भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 382, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 382

३५६ सटीकजातकपारिजाते- धनेश मातृस्थानेश ( सुखेश ) के साथ लग्नमें हो तो माताका धन पावे । एवं धनेश जिस भाव पतिके साथ होकर लग्नमें हों उसका धन जातक प्राप्त करे ॥ ५५ ॥ यदि लग्नेश धन भावमें हो और धनेश लग्नमें हो तो अनायास ही धन प्राप्त हो । लग्नेश और धनेश जिस भावमें हों उसीके द्वारा मनुष्योंको धन मिले । जैसे तृतीयमें हो तो भाईसे, चतुर्थमें हो तो मातासे इत्यादि प्रकारसे जाने ॥ ५६ ॥ चन्द्रः कुटुम्बभवने शुक्रेण निरीक्षितः प्रदाता च । सौम्ये शुभसंदृष्टे स एव धनवान् सदा ज्ञेयः ॥ ५७ ॥ चन्द्र इति । कुटुम्बभवने=द्वितीयभावे स्थितश्चन्द्रो यदि शुक्रेण निरीक्षितः=दृष्टो भवेत्तदा जातः प्रदाता = अन्येभ्योऽर्थदाता भवति । अत्र चकारात् कारकेनापि शुक्रदृष्टेन भवि- तव्यम् । तत्र कुटुम्बभवने स्थिते सौम्ये=बुधे, शुभसंदृष्टे = गुरुशुक्रयोरन्यतरेण द्वाभ्यां वा दृष्टे स जातः सदैव धनवान् भवेदिति ज्ञेयः । स यावज्जीवनं धनी स्यादित्यर्थः । Notes—उक्तयोगयुगले चन्द्रो बुधश्च यदि स्वराशीमूलत्रिकोणोच्चादिगतौ भवेतां तदोक्तं फलं विशेषेण फलतीति चिन्त्यम् ॥ ५७ ॥ चन्द्रमा द्वितीय स्थानमें हो शुक्रसे देखा जाता हो तथा धन-कारक भी शुक्रदृष्ट हो तो धनी होवे । यदि धनभावगत बुध शुभदृष्ट हो तो वह सदा धनवान् रहे ॥ ५७ ॥ अर्थाधीशो यत्र संस्थो नराणां तस्मिन् काले तत्र वृद्धिविशेषात् । तद्भागे च द्रव्यलाभं करोति वक्रोऽसौ चेद्दिक्षु सर्वार्थसिद्धिः ॥ ५८ ॥ अर्थाधीश इति । अर्थाधीशः = द्वितीयेशः, जन्मकाले यत्र = यस्मिन्भावे, तिष्ठति, त- स्मिन् काले धनेशस्य दशासमये तत्र=तद्भावदिशि, विशेषाद् वृद्धिः भवति। तद्भागे=तद्भा- वदिग्भागे द्रव्यलाभं च करोति । अथासौ धनेशो वक्रगतिश्चेत्तदा दिक्षु = सर्वासु दिक्षु जा- तस्य सर्वार्थसिद्धिरुच्येते । Notes—अत्र भावानां दिक् चक्रानुसारण ज्ञेया । लग्नादित्रयाणां पूर्वा दिक् । चतु- र्थादित्रयाणामुत्तरा, सप्तमादित्रयाणां वारुणी, कर्मादित्रयाणां याम्या दिगिति ज्ञातव्यम् ॥५८॥ जन्मकालमें धनेश जहां स्थित हो उस भाव राशिकी जगहमें मनुष्यों की विशेष वृद्धि होती है। वह राशि जिस दिशाकी हो उस भागमें उसे द्रव्यलाभ होता है। वह यदि वक्री हो तो सब दिशाओंमें अर्थसिद्धि हो ॥ ५८ ॥ धनेशे लाभसंयुक्ते लाभेशे धनलाभगे । तावुभौ केन्द्रगौ वाऽपि धनवान् ख्यातिमान् भवेत् ॥ ५६ ॥ धनेशे व्ययपष्ठस्थे व्ययेशे वित्तगेऽथवा । लाभेशे रिपुरन्ध्रस्थे व्यये वा धननाशनम् ॥ ६० ॥ व्ययभावगते जीवे वित्तेशे बलवर्जिते । शुभैरनीक्षिते लग्ने वित्तनाशं वदेद् बुधः ॥ ६१ ॥ लग्नेशे धनराशिस्थे धनेशे लाभराशिगे । लाभेशे वा विलग्नस्थे निध्यादिधनमाप्नुयात् ॥ ६२ ॥ लग्नायधनभाग्येशाः परमोच्चांशसंयुताः । वैशेषिकांशगा वापि तदा कोटीश्वरो भवेत् ॥ ६३ ॥ दिनेश्वरकरच्छन्ने धनेशे नीचराशिगे । पापषष्ठ्यंशसंयुक्ते ऋणग्रस्तो भवेन्नरः ॥ ६४ ॥ स्पष्टार्थाः किलैते श्लोका इति ॥ ५९–६४ ॥