जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 424, कुल 588 में से
संदर्भ में पढ़ें३६८ सटीकजातकापारिजाते- पुत्रस्थानपतौ तु वा नवमपे लग्नात्कलत्रेऽथवा युग्मर्क्षे शशिशुक्रवीक्षितयुते पुत्रीजनो जायते । पुंवर्गे पुरुषग्रहेक्षितयुते जातस्तु पुत्राधिको जीवात्पञ्चमराशितश्च तनयप्राप्तिं वदेद् दैशिकः ॥ ६ ॥ इदानीं पुत्रपुत्रीयोगावाह-पुत्रस्थानपताविति । पञ्चमेशे, अथवा नवमभावेशे लग्नात् कलत्रे = सप्तमे भावे, अथवा युग्मर्क्षे = समराशौ व्यवस्थिते तत्र शशिना शुक्रेण वा दृष्टे वा युते पुत्रीजनो जायते । अस्मिन्योगे कन्या सन्ततिर्भवति । अथ तत्र ( पुत्रस्थानपतौ तु वा नवमपे ) पुंवर्गे = पुरुषग्रहवर्गे पुरुषग्रहेण दृष्टे वा युते जातस्तु पुत्राधिको भवति । अस्मिन्योगे जातो नरो बहुपुत्रान्वितो भवति । एवमाह मन्त्रेश्वरः- 'पुंराश्यंशे धीश्वरे पुंग्रहेन्द्रैर्युक्ते दृष्टे पुंग्रहे पुंप्रसूतिः । स्त्रीराश्यंशे स्त्रीग्रहैर्युक्तदृष्टे स्त्रीणां जन्म स्यात्सुतर्क्षे सुतेशे' इति ॥ जीवात् = गुरोः, पञ्चमराशितः = पुत्रभावाच्च दैशिकः = फलादेशकत्र्ता तनयप्राप्तिं वदे- दित्युक्तमपि पुनरुक्तवदुक्तमिति ॥ ९ ॥ पुत्र स्थानका स्वामी वा नवमेश लग्नसे सप्तम हो या सम राशिमें हो चन्द्रमा तथा शुक्रसे दृष्ट या युत हो तो कन्या उत्पन्न होवे । विषम राशिमें हो पुरुष ग्रह ( सू०मं०वृ० ) से दृष्ट या युत हो तो जातक अधिक पुत्रोंसे युक्त हो । गुरुसे तथा पञ्चम भावसे पुत्र प्राप्ति का विचार करे ॥ ९ ॥ शुक्रेन्दुवर्गे सुतभे विलग्नाच्छुक्रेण चन्द्रेण युतेऽथ दृष्टे । पापैर्युक्ते बहुपुत्रशाली शन्यारदृष्टे सति पुत्रहीनः ॥ १० ॥ इदानीं पुत्रभावाभावावाह—शुक्रेन्दुवर्ग इति । विलग्नात्सुतभे = पञ्चमे भावे, शुक्रेन्दु- वर्गे = शुक्रचन्द्रमसो रन्यतरस्य राश्यादौ वर्त्तमाने, तस्मिन् शुक्रेणाथवा चन्द्रेण युते दृष्टे वा, तथा पापग्रहेरयुक्ते सति जातो बहुपुत्रशाली भवति । तत्र पूर्वलक्षणे शन्यारदृष्टे = शनिभौ- माभ्यां निरीक्षिते सति जातो नरः पुत्रहीनः = अपुत्रो भवतीति ॥ १० ॥ लग्नसे पञ्चम भवन शुक्र या चन्द्रमाके वर्गमें हो शुक्र या चन्द्रमासे युक्त या दृष्ट हो पापग्रहसे युक्त न हो तो बहुत पुत्रवाला हो । शनि और मङ्गल देखते हों तो पुत्रसे रहित हो ॥ १० ॥ पौत्रप्राप्तिरनङ्गभे सुतगृहात्सौम्यस्य राश्यंशके तन्नाथे शुभखेटवीक्षितयुते केन्द्रत्रिकोणोऽथवा । स्वक्षेत्रोपगते तु पुत्रगृहपे' जातोऽल्पपुत्रो भवेत् पुत्रेशांशपतिः स्वभांशकगतो यद्येकपुत्रं वदेत् ॥ ११ ॥ इदानीं पौत्रप्राप्तियोगम् , अल्पपुत्रयोगमेकपुत्रयोगञ्चाह-पौत्रप्राप्तिरिति । सुतगृहात् = पञ्चमभावतः, अनङ्गभे = सप्तमे भावे ( लग्नादेकादशे भाव इति दिक् ) सौम्यस्य राश्यंश- के = शुभग्रहस्य राशिनवांशके विद्यमाने, तन्नाथे = तत्पतौ ( लाभेशे ) शुभखेटेन वीक्षिते वा युते, अथवा लग्नात् केन्द्रत्रिकोणौ ( १।४।७।१०।५।९ ) व्यवस्थिते सति जातस्य पौत्र- प्राप्तिः ( पुत्रस्यापत्यं पुमान् पौत्रस्तस्य लाभः ) भवति । स्वक्षेत्रोपगत इति । पुत्रगृहपे = पञ्चमभावेशे, स्वक्षेत्रोपगते = स्वराशौ व्यवस्थिते सति जातः अल्पपुत्रः भवति । पुत्रेशां- शपतिरिति । पुत्रेशः = पञ्चमभावपतिः यन्नवांशे भवेत्तन्नवांशपतिर्ग्रहो यदि स्वभांशकगतः स्यात् तदा जातस्यैकं पुत्रं वदेत् ॥ ११ ॥ पञ्चम गृहसे सप्तममें ( लग्नसे ११ वें ) सौम्यग्रहकी राशि तथा नवांश हो, उसका स्वामी शुभग्रहसे दृष्ट-युत हो, वा केन्द्रत्रिकोणमें हो तो पौत्रकी प्राप्ति हो । पञ्चमेश अपनी