भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 378, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 378

३५२ सटीकजातकपारिजाते- लग्नेश इति । लग्नेशे यदि रिष्फगे = द्वादशभावगते, तथाभूते दिनकरस्थारातिना- थन्विते = दिनकरः ( सूर्यः ) यत्र तिष्ठति, तस्मादरातिनाथेन ( षष्ठेशेन ) सहिते सति, जातो जायावान् = स्त्रीभिर्युक्तः, बहुरोगवान् = विविधरोगैर्युक्तः, कृशतनुः = क्षीणाङ्गः, संरक्त- गौरद्युतिः = रक्तान्वितगौरवर्णः भवति । लग्नेशे, लग्नर्क्षादरिनाथपेन = जन्मलग्नात् षष्ठभाव- पतिना च युते जातो नरः, असिताङ्गः = कृष्णवर्णः स्यात् । अथ लग्नपतौ, साहौ = राहुणा सहिते तु जातः, वञ्चनविषात् = वञ्चनया ( प्रतारणेन ) दीयमानाद् गरलात्, भीतिं = भयं, ध्रुवं=निश्चयेन, समेति=प्राप्नोति ॥ ३७ ॥ यदि लग्नेश द्वादश स्थानमें हो, सूर्यसे छठे भावके स्वामीसे युक्त हो तो वह जातक स्त्रीयुक्त, बहुत रोगवाला , कृशाङ्ग और लाल युत गौर कान्तिवाला होवे । यदि लग्नेश लग्नसे शत्रु भावके पतिसे युक्त हो तो जातक श्यामवर्ण होवे । यदि राहुसे युक्त लग्नेश हो तो निश्चय उसे ठगैतीसे विषका भय हो ॥ ३७ ॥ लग्ने शुभे शोभनदृष्टियुक्ते बाल्यात् सुखं तन्नहि पापयोगात् । दुःखी भवेत्पापबहुत्वयोगे लग्ने तु बाल्यान्मरणान्तमाहुः ॥ ३८ ॥ लग्न इति । शुभे = शुभराशिके, लग्ने, तस्मिन्, शोभनदृष्टियुक्ते = शुभग्रहेण शुभ- ग्रहैर्वाऽवलोकिते, बाल्यात् = बालावस्थात एव सुखं प्राप्नोति जातकः । तस्मिन् लग्ने, पापयोगात् = पापग्रहस्य योगतः, तन्नहि = सुखं न भवतीति । अथ लग्ने पापबहुत्व- योगे = बहूनां पापानां संयोगे सति जातो बाल्यान्मरणकालपर्यन्तं दुःखी भवेदित्याचार्याः आहुः । एतेनेदं फलितं यच्छुभफलाय शुभलग्ने शुभग्रहस्य दृष्ट्या योगेन चावश्यमेव भवितव्यमिति ॥ ३८ ॥ लग्नमें शुभग्रह हो और उस पर शुभग्रहकी दृष्टि भी हो तो बाल अवस्थासे ही जातक सुखी होवे । यदि पापग्रहका योग और दृष्टि हो तो दुःखी होवे । लग्नमें बहुत पापग्रहोंका योग हो तो लड़कपनसे मरण पर्यन्त दुःखी रहे, ऐसा आचार्योंने कहा है ॥ ३८ ॥ देवलोकांशके शुक्रे लग्नेशे गोपुरांशके । लग्ने शुभग्रहैर्दृष्टे मध्येऽन्ते सौख्यमाप्नुयात् ॥ ३६ ॥ देवलोकांशक इति । शुक्रे यत्र तत्र देवलोकांशके गतवति, लग्नेशे यत्र तत्र गोपु- रांशके विद्यमाने, लग्ने शुभग्रहैः = बुधगुरुशुक्रैर्दृष्टे जातो मध्ये वयसि अन्त्ये च सौख्य- माप्नुयात् । Notes—देवलोकांशगोपुरांशलक्षणं १. अ. ४५।४६. श्लो. द्रष्टव्यम् ॥ ३६ ॥ शुक्र देवलोकांशमें हो, लग्नेश गोपुरांशमें हो और लग्नमें शुभग्रहकी दृष्टि हो तो मध्य और अन्त्य अवस्थामें सुख होवे ॥ ३९ ॥ लग्ने शुभे धने पापे केन्द्रे पापसमन्विते । लग्नेश्वरोत्तमांशस्थे चादौ दुःखमतः सुखम् ॥ ४० ॥ लग्नेशे शुभराशिस्थे शुभग्रहानिरीक्षिते । गोपुरांशगते वापि षोडशाब्दात्परं सुखम् ॥ ४१ ॥ लग्नेशास्थांनाथे तु केन्द्रकोणोच्चसंयुते । लाभे वा बलसंयुक्ते त्रिंशाद्वर्षात्परं सुखम् ॥ ४२ ॥ लग्न इति, लग्नेश इति, लग्नेशास्थ्यांशेति श्लोकत्रयं सरलार्थकमेवेत्यलं विस्तरेण ॥ लग्नमें शुभग्रह हो, द्वितीयमें पापग्रह हो, केन्द्र पापग्रहसे युक्त हो और लग्नेश उत्त- मांशमें स्थित हो तो प्रथम अवस्था में दुःख हो उसके बाद सुख होवे ॥ ४० ॥