भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 391, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 391

तृतीयचतुर्थभावफलाध्यायः ॥१२॥ ३६५ द्वितीयेश शनिसे युक्त हो वा द्वितीयेश नीच राशिमें हो उस पर शनिकी दृष्टि हो तो निरन्तर श्राद्धका अन्न खानेवाला (महापात्र) होवे ॥ ९५ ॥ सिंहासनांशे यदि देवपूज्ये शुक्रे यदा गोपुरभागयुक्ते । पारावतांशे धनपे बलाढ्ये जातस्त्वसङ्ख्याश्रितरक्षकः स्यात् ॥९६॥ सिंहासनांश इति । यदि देवपूज्ये = बृहस्पतौ, सिंहासनांशे = स्वकीयाधिकारपञ्चके, शुक्रे यदा गोपुरभागयुक्ते = स्वाधिकारचतुष्टये, धनपे = द्वितीयेशे, बलाढ्ये सति, पारावतांशे = स्वकीयाधिकारषट्के ( १ अ०, ४५-४६ श्लो० ) च विद्यमाने सति जातः असङ्ख्या- नामनेकानामाश्रितानां = शरणागतानां रक्षकः = प्रतिपालको भवति ॥ ९६ ॥ पारिजाते सुधा टीका कपिलेश्वररचिता । अध्याये रुद्र (११) संख्येऽस्मिन् पूर्ति भावफले गता ॥ ११ ॥ यदि बृहस्पति सिंहासनांशमें हो, शुक्र गोपुर भागमें हो, बलवान् धनेश पारावतांशमें हो तो जातक असंख्य आश्रितों का रक्षक होवे ॥ ९६ ॥ इति जातकपारिजाते एकादशे तनु-धनभावफलाध्याये विमला हिन्दी टीका समाप्ता ॥११॥ अथ तृतीयचतुर्थभावफलाध्यायः ॥ १२ ॥ तत्र तृतीयभावफलम् । ज्येष्ठानुजस्थितिपराक्रमसाहसानि कण्ठस्वरश्रुतिवराभरणांशुकानि । धैर्यं च वीर्यबलमूलफलाशनानि वक्ष्ये तृतीयभवनात् क्रमशोऽखिलानि ॥१॥ अथाधुना तृतीयभावफलानि विवक्षुः प्रथमं तृतीयभावे किं किं विचार्यमित्याह । श्लोकस्तु स्पष्टार्थ एवेत्यलम् ॥ १ ॥ अब तृतीय भावका विचार करते हैं । तृतीय भावसे ज्येष्ठ और छोटा भाईका विचार, पराक्रम, साहस, कण्ठस्वर, श्रवण, आभरण, वस्त्र, धैर्य, वीर्य, बल, मूल, फल भोजन ये सब क्रमसे कहेंगे ॥ १ ॥ अथ भ्रातृविचारः । भ्रातृस्थानं तृतीयं च नवैकादशसप्तमम् । तत्तदीशदशायां च भ्रातृलाभो भवेन्नृणाम् ॥ २॥ इदानीं भ्रातृस्थाननिरूपणपूर्वकं भ्रातृविचारमाह—भ्रातृस्थानमिति । जन्मलग्नात्- तृतीयम्, नवमम्, एकादशम्, सप्तमञ्च स्थानं भ्रातृस्थानं कथितम् । अत एव तत्तदीश- दशायां = तृतीय-सप्तम-नवमै-कादशभावपतीनां दशाकाले, नृणां = जनिमतां, भ्रातृलाभः = सोदरोत्पत्तिः भवेत् । उक्तेषु भावेषु यद्भावपतिर्जन्मकाले बलीयान् भवेत्तद्दशायां विशे- षतो भ्रातृलाभेन भवितव्यमिति चिन्त्यम् ॥ २ ॥ तीसरा, नववां, ग्यारहवां और सातवां ये भ्रातृस्थान हैं। उन स्थानोंके स्वामीकी दशा में मनुष्योंको भ्रातृलाभ होता है ॥ २ ॥ भ्रातृस्थानेशतद्राशितद्भावस्थद्युचारिणाम् । मध्ये बलसमेतस्य दशा सोदरवृद्धिदा ॥ ३ ॥ तृतीयेश-तृतीयेशराशि-तृतीयभावगतग्रहाणां मध्ये बलीयसो ग्रहस्य दशा सोदरवृ- द्धिदा भवति ॥ ३ ॥ भ्रातृ (३) स्थानके स्वामी, उसकी राशि तथा ३ में स्थित ग्रहोंके बीचमें बलवान् ग्रह- की दशा भाईकी वृद्धि करनेवाली होती है ॥ ३ ॥

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक) · पृष्ठ 391, कुल 588 में से · BharatKosha