जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 435, कुल 588 में से
संदर्भ में पढ़ेंपञ्चमसप्तमभावफलाध्यायः ॥ १३ ॥ ४०६ भावे पितृविचारः क्रियते । परञ्चास्मिन् ग्रन्थे 'पुत्राद्देवमहीपपुत्रपितृधीपुण्यानि सञ्चिन्तये- दिति' प्रतिज्ञादर्शनात्, नवमे-'भाग्यप्रभावगुरुधर्मतपःशुभानि' इत्यत्र पितुरदर्शनाच्च प्रकृतश्लोके 'पितृस्थानेश्वरे भावे' इत्यादौ पञ्चमभाव एव मया व्याख्यात इति ॥ ५२ ॥ पितृस्थानेश (पञ्चमेश) शुभग्रह हो, पितृकारक ग्रह शुभग्रहसे युक्त हो, या पञ्चमभाव शुभयुक्त हो तो जातकको पिताका सुख कहना चाहिये ॥ ५२ ॥ पारावतादौ तन्नाथे कारके च तथा स्थिते । स्वोच्चमित्रांशके वाऽपि पितृदीर्घायुरादिशेत् ॥ ५३ ॥ क्रूरनीचांशकस्थे वा भावनाथे च कारके । मन्दमान्द्यगुसंयुक्ते पितृदुःखं विनिर्दिशेत् ॥ ५४ ॥ सौम्ये तदीश्वरे वाऽपि नीचमूढारिराशिगे । क्रूरषष्ट्यंशके वाऽपि पितृदुःखं विनिर्दिशेत् ॥ ५५ ॥ सरलार्थाश्चैते त्रयः श्लोका इति न व्याख्याताः ॥ ५३-५५ ॥ पञ्चमेश अथवा पितृकारक ग्रह पारावत आदि वैशेषिकांशमें हो, या अपने उच्चमें मित्रके नवांशमें हो तो पिता दीर्घायु होता है । पञ्चमेश तथा पितृकारक ग्रह पापग्रहके नवांशमें या नीच में हों या शनि, गुलिक, राहु इनमें किसी एकसे अथवा एकाधिकसे युत हों तो पितृदुःख कहना चाहिये । शुभग्रह और पञ्चमेश यदि नीच, अस्तङ्गत, या शत्रुगृह में हो अथवा क्रूर-षष्ट्यंशमें हो तो पितृदुःख कहना चाहिये ॥ ५३-५५ ॥ पितृकर्मगृहे जातः पितृतुल्यगुणान्वितः । पितृजन्मतृतीयेर्क्षे जातः पितृवशानुगः ॥ ५६ ॥ पितृषष्ठाष्टमे जातः पितृशत्रुर्भवष्यिति । तद्भावपे विलग्नस्थे पितुश्श्रेष्ठो भवेत्सुतः ॥ ५७ ॥ इदानीं पितुर्जन्मलग्नवशात्पुत्रजन्मलग्ने फलमाह—पितृकर्मगृहे जात इति द्वाभ्याम् । पितृकर्मगृहे = यस्मिँल्लग्ने पितुर्जन्म भवेत्तस्माद्दशमे राशौ, जातः = समुत्पन्नो बालकः, पितृतुल्यगुणान्वितः = पितृसदृशगुणादिसंयुतो भवति । तत्र यदि पिता पण्डितस्तदा पुत्रोऽपि पण्डितः । पिता मूर्खश्चेत्तदा पुत्रोऽपि मूर्ख एवं सर्वे गुणदोषास्तत्तुल्या एव । पितृजन्म- तृतीयर्क्षे = पितुर्जन्मलग्नात्तृतीये लग्ने, जातो बालः, पितृवशानुगः=पितुरादेशकरो भवेत् । परञ्च न केवलमेतावत्तैव तत्फलं वाच्यमपि च जातकस्य स्वीयजन्मकालीनतत्तद्भावब- लाबलमपि सञ्चिन्त्यमिति । पितृषष्ठाष्टमे = पितुर्जन्मलग्नात्षष्ठेऽष्टमे वा लग्ने जातो बालः पितृशत्रुर्भवष्यिति = अस्मिन्पक्षे जातः पित्रा सह द्वेषकरो भविष्यति । तद्भावपे = जातकस्य जन्मलग्नात्पञ्च- मभावेशे, विलग्नस्थे = जातस्य जन्मलग्नमुपगते सति सुतः, पितुश्श्रेष्ठो भवेत् । अस्मिन्प- क्षे जातो बालः गुणादिभिः पितुः सकाशात्, श्रेष्ठः = प्रतिष्ठितो भवेदिति ॥ ५६-५७ ॥ पिताके जन्मलग्नसे १० वें लग्नमें जन्म होनेसे वह जातक पिताके समान गुणवाला होता है । पिताके पण्डित होनेसे पण्डित और पिता मूर्ख हो तो मूर्ख । इसी तरह पिताके समान गुण दोषसे युत हो । पिताके जन्मर्क्षसे ३ रे राशिमें जायमान बालक पिताका आज्ञाकारी होता है । पिताके जन्मलग्नसे ६।८ वें लग्नमें जन्म लेनेवाला बालक पिताका शत्रु (दुश्मन) होता है । जातकके जन्मलग्नसे पञ्चम भावेश यदि जातकके लग्नमें हो तो वह बालक गुणोंमें श्रेष्ठ और पिताके अपेक्षा आदरणीय होता है ॥ ५६-५७ ॥ ३५ जा०