जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 423, कुल 588 में से
संदर्भ में पढ़ेंपञ्चमसप्तमभावफलोध्यायः ॥ १३ ॥ ३६७ न्दुपुत्राभ्यामीक्षिताश्च भवेयुस्तदा शूद्रोऽपि जातो द्विजतौल्यमेति = विप्रसमतां प्राप्नोति । अस्मिन्कोगे शूद्रजन्माऽपि ब्राह्मणवदाचरति । उच्चकर्मा भवतीति भावः । अत्र योगे जातो यदि द्विजः = ब्राह्मणवंशजः स्यात्तदा निखिलां विद्याम् उपैति, सकलविद्याविद् भवतीत्यर्थः ॥ शनि और बुध पूर्वोक्त पञ्चमेश चतुर्थेशको देखते हों तो पिंडके समान जन्म हो । यदि बृहस्पति राहुके साथ वलरहिल अहले दृष्ट हो तो विप्र भी नीच कर्म करनेवाला उत्पन्न हो । एक स्थानमें बृहस्पति राहु और शनिको शुक्र और बुध देखें तो शूद्र भी हो तो ब्राह्म- णकी समानताको प्राप्त होता है, और ब्राह्मण समस्त विद्याको प्राप्त करता है ॥ ७ ॥ अथ पुत्रविचारः । लग्नात्पुत्रकलत्रभे शुभपतिप्राप्तेऽथवाऽऽलोकिते चन्द्राद्वा यदि सम्पदस्ति हि तयोर्ज्ञेयोऽन्यथाऽसम्भवः । पाथोनोदयगे रवौ रविसुते मीनस्थिते दारहा पुत्रस्थानगतश्च पुत्रमरणं पुत्रोऽवनेर्यच्छति ॥ ८ ॥ इदानीं स्त्रीपुत्रयोर्भावाभावज्ञानमाह-लग्नादिति । जन्मलग्नात्पुत्रे = पञ्चमभावे, कलत्रे = सप्तमभावे च शुभग्रहेण पतिना च युक्ते, अथवाऽऽलोकिते, चन्द्राद्वा = जन्मका- लिकचन्द्रतो वा पुत्रकलत्रभे = पञ्चमे सप्तमे च भावे शुभग्रहेण स्वस्वस्वामिना च युतेऽ- थवा दृष्टे सति तयोः = पुत्रस्त्रियोः सम्पत् अस्ति हि = निश्चयेनेति । लग्नाच्चन्द्राद्वा पञ्चमे भावे शुभग्रहेण पञ्चमेशेन च युते वा दृष्टे पुत्रस्य प्राप्तिर्भवति । एवं लग्नाच्चन्द्राद्वा सप्तमे भावे शुभग्रहेण सप्तमेशेन च युते वा दृष्टे स्त्रीसम्पदस्तीति वाच्यम् । अन्यथाऽसम्भवः । यस्य जन्मलग्नाच्चन्द्राद्वा पञ्चमो भावः शुभेन स्वामिना च दृष्टो युतो वा न भवति तस्य पुत्रोत्पत्तिर्न भवति । असौ पुत्रहीनः स्यादिति । एवं लग्नाच्चन्द्राद्वा सप्तमः शुभपतिभ्यां युतो वा दृष्टो न स्यात्तदा तस्य स्त्री न भवति । अत्र 'पुत्रकलत्रभे' इत्युपलक्षणमेव किन्तु सर्वेषामेव भावानामीदृग्विचारेण भवितव्यम् । "यो यो भावः स्वामिदृष्टो युतो वा सौम्यैर्वा स्यात्तस्य तस्याभिवृद्धिः" । इति विशेषवचनदर्शनात् । पाथोनोदयग इति । रवौ = सूर्ये, पाथोनोदयगे = कन्या- राशिलग्ने गते, रविसुते = शनैश्चरे, मीनस्थिते सति जातो दारहा = स्त्रीनाशको मृतभार्यो इति यावद्भवति । अत्रैव ( पाथोनोदयगे रवौ ) योगे अवनेः पुत्रः = मङ्गलो यदि पुत्रस्था- नगतः = पञ्चमभाव-(मकर) गतः स्यात् तदा पुत्रमरणं यच्छति । अत्र योगे जातस्य पुत्रो म्रियत इत्यर्थः ॥ ८ ॥ लग्नसे वा चन्द्रमा से पंचम और सप्तम भावमें शुभग्रह या उनके पतिका योग अथवा दृष्टि हो तो क्रमसे पुत्र और स्त्रीका सुख अच्छा होवे । अन्यथा इन दोनोंकी प्राप्तिमें असम्भव है । कन्या लग्नमें सूर्य हो, शनि मीनमें हो तो स्त्रीकी हानि हो । पुत्र स्थानमें मङ्गल हो तो पुत्रकी मृत्यु हो ॥ ८ ॥
कुण्डली चक्र
+-----------------------------------+-----------------------------------+
| \ ६ सू. / \ / \ ६ सू. / | \ ६ सू. / \ / \ ६ सू. / |
| \ / \ / \ / | \ / \ / \ / |
| \ / X \ / | \ / X \ / |
| | / \ | | | / \ | |
| | / \ | | | / \ | |
| | / दारहा \ | | | / पुत्र- \ | |
| | / \ | | | / मरणम् \ | |
| | / \ | | | १० मं. \ | |
| / \ / \ / \ | / \ / \ / \ |
| / X X \ | / X X \ |
| / १२ श. \ / १२ श. \ | / \ / \ |
+-----------------------------------+-----------------------------------+
(बाएँ चक्र में: लग्न (१) = ६ सू., सप्तम (७) = १२ श., फल = "दारहा") (दाएँ चक्र में: लग्न (१) = ६ सू., पञ्चम (५) = १० मं., फल = "पुत्रमरणम्")