भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 374, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 374

३४८ सटीकजातकपारिजाते- लग्नेशादिति । लग्नेशाद्व्ययपे = लग्नपतिर्यत्र तिष्ठति तस्माद्यो द्वादशो भावस्त- द्धीरो ( लग्नेशाधिष्ठितराशेर्व्ययेश इत्यर्थः ) विलग्नपतिरिपौ = लग्नेशस्य शत्रुग्रहे सति, नीचे = नीचराशिगते, अथवा दुर्बले बलहीने सति, तस्मिन्यदि इष्टदनुजाचार्येण = मित्रत्व- मुपगतेन शुक्रेण दृष्टे सति जातो नरो विदेशमन्यदेशं याति । अथ तस्मिन्नेव विलग्ना- धिपाल्लग्नेशादन्त्यपे = द्वादशेशग्रहे, रविकरच्छन्ने = सूर्येण सहास्तङ्गते सति तत्रैव जन्म- भूमावेव स्थितिर्भवति, तथा अल्पग्रामचरः = लघुग्रामवासी भवति । अथ तस्मिन्नेव विल- ग्नाधिपादन्त्यपे बलिनि = सबले सति धनग्रामाधिवासः = विविधधनधान्ययुक्तस्य ग्रामस्य ( नगरस्य ) निवासी भवतीति ॥ २३ ॥ लग्नेशसे बारहवें स्थानका स्वामी लग्नेशका शत्रु हो और यदि वह नीचमें हो वा दुर्बल हो और यदि उसे शुक्र देखता हो तो जातक विदेशमें जाय । यदि लग्नाधिपसे द्वादश स्थानका स्वामी सूर्यके किरणोंसे लुप्त हो तो उसी जगह स्थित हो और छोटे ग्रामोंमें निवास करे । यदि वह बलवान् हो तो शहरोंमें उसका निवास होवे ॥ २३ ॥ होरेशाद्व्ययपे विलग्नभवनात् केन्द्रत्रिकोणस्थिते मित्रस्वोच्चगृहोपगे शुभयुते पार्श्वद्वये मानवः । चेतोरम्यमहीचरो दिविचराचार्येन्दुशुक्रेक्षिते दिव्यक्षेत्रमुपैति जन्मधरणीवासस्तदर्थे रिपौ ॥ २४ ॥ होरेशादिति । होरेशाद् व्ययपे = लग्नेशे यत्र तिष्ठति तस्माद् व्ययभावस्य पतितस्त- स्मिन्, विलग्नभवनात् = जन्मलग्नराशेः केन्द्रत्रिकोणे (१।४।७।१०।५।९) स्थिते, तथा सति स्वकीयमित्रराशिश्वराशिस्वकी- योच्चराशीनामन्यतममुपगते पार्श्वद्वये = तस्मादुभयत्र द्वितीये द्वादशे च शुभयुते शुभग्रहे विद्यमाने सति जातो मानवः चेतोरम्यमहीचरः = मनोरमभूमिचरो (अ- तीवसुन्दरस्थलवासी ) भवति ।

उदाहरणम्—

+---------------+---------------+
|       \   ४   /       \   २   /
|        \     /         \     /
|    ५    \   /    ३ ल.   \   /  १ बृ.
|          \ /             \ /
|-----------+---------------+-----------|
|     ६     |               |   मं. १२  |
|           |               |           |
|-----------+---------------+-----------|
|     ७     |               |    ११     |
|          / \             / \
|    ८    /   \    ९ बु.  /   \  १०
|        /     \         /     \
|       /   ८   \       /       \
+---------------+---------------+

अत्रोदाहरणे-कल्प्यते मिथुनलग्नपतिर्बुधो धनुषि सप्तमे भावे विद्यते, तस्माद् व्ययो वृश्चिकस्तत्पतिर्भौमो मीने लग्नाद् दशमे (केन्द्रे) मित्रराशिस्थो वरीवर्ति, तस्मादुभयत्र गुरुशुक्रौ मेषकुम्भस्थौ विद्येते इति उक्तयोगलक्षणं घटत इति । अथ तस्मिन्नेव लग्नेशा- द् व्ययपे, दिविचराचार्येन्दुशुक्रेक्षिते = गुरुचन्द्रशुकदृष्टे सति, दिव्यक्षेत्रं = देवादितीर्थस्थानं प्राप्नोति ( तीर्थादौ वासं करोतीत्यर्थः ) । अथ तदर्थे = लग्नेशाद् व्ययेशग्रहाद् द्वितीयभावे रिपौ = तस्य शत्रुग्रहे विद्यमाने सति जन्मधरणीवासः = यत्र जातस्य जन्म भवति तस्यामेव भूमौ वासकृद्भवति ॥ २४ ॥ लग्नेशसे व्ययाधीश लग्नसे केन्द्र या कोणमें हो, मित्र गृहमें या अपने उच्च भवनमें हो उसके दोनों तरफ शुभग्रह हों तो मनुष्य रमणीय भूमिमें वास करे । यदि उसके दूसरे तथा छठे स्थान पर बृहस्पति, चन्द्रमा और शुक्र की दृष्टि हो तो जातक जन्म भूमिमें वास करे और दिव्य स्थानको प्राप्त हो ॥ २४ ॥ विदेशभाग्यं चरभे विलग्ने चरे तदीशे चरखेटदृष्टे । स्थिते स्वदेशे बहुभाग्ययुक्तः स्थिरग्रहैर्भूरिधनान्वितः स्यात् ॥ २५ ॥