जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 388, कुल 588 में से
संदर्भ में पढ़ें३६२ सटीकजातकपारिजाते- Notes—सूर्यो वा भौमो वाग्भावपस्तदैव भवति, यदि कर्कौ वा मीन-तुलयोरन्य- तरं लग्नं स्यादिति चिन्त्यम् । अन्यथा सूर्यो वा भौमः यत्र तत्र पारावतांशे ( स्वकीय- षडधिकारे ) भवेत्तदोक्तं फलं स्यादिति ॥ ८३ ॥ सूर्य या मंगल द्वितीयेश होकर गुरु और शुक्रसे दृष्ट हो, वा अपने पारावतांशमें हो तो वह मनुष्य तर्कशास्त्र ( न्याय ) में तत्पर हो ॥ ८३ ॥ सम्पूर्णबलसंयुक्ते गुरौ तद्भवनेश्वरे । दिनेशभृगुसन्दृष्टे शाब्दिकोडयं भवेन्नरः ॥ ८४ ॥ इदानीं वैयाकरणयोगमाह—सम्पूर्णेति । तद्भवनेश्वरे=द्वितीयभावपतौ, गुरौ=बृहस्पतौ (गुरुर्द्वितीयेशस्तदैव यदि वृश्चिक-कुम्भान्यतरं लग्नं स्यादिति ) सम्पूर्णबलयुक्ते = पूर्वं यानि बलान्युक्तानि तैः सर्वैः संयुक्ते, तथाभूते, दिनेशभृगुसन्दृष्टे = सूर्यशुक्राभ्यामवलोकिते सति, अयमस्मिन् योगे समुद्भवो नरः शाब्दिकः = शब्दशास्त्राभ्यासी=वैयाकरणः भवेदिति । जातकत्नेऽपि— गुरौ धनस्थे बलपूर्णयुक्ते शुक्रेण सूर्येण च दृष्टियुक्ते । शुक्रे धने स्वोच्चगतेऽथवाऽपि जातो नरः शब्दविशेषशास्त्रात् ॥ इति ॥ ८४ ॥ सम्पूर्ण बलसे परिपूर्ण गुरु यदि द्वितीय भावका स्वामी ( द्वितीयेश ) हो उसको सूर्य और शुक्र देखते हों तो वह मनुष्य व्याकरणका पण्डित होवे ॥ ८४ ॥ वेदान्तपरिशीली स्यात्केन्द्रकोणे गुरौ यदि । बुधेन भृगुणा दृष्टे शनौ पारावतांशके ॥ ८५ ॥ इदानीं वेदान्तज्ञयोगमाह—वेदान्तेति । गुरौ केन्द्रकोणे ( १।४।७।१०।५।९ ) गत- वति, तस्मिन् यदि बुधेन, भृगुणा ( शुक्रेण ) च दृष्टे, शनौ च पारावतांशके ( स्वकीया- धिकारषटके ) विलसति, जातः वेदान्तपरिशीली = वेदान्तशास्त्रविवेचको भवतीति ॥८५॥ यदि बृहस्पति केन्द्र या कोणमें हो उसे बुध और शुक्र देखते हों और शनि अपने पारावतांशमें हो तो मनुष्य वेदान्ती होवे ॥ ८५ ॥ षट्शास्त्रवल्लभः केन्द्रे जीवे दानवपूजिते । सिंहासने गोपुरांशे वाग्भावस्यांशपे बुधे ॥ ८६ ॥ इदानीं षट्शास्त्रज्ञयोगमाह—षडिति । जीवे = बृहस्पतौ, केन्द्रे ( १।४।७।१० ), दानवपूजिते = शुक्रे, सिंहासने = स्वकीयाधिकारपञ्चके, वाग्भावस्यांशपे = द्वितीयभावगत- नवांशराशिपतौ, बुधे, ( बुधो द्वितीयभावगतनवांशपतिर्भूत्वा ) गोपुरांशे = स्वकीयाधि- कारचतुष्के सति ( अ. १ श्लो. ४५ द्र. ) जातः, षट्शास्त्रवल्लभः = शिक्षा-कल्प-व्याक- रण-ज्योतिः-निरुक्त-छन्दःशास्त्राणां श्रुतेः षडङ्गभूतानां विवेचको भवति ॥ ८६ ॥ बृहस्पति केन्द्रमें हो शुक्र अपने सिंहासनांशमें हो और बुध द्वितीय भावका नवांश- पति होकर अपने गोपुरांशमें हो तो जातक षट्शास्त्री हो ॥ ८६ ॥ अथ कुटुम्बविचारः । उपजीव्य नरं सर्वे तदीशे गोपुरांशके । वर्द्धन्ते मुदितास्तस्य भृगौ पारावतांशके ॥ ८७ ॥ उपजीव्येति । तदीशे = द्वितीयभावपतौ, गोपुरांशे = स्वकीयाधिकारचतुष्टये, भृगौ = शुक्रे, पारावतांशके = स्वाधिकारषट्के विद्यमाने सति तस्य जातस्य, सर्वे = आत्मीयाः ( कुटुम्बाः ) तं जायमानं नरमुपजीव्य = तदाश्रिता जीवनं यापयन्तो मुदिताः=प्रसन्नचित्ताः सन्तो वर्द्धन्ते = समृद्धिमुपगच्छन्तीति ॥ ८७ ॥