिक्ये विशतमिति तदाह जातकादेशकारः— अष्टवर्गं समुद्धृत्य ग्रहाणां राशिवमण्डले । प्राग्वत् त्रिकोणं संशोध्य पश्चादेकाधिपत्यताम् ॥ एकस्मिन् मण्डलाधिक्यं शोधयेच्चक्रमण्डलम् । द्वादशैव तु गृह्णीयादेवं सर्वेषु राशिषु ॥ पूर्वोक्तं गुणकारैस्तु वर्धयेच्च पृथक् पृथक् । एकीकृत्य ततः सर्वं सप्तभिर्गुणयेत् पुनः । सप्तविंशतिहृल्लव्धं आयुःपिण्डं प्रदृश्यते । द्वादशादिगुणाल्लव्धं मासादिघटिकास्ततः ॥ शतादूर्ध्वं तु तत्पिण्डं मण्डलं शोधयेच्च तम् । शतमेव तु गृह्णीयाद्दीर्घायुर्योगसम्भवे ॥ तद्विधं सकलं कृत्वा वराङ्गेन ३२४ विवर्धितम् । मातङ्ग-३६५ हतलब्धायुर्मातङ्गाब्दं प्रदृश्यते ॥ अत्राष्टकवर्गे शतमेवोत्तमायुर्गृहीतमित्यवगन्तव्यम् ॥ ७० ॥ शुद्धावशेष बिन्दुको राशि ग्रहके गुणकसे गुणाकरके ७ से गुणे फिर २७ का भाग देने से जो फल मिले वह वर्षादि होता है । शताधिक्य होने पर १०० में शोधकर वरांग ३२४ से गुणाकर मातंग ३६५ से भाग देने पर शुद्ध आयु होती है ॥ ७० ॥ इदानीं साधितमायुः कदा यथात्वमुपयातीत्याह— स्वल्पमध्यबहुमानवत्सरा मण्डलोनयुतकर्मकल्पिताः । तुल्यकालमुपयान्ति सर्वतः सद्गुणोदयकटाक्षवीक्षणात् ॥ ७१ ॥ स्वल्पेति । उक्तप्रकारैः साधिताः स्वल्पमध्यबहुमानवत्सराः = अल्पायुर्मध्यायुर्दीर्घायुषां वर्षभेदाः मण्डलोनयुतकर्मकल्पिताः ( मानाधिक्येत्यादिकर्मकृताः ) सद्गुणोदयकटाक्षवी- क्षणात्=सद्गुणविशिष्टानां ग्रहाणामुदये लग्ने यत् कटाक्षवीक्षणम्=सदवलोकनं तस्मादर्थात् यदि लग्ने सद्गुणयुक्तानां ग्रहाणां दृष्टिः स्यात्तदा सर्वतो भावेन तुल्यकालमुपयान्ति । यदि लग्ने सद्ग्रहाणां दृष्टिर्न स्यात्तदा तदागतमायुर्न याथातथ्येन परिणमतीति भावः ॥७१॥ लग्नमें सद्गुण ग्रहकी कटाक्षदृष्टिसे स्वल्प मध्य बहुवत्सर मण्डलमें हीन युत कर्म- कल्पनासे सब तरहसे समान समय आते हैं ॥ ७१ ॥ श्रीवैद्यनाथकृतजातकपारिजाते पराशरादिफलसाररसोपयाते । प्रस्तारभिन्नसमुदायकबिन्दुशीलः संकीर्तितस्तु सकलद्युचरप्रसादात् ॥ ७२ ॥ इति दशमोऽध्यायः । सरलार्थेन श्लोकेनानेनाध्यायमुपसंहरतीति ॥ ७२ ॥ पारिजाते सुधा टीका कपिलेश्वरनिर्मिता । दशमे चाष्टवर्गाख्येऽध्यायेऽस्मिन् पूर्णतां गता ॥ १० ॥ पराशर आदि मुनियोंके ग्रन्थके फलके सार भागसे उत्पन्न श्रीवैद्यनाथजी कृत जातक- पारिजातमें सब ग्रहोंकी कृपासे अष्टवर्गके प्रस्तारके भेदोंका वर्णन किया ॥ ७२ ॥ इति जातकपारिजाते दशमेऽध्याये 'विमला' हिन्दी टीका समाप्ता ॥ १० ॥