भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 387, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 387

प्रथमद्वितीयभावफलाध्यायः ॥११॥ ३६१ मूको भवतीति (७६ श्लोको द्रष्टव्यः) । अथ यदि द्वितीयेशः शुभग्रहयुतः त्रिकोणे वा केन्द्रे विद्यमानः स्यादथवा कस्मिंश्चिच्छुभदे ( शुभग्रहे ) इत्थम्भूते सति जातो वाग्मी = वाक्प- टुः भवति । 'वाचो युक्तपटुर्वाग्मी' इत्यमरः ॥ ७९ ॥ द्वितीयेश और बृहस्पति अष्टम स्थानमें हों तो जातक गूंगा हो । द्वितीयेश शुभग्रहसे युक्त त्रिकोणमें हो, वा केन्द्रमें हो, वा शुभस्थानमें हो तो वाचाल होवे ॥ ७९ ॥ वागीशस्थांशपे सौम्ये स्वोच्चे वा शुभवीक्षिते । पारावतांशके वाऽपि वाग्मी पटुतरो भवेत् ॥ ८० ॥ वागीशेति । वागीशः ( द्वितीयेशः ) तिष्ठति यत्र नवांशे तस्य नवांशस्य स्वामिग्रहे ( द्वितीयेशाधिष्ठितनवांशपतिग्रहे ) सौम्ये=शुभग्रहे, स्वोच्चे, वा शुभवीक्षिते, वा पाराव- तांशके गतवति । एतदुक्तमवधेयम् । द्वितीयभावपतिः शुभग्रहो भूत्वा स्वकीयोच्चराशौ स्थितः, वा यत्र कुत्र शुभग्रहेण दृष्टः, वा स्वपारावतांशगतो भवेत् । तदा जातो वाग्मी = वचनपटुः, पटुतरः = अतीव विद्वांश्च भवति ॥ ८० ॥ द्वितीय स्थानका स्वामी जिसके नवांश में हो, उसका स्वामी शुभ हो, अपने उच्च स्थानमें हो, वा शुभग्रहसे दृष्ट हो, वा पारावतांशमें हो तो जातक वाचाल और चतुर होवे । केन्द्रत्रिकोणगे जीवे शुक्रे स्वोच्चं गते यदि । वाग्भावपेन्दुपुत्रे वा गणितज्ञो भवेन्नरः ॥ ८१ ॥ अधुना विद्याविचारमाह—केन्द्रेति । जीवे केन्द्रत्रिकोणगे ( १।४।७।१०।५।९ एत- दन्यतमगते ) शुक्रे, स्वोच्चं = मीनराशिमुपगते, यदि वा वाग्भावपेन्दुपुत्रे = द्वितीयेशे बुधे स्वोच्चं ( कन्याराशिं ) गते नरः, गणितज्ञः = गणितशास्त्रवेत्ता भवेत् । Notes—अत्र वृषसिंहयोरन्यतरे लग्ने 'वाग्भावपेन्दुपुत्रे' इति सङ्घटते । अन्यथा तु 'गुरौ केन्द्रकोणगते शुक्रे स्वोच्चं गते' इत्येव चिन्त्यम् ॥ ८१ ॥ यदि बृहस्पति केन्द्र वा त्रिकोणमें हो और शुक्र उच्च स्थानमें हो, वा द्वितीयेश बुध हो तो वह मनुष्य गणितज्ञ हो ॥ ८१ ॥ गणितज्ञो भवेज्जातो वाग्भावे भूमिनन्दने । ससौम्ये बुधसन्दृष्टे केन्द्रे वा सोमनन्दने ॥ ८२ ॥ गणितज्ञयोगान्तरमाह—गणितज्ञ इति । ससौम्ये = केनचिच्छुभग्रहेण ( गुरुशुक्र- शुक्लचन्द्राणामन्यतमेनेत्यर्थः ) सहिते, भूमिनन्दने = मङ्गले, वाग्भावे = द्वितीयभावे गत- वति, तस्मिन्, बुधेन सन्दृष्टे, वा सोमनन्दने = बुधे, केन्द्रे गतवति जातः, गणितज्ञः ( ज्योतिर्विद् ) भवेत् । अत्र 'ससोमे' इत्यपि पाठान्तरं दृश्यते । तथा सति, ससोमे = चन्द्रयुक्ते भूमिनन्दने इति व्याख्येयम् ॥ ८२ ॥ मंगल द्वितीय स्थानमें शुभग्रहके साथ हो उसे बुध देखता हो वा बुध केन्द्रमें हो तो मनुष्य गणितज्ञ होता है ॥ ८२ ॥ वाग्भावपे रवौ भौमे गुरुशुक्रनिरीक्षिते । पारावतांशके वापि तर्कयुक्तिपरायणः ॥ ८३ ॥ इदानीं तार्किकयोगमाह—वाग्भावप इति । सूर्यो वा भौमो द्वितीयेशो भवेत् । तस्मिन् गुरुशुक्राभ्यामवलोकिते, अपि वा सूर्यभौमयोरन्यतरे यत्र तत्र स्वपारावतांशगते सति जातः तर्कयुक्तिपरायणः = तर्कशास्त्र- (न्यायशास्त्र ) व्रती भवति । अत्र 'पाराव- तांशके सौम्ये' इत्यपि पाठो दृश्यते । तथा सति 'बुधे पारावतांशके विद्यमाने सति' इति व्याख्येयम् ।

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक) · पृष्ठ 387, कुल 588 में से · BharatKosha