जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 390, कुल 588 में से
संदर्भ में पढ़ें३६४ सटीकजातकपारिजाते- भुक्ति (२ भाव) का स्वामी पापग्रहसे युक्त होकर दावाग्नि, दण्डायुध, कालके षष्ट्यंश में हो या नीचांशमें हो पापग्रहसे देखा जाता हो तो बहुत खानेवाला होवे। यदि यहां द्वितीयेश शुभयुक्त-दृष्ट हो तो यह दोष न होवे ॥ ९० ॥ भुक्तिस्थाने शुभयुते तदीशे शुभसंयुक्ते । शुभग्रहेण सन्दृष्टे सुखभुक् स नरो भवेत् ॥ परान्नभुक् तदीशेऽपि नीचशत्रुसमन्विते । नीचखेचरसन्दृष्टे तद्द्षणपरायणः ॥९२॥ भुक्तिस्थाने इति । भुक्तिस्थाने = द्वितीयभावे, शुभयुते ( कश्चिच्छुभग्रहो द्वितीयभावगः स्यादिति ), तदीशे = द्वितीयेशे, शुभसंयुते = केनचिच्छुभग्रहेण सहिते तथाभूते केनचिच्छु- भग्रहेण सन्दृष्टे स जातो नरः सुखभुक् = सुखेन भोजनकृद्भवति ॥ ९१ ॥ तदीशे = द्वितीयभावपतौ, नीचशत्रुसमन्विते = स्वनिचे, शत्रुग्रहेण वा समन्विते सति, अपि = निश्चयेन परान्नभुक् = अन्यान्नभक्षणशीलो भवति । अथ द्वितीयेशे तथाभूते, नीच- खेचरसन्दृष्टे = नीचवर्त्तिना ग्रहेणावलोकिते जातः तद्द्षणपरायणः = भुक्तान्नदूषणशीलः भवति । तेन यद्भक्ष्यते तदेव दूष्यते चेति ॥ ९२ ॥ भुक्ति (२) स्थानमें शुभग्रह हो और भुक्ति (२) स्थानेश भी शुभग्रहसे युक्त हो और शुभग्रह उसे देखते हों तो वह मनुष्य सुखसे भोजन करनेवाला हो। यदि २ भावका स्वामी नीच स्थानमें या शत्रुस्थानमें हो तो पराया अन्न खानेवाला हो। नीचग्रहसे दृष्ट हो तो उसके दूषणमें तत्पर हो ॥ ९१-९२ ॥ कालोचिताशनो भुक्तिनाथे लग्नेशवीक्षिते । पापग्रहेण सन्दृष्टे नीचांशादियुते न तु ॥ ९३ ॥ कालोचितेति । भुक्तिनाथे = द्वितीयेशे, लग्नेशेन वीक्षिते = दृष्टे, स्वोच्चादिगते च जातः कालोचिताशनः = यस्मिन् काले यदशनमुचितं तद्धान् ( समयानुकूलभोज्यभुक् ) भवति । अथ तस्मिन्भुक्तिनाथे, पापग्रहेण सन्दृष्टे नीचांशादियुते च तथा तु न ( कालोचिताशनो न ) भवति । अपि तु कालानूचिताशनो भवतीत्यर्थः ॥ ९३ ॥ द्वितीयेश यदि लग्नेशसे देखा जाता हो पापग्रहसे देखा न जाता हो नीचांशादि युक्त न हो तो समयानुकूल भोजन करने वाला हो ॥ ९३ ॥ स्वल्पाशी रुचिकामः स्याद् भुक्तिनाथे शुभे गृहे । स्वोच्चे शुभेन सन्दृष्टे मृद्वंशादिसमन्विते ॥ ९४ ॥ स्वल्पाशीति । सरलार्थ एवेत्यलम् ॥ ९४ ॥ द्वितीयेश शुभराशिमें हो तो जातक थोड़ा खानेवाला हो। द्वितीयेश अपने उच्चमें शुभग्रहसे दृष्ट और षष्ठ्यंशमें हो तो सदा खानेमें रुचि रखनेवाला हो ॥ ९४ ॥ भुक्तिस्थानाधिपे मन्दे तदीशे वाऽऽर्किसंयुते । नीचेऽर्कसूनुना दृष्टे श्राद्धभुक् सततं नरः ॥ ९५ ॥ भुक्तिस्थानाधिप इति भुक्तिस्थानाधिपे= द्वितीयभावेशे, मन्दे = शनैश्चरे सति, वा तदीशे=द्वितीयेशे, आर्क्सिंयुते = शनिना सहिते, वा तदीशे नीचे = स्वनिचराशौ, अर्कसूनुना = शनैश्चरेण दृष्टे सति जातो नरः सततं=नित्यं, श्राद्धभुक् =श्राद्धान्नभो- क्ता ( महाब्राह्मण इव ) भवति ॥ ९५ ॥ दूसरे भावका स्वामी शनि हो वा
[चक्र/कुण्डली विवरण]
- १ भाव (लग्न): १ ल.
- २ भाव: २
- ६ भाव: ६ शु.
- ७ भाव: श्राद्धान्नभुक्
- १२ भाव: १२ श.