जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 436, कुल 588 में से
संदर्भ में पढ़ें४१० सटीकजातकापारिजाते- लग्नादायतपःस्थिताः शनिमहीपुत्रागवो मृत्युदा- स्तातस्यार्कजभूसुतौ निधनदौ बालस्य रन्ध्रास्तगौ ॥ माने वा यदि पञ्चमे कुजरविच्छायाकुमारेन्दवः सद्यो मातुलतातबालजननीनाशं प्रकुर्वन्ति ते ॥ ५८ ॥ लग्नादिति । शनिमहीपुत्रागवः = शनि-कुज-राहवः, यदि लग्नादायतपःस्थिताः = जन्मलग्नादेकादश-नवमभावगताः भवेयुस्तदा, तातस्य=पितुः मृत्युदा भवन्ति । अस्मिन- न्योगे जातस्य पिता म्रियते इत्यर्थः । अर्कजभूसुतौ = शनिभौमौ, रन्ध्रास्तगौ = लग्ना- दष्टम-सप्तमगतौ, बालस्य = आत्मजस्य निधनदौ = मृत्युकरौ भवतः । अथ कुजरविच्छा- याकुमारेन्दवः = मङ्गल-सूर्य-शनि-चन्द्रमसः, माने=लग्नाद्दशमे यदि वा पञ्चमे व्यवस्थिताः स्युस्तदा ते सद्य एव क्रमेण मातुलतातबालजननीनाशं प्रकुर्वन्ति । तत्र दशमे पञ्चमे वा स्थितः कुजो मातुलनाशकरः, सूर्यः तातनाशकः, शनिर्बालकनाशकः, चन्द्रमा जननी- नाशको भवतीति । अयमेवार्थ उक्तः सर्वार्थचिन्तामणौ- 'लाभे शुभे वा यदि मन्दभौमौ फणीन्द्रयुक्तौ पितुरस्त्यपायः । लग्नाच्छुभे १० कर्मणि भूमिपुत्रे पापेक्षिते मातुलमृत्युमाहुः । मन्देन युक्ते यदि पुत्रमृत्युं चन्द्रे हि तन्मातृमृतिं सपापे । पितुर्मृतिं वासरनायकेऽत्र न संशयः पापद्दशा समेते' इति ॥ ५८ ॥ शनि, मङ्गल और राहु जन्मलग्नसे ११।९ स्थानमें हों तो पिताकी मृत्यु करते हैं। शनि और मङ्गल ८।७ में हों तो जातकके पुत्रकी मृत्यु करते हैं। यदि मङ्गल १० वें या ५ वें में हो तो शीघ्रही मामाकी मृत्यु, सूर्य १०।५ में हो तो पिताकी मृत्यु, शनि हो तो पुत्रकी मृत्यु और चन्द्रमा हो तो माताकी मृत्यु करता है ॥ ५८ ॥ सबले पितृभावेशे लग्नेशोन्दुचतुर्थपाः । दुर्बला यदि तन्मातुर्गर्भतो मरणं विदुः ॥ ५९ ॥ सबल इति । पितृभावेशे = पञ्चमेशे, सबले = बलयुक्ते सति, तथा लग्नेशोन्दुचतुर्थपाः = जन्मलग्नेश-चन्द्र-चतुर्थेशाः यदि दुर्बलाः भवेयुस्तदा, तन्मातुः = जातकस्य मातुः, गर्भतः मरणं विदुः । अस्मिन् योगे जातस्य माता गर्भयात नया म्रियते इति भावः ॥ ५९ ॥ यदि पञ्चम भावेश बली हो लग्नेश, चन्द्रमा और सुखेश दुर्बल हों तो उसकी माताका गर्भसे मरण होवे ॥ ५९ ॥ नवमादष्टमाधीशो नवमात्खरपोऽथवा ॥ शनिर्वेधेषु यः क्रूरः संभवेत् पितृमृत्युदः ॥ ६० ॥ नवमादिति । जातस्य नवमभावादष्टमाधीशः = जन्मलग्नाच्चतुर्थावेश इति, अथवा नवमात्खरपः = नवमाद्विंशतिद्रेष्काणेशः, नवमे यो द्रेष्काणः स एव तस्मादष्टमे ( लग्ना- चतुर्थे ) भावे खर-संज्ञकस्तदीशः यदि शनिः स्यात् तथा तत्र यः क्रूरः वेधेषु = तात्कालिक- ग्रहवेधेषु शनिना विद्धो भवेत् स पितृमृत्युदः सम्भवेत् । अत्र वेधो जन्मराशेः ( जन्मकाले चन्द्राधिष्ठितराशेः ) विचार्यः । तत्र तावद् वेधज्ञा- नाय कालप्रकाशिकोक्ताः श्लोका उद्ध्रियन्ते- रविः पु-रो-धा-गी-ता-ह्य-स-दा-न-व-श-युग्-गतैः ।$^{१\quad २\quad २\quad ३\quad ६\quad १२\quad ७\quad ८\quad १०\quad ४\quad ५\quad ११}$ शशी मा-या-न्ध-गो-च-र्या-र-स-ना-भु-ज-युग्-गतैः ॥$^{१\quad १\quad ९\quad ३\quad ६\quad १२\quad २\quad ७\quad १०\quad ४\quad ८\quad ११}$ कुजः पु-रा-ह्य-गो-वै-ध-ती-र्थ-दा-ने-श-युग्-गतैः ॥$^{१\quad २\quad १२\quad ४\quad १\quad ९\quad ६\quad ७\quad १०\quad ५\quad ११}$