जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 373, कुल 588 में से
संदर्भ में पढ़ेंप्रथमद्वितीयभावफलाध्यायः ॥११॥ ३४७ होरास्वामिनीति । होरास्वामिनि = जन्मलग्नेशे यदि पञ्चमे गते, अथवा सुतस्थानेश- युक्ते = पञ्चमेशेन सहिते भाग्ये = नवमे भावे गतवति, यदि वा भाग्यपेन = नवमेशेन स- हिते लग्ने विद्यमाने सति जातस्य पिता यशस्वी = कीर्तिमान् भवति । भ्रातृस्थानपतौ = तृतीयभावेशे, विलग्नगृहे = जन्मलग्नमुपगते, तत्कारकभ्रातृपौ = भ्रातृकारकः (भौमः) भ्रातृपः (तृतीयेशः) चैकस्थौ (यत्र तत्रैकराशिगतौ) बलशालिनौ च यदि भवेतां तदा तत्सोदरः = तस्य जातस्य सोदरो भ्राता कीर्तिमान् भवतीति ॥ १९ ॥ यदि पंचमेशसे युक्त लग्नेश पंचम भावमें हो वा नवममें हों, वा नवमेशके साथ लग्नमें हो तो जातकका पिता यशस्वी होवे । यदि तृतीय भावका स्वामी लग्नमें हो अथवा उसका कारक और तृतीयेश दोनों एक राशिमें हों बलवान् हों तो उसका सहोदर भाई कीर्तिमान होवे ॥ १९ ॥ विद्याधिपे वा यदि चन्द्रसूनौ लग्ने सुखे लग्नपसंयुते वा । बलान्विते पापद्दशा विहीने विद्यायशस्वी भवति प्रजातः ॥ २० ॥ विद्याधिप इति । विद्याधिपे = विद्यास्थानपतौ = द्वितीयेशे (द्वितीयभावाद् विद्याविचारः क्रियते, ४९ श्लोको द्रष्टव्यः) वा चन्द्रसूनौ = बुधे, लग्ने = जन्मलग्ने, वा लग्नपसंयुते = लग्नेशेन समन्विते, बलान्विते, सुखे = चतुर्थभावे, पापद्दशा विहीने च सति प्रजातः = ईदृग्लक्षणोपलक्षिते काले जायमानो नरः, विद्यायशस्वी भवति ॥ २० ॥ यदि द्वितीयेश, वा बुध लग्नमें वा लग्नेशके साथ चौथेमें हो बलवान् हो पाप ग्रहकी दृष्टिसे रहित हो तो जातक विद्यामें यशस्वी हो ॥ २० ॥ धर्मोदयेशौ नवमोदयस्थौ धर्मोदयेशौ तनुधर्मगौ वा । सुरेन्द्रवन्द्येक्षितसंयुतौ चेत् समेति जातश्चिरकालभाग्यम् ॥ २१ ॥ धर्मोदयेशाविति । धर्मोदयेशौ = नवमेशलग्नेशौ क्रमेण नवमोदयस्थौ (नवमेशो नवमगतो लग्नेशो लग्नगतश्च) भवेताम्, वा धर्मोदयेशौ तनुधर्मगौ (धर्मेशो लग्ने, लग्नेशो धर्मे च गतः) भवेतां तथा भूतौ चेद्यदि सुरेन्द्रवन्द्येन = गुरुणा, ईक्षितौ संयुक्तौ वा भवेतां तदा जातो नरः चिरकालभाग्यं समेति यावज्जीवनं भाग्यवान् भवतीत्यर्थः ॥ २१ ॥ धर्मेश और लग्नेश क्रमसे नवम और लग्नमें हों (नवमेश ९ वें, लग्नेश लग्नमें) वा लग्नेश और नवमेश क्रमसे ९ वें और लग्नमें हों (नवमेश लग्नमें लग्नेश ९ वें) दोनों बृहस्पतिसे देखे जाते हों या युक्त हों तो जातक बहुत समय तक भाग्यवान् रहे ॥ २१ ॥ लग्नाधिपस्य व्ययगे तदुच्चमित्रे सुहृत्तुङ्गखगोक्षिते वा । तद्राशिगे वा यदि मित्रखेते तस्य स्थितिर्जन्मवसुन्धरायाम् ॥ २२ ॥ लग्नाधिपस्येति । लग्नाधिपस्य = जन्मलग्नपतेः, व्ययगे = द्वादशे भावे, तदुच्चमित्रे = तस्य लग्नाधिपस्योच्चे मित्रगृहे वा सति तस्मिन् सुहृत्तुङ्गखगेक्षिते लग्नेशस्य मित्रग्रहेण तुङ्गगतग्रहेण चेक्षिते. वा तद्राशिगे = लग्न इत्यर्थः, मित्रखेते = लग्नेशस्य मित्रग्रहे सति तस्य जातस्य स्थितिः, जन्मवसुन्धरायां = यत्र भूमौ जन्म जातं तस्यां (जन्मभूमावेव तस्यावस्थानं) भवतीत्यर्थः ॥ २२ ॥ लग्नेशसे १२ वें उसके उच्च स्थान या मित्र राशि हो मित्र या उच्च ग्रहसे देखा जाता हो वा लग्नेशका मित्रग्रह उसके राशिमें हो तो उसकी स्थिति जन्म-भूमिमें हो ॥ २२ ॥ लग्नेशाद्व्ययपे विलग्नपरिपौ नीचेऽथवा दुर्बले जातो याति विदेशमिष्टदनुजाचार्येण दृष्टे यदि । तत्रैव स्थितिरन्यपे रविकरच्छन्ने विलग्नाधिपा- दल्पग्रामचरो बलिन्यपि घनग्रामाधिवासो भवेत् ॥ २३ ॥