जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 438, कुल 588 में से
संदर्भ में पढ़ें४१२ सटीकजातकपारिजाते- भानुस्थितेति । भानुः = सूर्यः जन्मकाले यस्मिन्नवांशे तिष्ठति तन्नवांशपतिर्ग्रहो यद्रा- शिसम्बन्धिनवांशे द्वादशांशे च व्यवस्थितः स्यात्तं भं = राशिं गते चन्द्रे मातापित्रोः यथाक्रमे मृत्युर्भवेत् । अर्थात् सूर्याधिष्ठितनवांशपतिर्ग्रहो यन्नवांशे भवति तद्राशिगते चन्द्रे मातृ- मरणं तथा तद्द्वादशांशराशिगते चन्द्रे पितुर्मरणं वाच्यमित्यर्थः ॥ Notes—पित्रोर्मरणवर्षमासज्ञानानन्तरमनेन श्लोकेन तिथिज्ञानं सम्भवेदिति ॥६२॥ सूर्य जिस नवांशमें हो उसका पति जिस राशिके नवांशमें हो उस राशिमें चन्द्रमाके जाने पर माताकी मृत्यु, एवं सूर्याधिष्ठित नवांशपति जिस राशिके द्वादशांशमें हो उस राशिमें जब चन्द्रमा जावे तब पिताकी मृत्यु हो । पहले माता और पिताकी मृत्युके वर्ष, मास जान कर इस श्लोकसे तिथि जान सकते हैं ॥ ६२ ॥ दुष्टस्थानगते भानौ सिंहान्त्यद्वादशांशके । जातश्चेज्जननात्पूर्वं पितृमृत्युं प्रयच्छति ॥ ६३ ॥ इदानीं जातस्य जननात्पूर्व पितृमरणमाह-दुष्टेति । भानौ सूर्ये, दुष्टस्थानगते = षडष्ट- व्ययगते तत्र सिंहान्त्ययोः = सिंहमीनराश्योः, द्वादशांशके च व्यवस्थिते सति जातश्चेत् = यदि जन्म स्यात् तदा जननात्पूर्वं = गर्भस्थ एव जातके तस्य पितृमृत्युं प्रयच्छति । अस्मि- न्योगे जातस्य गर्भस्थस्यैव पिता म्रियत इति भावः ॥ ६३ ॥ सूर्य दुष्टस्थान (६।८।१२) में होते हुये यदि सिंह या मीनके द्वादशांशमें हो तो जातक के जन्मसे पहले ही पिताकी मृत्यु हो ॥ ६३ ॥ मार्त्तण्डे गुलिकस्फुटादपहृते राशित्रिकोणे शनौ रोगं तज्जनकस्य देवसचिवे मृत्युत्तदंशोपगे । आदित्ये यमकण्टकस्फुटयुते तद्राशिकोणे गुरौ रोगं तद्भवनवांशकेऽमरगुरौ तातस्य नाशं वदेत् ॥ ६४ ॥ इदानीं गुरुवशात् पितृमरणमाह-मार्त्तण्ड इति । मार्त्तण्डे = सूर्ये, गुलिकस्फुटात् = गुलिकस्पष्टराश्यादितः अपहृते = विशोधिते सति यदवशिष्टं स्यात्तद्राशित्रिकोणे (५।९) सञ्चारात् सञ्जाते शनौ तज्जनकस्य रोगं वदेत् । तथा देवसचिवे = गुरौ सञ्चारात् तदंशो- पगे = तदवशिष्टराश्यंशोपगते सति तज्जनकस्य = तस्य जातस्य पितुर्मृत्युर्भवेत् । प्रका- रान्तरमाह-आदित्य इति । सूर्ये स्पष्ट-यमकण्टकस्य राश्यादिना युक्ते सति यौ राशि- स्तद्राशिकोणे सञ्चारात्समागते गुरौ तातस्य रोगं ब्रूयात्तथा तद्भवनवांशके = तल्लब्धराशि- नवांशे सञ्जातेऽमरगुरौ = बृहस्पतौ सति तातस्य, नाशं = मरणं वदेदिति । अनेन विधिना पितुर्मरणवर्षज्ञानं सम्भवेद् गुरोरेकैकराशिभ्रमणस्य वर्षमिति परिभाषात्वात् ॥ ६४ ॥ स्पष्ट गुलिकमें स्पष्टसूर्यके घटानेसे जो शेष हो उस राशिमें या उससे त्रिकोणमें गोच- रीय शनिके जाने पर जातकके पिताको रोग होता है और शेष राशिके नवांशमें बृहस्पतिके जानेपर उसके पिताकी मृत्यु होती है। सूर्यमें स्पष्ट यमकण्टकके जोड़नेसे प्राप्त राशि त्रिकोण में गुरुके जाने पर पिताको रोग और उसके नवांशमें जानेपर पिताकी मृत्यु कहनी चाहिये ॥ ६४ ॥ केन्द्रे चरेऽर्के चन्द्रे वा पितरौ न दहेत्सुतः ॥ केन्द्रे द्विदेहगौ तौ चेन्मृत्युदाहौ द्विकालगौ ॥ ६५ ॥ इदानीं पुत्रहस्तात् पित्रोः शवदाहाभावयोगमाह = केन्द्रे इति । अर्के = सूर्ये, वा चन्द्रे, चरे = मेष-कर्क-तुला-मकरान्यतमे विद्यमाने सति, केन्द्रे = जन्मलग्नात् १।४।७।१० तदन्यतमे व्यवस्थिते सुतः पितरौ = पितरं मातरं च मरणानन्तरं न दहेत् अस्मिन् योगे जातस्य पितरौ पुत्रहस्तेन न दह्येते, तत्र पुत्रस्य परोक्षत्वादशक्यत्वाद्वेति । अथ तौ =