जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 372, कुल 588 में से
संदर्भ में पढ़ें३४६ सटीकजातकपारिजाते- ग्रहस्य यादृक्फलुः, यत्स्वरूपं, यादृगाकृतिश्च वर्तते तथैव तस्य जातस्यापि वाच्यमित्यर्थः । अथ वर्णमाह—वर्णमिति । चान्द्रनवांशनाथात् = चन्द्रो यस्मिन्नवांशे स्थितो भवेत्तन्न- वांशराशिपतेः वर्णं जातस्य वदेदिति । यस्य ग्रहस्य यो वर्णः ( २ अ० १९ श्लो० ) उक्तः स एव वर्णो जातकस्येति । विलग्नभात् सर्वशुभाशुभानि = लग्नाद्द्वादशभावराशयः कालपुरुषाङ्गे यत्र यत्रावस्थितो विद्यते ( १ अ० ८ श्लो० ) तन्न तत्राङ्गे जातस्य शुभा- शुभग्रहपरत्वेन शुभाशुभानि फलानि वाच्यानि । अत्र ३ अ० ७६ श्लोको द्रष्टव्यः ॥१५॥ शरीरके स्वरूप-आकृति लक्षणोंको लग्नके नवांशपतिसे वा तत्कालमें सर्वाधिक बलवान् ग्रहसे कहे । चन्द्रमाके नवांशके स्वामीसे शरीरका वर्ण कहे, और समस्त शुभ अशुभको लग्नसे कहे ॥ १५ ॥ त्रिकोणकेन्द्रे यदि लग्ननाथे शुभान्विते शोभनवीक्षिते वा । शुभग्रहागारगते बलाढ्ये चतुःसमुद्रान्तयशः समेति ॥ १६ ॥ त्रिकोणेति । शुभग्रहेण युक्तो दृष्टो वा लग्नेशः, त्रिकोणे केन्द्रे ( ५।९।१।४।७।१० ) वा गतः स्यात् , एवं शुभग्रहाणां राशिगतो बलाढ्यदा भवेत्तदा जातो नरः चतुस्समुद्रान्तं यशः = प्रतिष्ठां समेति प्राप्नोति ॥ १६ ॥ यदि लग्नेश त्रिकोण या केन्द्रमें स्थित हो शुभग्रहसे युक्त हो, वा शुभग्रहसे देखा जाता हो, वा बलवान् होकर, शुभग्रहकी राशिमें हो तो चारो समुद्र पर्यन्त ( भूमंडल ) में उसका यश होवे ॥ १६ ॥ होराधिनाथे रिपुरन्ध्ररिष्फे पापान्विते पापनिरीक्षिते वा । पापग्रहाणां भवनोपयाते जातोऽप्रकाशो भवतीह मर्त्यः ॥ १७ ॥ होराधिनाथ इति । होराधिनाथे = जन्मलग्नपतौ । अन्यत्सुगममेवेति ॥ १७ ॥ यदि लग्नेश छठे, आठवें या बारहवें स्थानमें हो पापग्रहसे युक्त हो या देखा जाता हो, वा पापग्रहके गृहमें हो तो इस योगमें मनुष्य यहां नामी नहीं होता है ॥ १७ ॥ कीर्तिस्थानपतौ विलग्नभवने जातः स्वयं कीर्तिमान् । वित्तस्थे तु विशेषकीर्तिसहितः स्वोच्चादिवर्गान्विते । दुःस्थे चञ्चलयात्रया हततनुर्जातोऽथवा दुर्जनः केन्द्रे कोणगते शुभग्रहयुते यात्रासुखं जायते ॥ १८ ॥ कीर्तिस्थानपताविति । कीर्तिस्थानपतौ = नवमभावाधिपतौ ग्रहे, विलग्नभवने = जन्म- कालीनलग्ने गते सति जातो नरः स्वयं कीर्तिमान् भवति । तस्मिन् कीर्तिस्थानपतौ, वि- त्तस्थे = द्वितीयभावमुपगते स्वकीयोच्चादिवर्गयुते च जातो विशेषकीर्तिसहितः = तडागारा- मदेवायलपुस्तकादिचिरस्थायिकीर्तिमान् भवति । तस्मिन्नेव कीर्तिपतौ दुःस्थे = षडष्टव्यय- गते सति जातः चञ्चलयात्रया ( तीव्रगतियानादिनिपातः ) हततनुः = नष्टशरीरः, अथवा दुर्जनः दुःशीलो भवति । तस्मिन्नेव कीर्तिपतौ केन्द्रे कोणे वा गते शुभग्रहयुते च जातस्य यात्रासुखं जायते ॥ १८ ॥ कीर्तिभावेश ( नवमेश ) लग्नमें हो तो जातक स्वयं कीर्तिमान् हो। यदि वही उच्चा- दिवर्गसे युक्त धन भावमें हो तो विशेष कीर्ति वाला हो। यदि दुष्ट स्थानमें हो तो चंचल यात्रासे शरीरका नाश हो, वा दुर्जन हो। यदि वही केन्द्र या कोणमें हो शुभग्रहसे युक्त हो तो यात्रामें सुख प्राप्त होवे ॥ १८ ॥ होरास्वामिनि पञ्चमे यदि सुतस्थानेशायुक्तेऽथवा भाग्ये वा यदि भाग्यपेन सहिते लग्ने यशस्वी पिता । भ्रातृस्थानपतौ विलग्नगृहगे तत्कारकभ्रातृपा- वेकस्थौ बलशालिनौ च यदि वा तत्सोदरः कीर्तिमान् ॥ १९ ॥