भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 421, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 421

पञ्चमषष्ठभावफलाध्यायः ॥ १३ ॥ ३६५ द्वितीयदशमभावैः यात्रां विचारयेत् । रिष्फतः = द्वादशभावतः, दूराटनं = विदेशभ्रमणं सचि- न्तयेत् । लग्नाद् बन्धुदिनेशतश्च = लग्नाच्चतुर्थभावतः, सूर्याच्च पितृसुखं विचारयेत् । जीवात्मजस्थानतः = गुरोः, पञ्चमभावतश्च, पुत्रप्राप्तिः विचारणीयां । अनङ्गवित्तपसितैः = सप्तमभाव-द्वितीयेश-शुकैः, स्त्रीसम्पदः चिन्तयेत् । तत्तद्भावकारके भावे च सल्लक्षणल- क्षिते सति सत्फलमन्यथाऽन्यथात्वं वाच्यमिति ॥ १ ॥ पंचम भावसे देवता, राजा, पुत्र, पिता, बुद्धि और पुण्यका विचार करे। सप्तमभाव, पुत्रभाव, धनभाव और कर्म भावसे यात्राको विचारे । द्वादशसे दूरयात्राको विचारे । लग्न से, चतुर्थसे और सूर्यसे पिताको विचारे । बृहस्पतिसे और पंचमसे पुत्र प्राप्तिको विचारे । सप्तमेश द्वितीयेश, और शुक्रसे स्त्रीसंपत्तिको विचारे ॥ १ ॥ अथ देवताविचारः । लग्नादात्मनि पुंग्रहेक्षितयुते पुंदेवताराधनं युग्मे शुक्रनिशाकरेक्षितयुते स्त्रीदेवतामिच्छति । भानौ भास्करमुख्यमिन्दुसितयोर्गौरीं कुमारं कुजे विष्णुं चन्द्रसुते गुरौ शशिधरं शन्यादियोगे परान् ॥ २ ॥ इदानीं जातस्याराध्यदेवतामाह—लग्नादिति । लग्नादात्मनि = पञ्चमे भावे, पुंग्रहेक्षि- तयुते = पुरुष-(रविभौमजीवान्यतम) ग्रहेण दृष्टे युते वा जातस्य पुंदेवताराधनं ब्रूयात् । अस्मिन्योगे जातो नरः पुरुषदेवोपासको भवति । तस्मिन् पञ्चमे भावे, युग्मे = समराशौ सति, तत्र शुक्रेण चन्द्रेण वा दृष्टे वा युते जातः स्त्रीदेवतामिच्छति । समराशीनां शुक्रश- शिनोश्च स्त्रीप्रकृतित्वात् । तत्र पञ्चमे भावे सूर्येण युक्ते दृष्टे वा भास्करमुख्यं = सूर्यप्रभृति- पुरुषदेवता वाच्या । इन्दुसितयोः = चन्द्रशुकयोः गौरीं देवतां ब्रूयात् । कुजे कुमारं = कार्तिकेयं, चन्द्रसुते = बुधे विष्णुं, गुरौ शशिधरं = शिवं, शन्यादियोगे परानितरान् क्षुद्र- देवान् ब्रूयादिति ॥ २ ॥ लग्नसे पांचवें भावको पुरुष संज्ञक ग्रह देखता हो वा उसमें स्थित हो तो जातक पुरुष देवताकी पूजा करे । समराशि पंचममें हो और पंचममें शुक्र या चन्द्रमा हो वा उस स्थान को देखता हो तो स्त्री देवताका आराधन आचार्यों ने कहा है । पञ्चम भावमें सूर्य हो तो सूर्य का, चन्द्रमा शुक्र हो तो गौरी का, मंगल हो तो कार्तिकका, बुध हो तो विष्णुका, बृहस्पति हो तो शंकरका, शनि, राहु या केतुका पञ्चममें योग हो तो अपर (क्षुद्र) देवका पूजन करे ॥ २ ॥ लग्नाधिपस्यात्मपतौ सपत्ने तद्देवभक्तिः सुतनाशहेतुः । समानता साम्यतरे सुहृत्त्वे तद्देवताऽपारकृपामुपैति ॥ ३ ॥ इदानीं स्थितिपरत्वेन देवाराधनपरिणाममाह—लग्नाधिपस्येति । लग्नेशस्य, आत्मा धिपतौ (पञ्चमेशे) सपत्ने = शत्रुग्रहे सति तद्देवभक्तिः जातस्य सुतनाशहेतुर्भवति । सा- म्यतरे = लग्नाधिपस्यात्मपतौ समत्वग्रहे (उदासीने) सति तद्देवभक्तिः समानता=न शुभा नाशुभा चेति । सुहृत्त्वे=लग्नाधिपस्यात्मपतौ मित्रग्रहे सति जातस्तद्देवताया अपा- रकृपां = परममनुग्रहमूपैति, तदानीं तद्देवताराधनं परमक्षेमकरं भवतीत्यर्थः ॥ ३ ॥ पंचमेश लग्नेशका शत्रु हो तो उस देव भक्तिसे पुत्रनाश हो । सम हो तो समानता रहे । पञ्चमेश लग्नेशका मित्र हो तो उस देवताके आराधनसे कार्य परिपूर्ण हो ॥ ३ ॥ अथ राज्यविचारः । राजस्थाने गुरुबुधसितैरीक्षिते संयुते वा तद्राशीशे बलवति नृपप्रीतिसम्पत्तिमेति ।