भारतकोश
संग्रह पर लौटें

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

४१२ सटीकजातकपारिजाते- भानुस्थितेति । भानुः = सूर्यः जन्मकाले यस्मिन्नवांशे तिष्ठति तन्नवांशपतिर्ग्रहो यद्रा- शिसम्बन्धिनवांशे द्वादशांशे च व्यवस्थितः स्यात्तं भं = राशिं गते चन्द्रे मातापित्रोः यथाक्रमे मृत्युर्भवेत् । अर्थात् सूर्याधिष्ठितनवांशपतिर्ग्रहो यन्नवांशे भवति तद्राशिगते चन्द्रे मातृ- मरणं तथा तद्द्वादशांशराशिगते चन्द्रे पितुर्मरणं वाच्यमित्यर्थः ॥ Notes—पित्रोर्मरणवर्षमासज्ञानानन्तरमनेन श्लोकेन तिथिज्ञानं सम्भवेदिति ॥६२॥ सूर्य जिस नवांशमें हो उसका पति जिस राशिके नवांशमें हो उस राशिमें चन्द्रमाके जाने पर माताकी मृत्यु, एवं सूर्याधिष्ठित नवांशपति जिस राशिके द्वादशांशमें हो उस राशिमें जब चन्द्रमा जावे तब पिताकी मृत्यु हो । पहले माता और पिताकी मृत्युके वर्ष, मास जान कर इस श्लोकसे तिथि जान सकते हैं ॥ ६२ ॥ दुष्टस्थानगते भानौ सिंहान्त्यद्वादशांशके । जातश्चेज्जननात्पूर्वं पितृमृत्युं प्रयच्छति ॥ ६३ ॥ इदानीं जातस्य जननात्पूर्व पितृमरणमाह-दुष्टेति । भानौ सूर्ये, दुष्टस्थानगते = षडष्ट- व्ययगते तत्र सिंहान्त्ययोः = सिंहमीनराश्योः, द्वादशांशके च व्यवस्थिते सति जातश्चेत् = यदि जन्म स्यात् तदा जननात्पूर्वं = गर्भस्थ एव जातके तस्य पितृमृत्युं प्रयच्छति । अस्मि- न्योगे जातस्य गर्भस्थस्यैव पिता म्रियत इति भावः ॥ ६३ ॥ सूर्य दुष्टस्थान (६।८।१२) में होते हुये यदि सिंह या मीनके द्वादशांशमें हो तो जातक के जन्मसे पहले ही पिताकी मृत्यु हो ॥ ६३ ॥ मार्त्तण्डे गुलिकस्फुटादपहृते राशित्रिकोणे शनौ रोगं तज्जनकस्य देवसचिवे मृत्युत्तदंशोपगे । आदित्ये यमकण्टकस्फुटयुते तद्राशिकोणे गुरौ रोगं तद्भवनवांशकेऽमरगुरौ तातस्य नाशं वदेत् ॥ ६४ ॥ इदानीं गुरुवशात् पितृमरणमाह-मार्त्तण्ड इति । मार्त्तण्डे = सूर्ये, गुलिकस्फुटात् = गुलिकस्पष्टराश्यादितः अपहृते = विशोधिते सति यदवशिष्टं स्यात्तद्राशित्रिकोणे (५।९) सञ्चारात् सञ्जाते शनौ तज्जनकस्य रोगं वदेत् । तथा देवसचिवे = गुरौ सञ्चारात् तदंशो- पगे = तदवशिष्टराश्यंशोपगते सति तज्जनकस्य = तस्य जातस्य पितुर्मृत्युर्भवेत् । प्रका- रान्तरमाह-आदित्य इति । सूर्ये स्पष्ट-यमकण्टकस्य राश्यादिना युक्ते सति यौ राशि- स्तद्राशिकोणे सञ्चारात्समागते गुरौ तातस्य रोगं ब्रूयात्तथा तद्भवनवांशके = तल्लब्धराशि- नवांशे सञ्जातेऽमरगुरौ = बृहस्पतौ सति तातस्य, नाशं = मरणं वदेदिति । अनेन विधिना पितुर्मरणवर्षज्ञानं सम्भवेद् गुरोरेकैकराशिभ्रमणस्य वर्षमिति परिभाषात्वात् ॥ ६४ ॥ स्पष्ट गुलिकमें स्पष्टसूर्यके घटानेसे जो शेष हो उस राशिमें या उससे त्रिकोणमें गोच- रीय शनिके जाने पर जातकके पिताको रोग होता है और शेष राशिके नवांशमें बृहस्पतिके जानेपर उसके पिताकी मृत्यु होती है। सूर्यमें स्पष्ट यमकण्टकके जोड़नेसे प्राप्त राशि त्रिकोण में गुरुके जाने पर पिताको रोग और उसके नवांशमें जानेपर पिताकी मृत्यु कहनी चाहिये ॥ ६४ ॥ केन्द्रे चरेऽर्के चन्द्रे वा पितरौ न दहेत्सुतः ॥ केन्द्रे द्विदेहगौ तौ चेन्मृत्युदाहौ द्विकालगौ ॥ ६५ ॥ इदानीं पुत्रहस्तात् पित्रोः शवदाहाभावयोगमाह = केन्द्रे इति । अर्के = सूर्ये, वा चन्द्रे, चरे = मेष-कर्क-तुला-मकरान्यतमे विद्यमाने सति, केन्द्रे = जन्मलग्नात् १।४।७।१० तदन्यतमे व्यवस्थिते सुतः पितरौ = पितरं मातरं च मरणानन्तरं न दहेत् अस्मिन् योगे जातस्य पितरौ पुत्रहस्तेन न दह्येते, तत्र पुत्रस्य परोक्षत्वादशक्यत्वाद्वेति । अथ तौ =

पञ्चमषष्ठभावफलाध्यायः ॥ १३ ॥ ४१३ चन्द्रसूर्यौ चेद्यदि द्विदेहगौ = द्विस्वभावराशिगतौ भूत्वा केन्द्रे भवेतां तदा पित्रोः, मृत्यु- दाहौ = मरणं शवदहनञ्च, द्विकालगौ भवेताम् । न खलु मरणावसर एव शवदाहो भवेत् । अर्थान्मरणानन्तरं कालान्तरे तच्छवदाहो भवेदिति । अत्रेदं वक्तुं युज्यते-यस्य नरस्य जन्मकाले सूर्याचन्द्रमसौ केन्द्रे द्विदेहगौ भवतस्तस्य पितरौ स्वजनपरोक्षे ( विदेशादौ ) म्रियेते अतस्तयोः मृत्युदाहौ नैककालौ भवत इति । अर्थादेव जन्मकाले चन्द्रसूर्यौ स्थिरर्क्षे केन्द्रे भवेतां तदा पितरौ मरणकाल एव पुत्रहस्तेन दह्येते इति ॥ ६५ ॥ सूर्य या चन्द्रमा चर ( मे. क. तु. म. ) राशिका होकर यदि केन्द्र ( १।४।७।१० भाव ) में हो तो पुत्र माता-पिताका दाह ( मरणानन्तर शवदाह ) नहीं करता । यदि सूर्य और चन्द्रमा द्विस्वभाव ( मि. कं. ध मी ) राशिमें होकर केन्द्रमें हों तो माता-पिताकी मृत्यु और दाह एक समय नहीं होते, बल्कि मरणके कुछ काल ( दिन ) के बाद दाह होता है । अर्थतः सिद्ध हुआ कि स्थिरराशिके चन्द्र और सूर्य यदि केन्द्रमें हों तो पुत्र अपने माता- पिताका दाह मरण कालही में करता है । सु. शा. कारः ॥ ६५ ॥ अदृश्ययातौ पितृमातृनाथौ पित्रोर्मुखादर्शनदौ भवेताम् । पुत्राधिपोऽदृश्यगृहोपगश्चेत्पुत्राननादर्शनदोऽन्त्यकाले ॥ ६६ ॥ इदानीमन्तकाले पित्रोः पुत्रस्य च मुखादर्शनयोगावाह-अदृश्ययाताविति । जातस्य जन्मकाले पितृमातृनाथौ-पितृमातृभावेशौ ( ५।४ भावपती) यदि अदृश्ययातौ = लग्नभो- ग्य-सप्तमभुक्तार्न्तगतौ ( अदृश्यचक्रार्धगतौ ) भवतस्तदा जातस्य पित्रोर्मुखादर्शनदौ भवेतामर्थादस्मिन्योगे जातो नरः पित्रोर्मुखं न पश्येदिति । अथ पुत्राधिपः = जातकस्य पुत्र-(५) भावेशः चेद्यदि, अदृश्यगृहोपगः = अदृश्यचक्रार्द्धगतः स्यात्तदाऽन्त्यकाले = मर- णावसरे पुत्राननादर्शनदः स्यात् । अस्मिन्योगे जातो नरो मरणकाले पुत्रमुखं न पश्यती- त्यर्थः । उभयत्रापि परोक्षस्थितिकारणादिति वक्तव्यम् ॥ ६६ ॥ नवमेश और चतुर्थेश यदि अदृश्य चक्रार्द्ध ( लग्नके भोग्यांश और सप्तमके भुक्तांश इन दोनोंके मध्य ) में हों तो पुत्र अपने माता और पिताका मुख ( मरनेके समय ) नहीं देखता । यदि पञ्चमेश अदृश्य राशिमें हो तो मरनेके समय पिता माता अपने पुत्रका मुख नहीं देख पाते । तात्पर्य यह है कि दोनों योगमें पुत्रके परोक्षमें माता-पिताकी मृत्यु हो ॥ अथ बुद्धिविचारः । दुःस्थे बुद्धिस्थानपेऽदृश्यगे वा जातो मन्दप्रायबुद्धि समेति ॥ केन्द्रे कोणे सौम्यवागीशयुक्ते वीर्योपेते बुद्धिमानिङ्गितज्ञः ॥ ६७ ॥ त्रिकालज्ञो भवेज्जीवे स्वांशे मृद्वंशसंयुते गोपुराद्यंशके वाऽपि शुभांशे शुभवीक्षिते ॥ ६८ ॥ अधुना जातस्य बुद्धिविचारः क्रियते-दुःस्थ इत्यादिद्वाभ्याम् । बुद्धिस्थानपे = पञ्चम- भावेशे, दुःस्थे = षडष्टव्यय-( ६।८।१२ ) गते, वा अदृश्यगे = अदृश्यचक्रदलंगते सति जातो नरः मन्दप्रायबुद्धिं = स्थूलबुद्धि, समेति = प्राप्नोति । अत्र योगे जातः मलिनप्रज्ञो भवतीति । अथ बुद्धिस्थानपे केन्द्रे ( १।४।७।१० ) कोणे ( ५।६ ) गते, तस्मिन् सौम्य- वागीशयुक्ते = बुधगुर्वोरन्यतरेण द्वाभ्यां वा युक्ते, ( अथवा केवलं बुध-गुरू केन्द्रे कोणे वा भवेतामित्यपि वक्तुं युज्यते ) वीर्योपेते = बलयुक्ते च सति जातो बुद्धिमान्, इङ्गितज्ञः = सङ्केतेनैव मनोगतविषयज्ञो भवति । जीवे = बृहस्पतौ, स्वांशे = स्वराशेः (९।१२) नवांशे, मृद्वंशेन = शुभषष्ठ्यंशेन संयुते, अपि वा गोपुराद्यंशके ( १ अ० ४५-५६ श्लो. द्र. ) शुभांशे वा विलसति, शुभग्रहेण

(बुध-शुक्र-शुक्लचन्द्रान्यतमेन) वीक्षिते = अवलोकिते च सति जातो नरः, त्रिकालज्ञः = भूत-वर्त्तमान-भविष्यविद् भवेत् ॥ ६७-६८ ॥ पञ्चमेश-दुःस्थान (६।८।१२) में हो या अदृश्य राशिमें हो तो जातक विशेषकर मन्द- बुद्धि होता है । यदि पञ्चमेश बुध और गुरुसे युक्त होकर केन्द्र या कोणमें हो तथा बलवान् हो तो जातक बुद्धिमान् और इशारेसे अभिप्रायको जाननेवाला होता है ॥ ६७ ॥ वृहस्पति अपने नवांशमें, या शुभषड्वर्गमें या गोपुरादि वैशेषिकांशमें, या शुभग्रहके नवांशमें होकर शुभदृष्ट हो तो जातक त्रिकालज्ञ (भूत-वर्त्तमान-भविष्य जाननेवाला) होता है ॥ ६८ ॥ हृद्रोगी पञ्चमे पापे सपापे च रसातले । क्रूरषष्ट्यंशसंयुक्ते शुभदृग्योगवर्जिते ॥ ६६ ॥ इदानीं जातस्य हृद्रोगयोगमाह—हृद्रोगीति । जातकस्य पञ्चमे भावे पापे = सूर्य- भौम-शनि-क्षीणचन्द्रान्यतमे तिष्ठति, रसातले = लग्नाच्चतुर्थभावे च सपापे = पापग्रहेण सहिते सति तथा तत्र क्रूरषष्ट्यंशसंयुक्ते शुभग्रहाणां दृष्ट्या योगेन च वर्जिते सति जातो नरः हृद्रोगी = हृद्रोगयुक्तो भवति ॥ ६९ ॥ चतुर्थ और पञ्चम भावमें पापग्रह हो, पापषष्ट्यंशसे युक्त हो और शुभग्रहके योग तथा दृष्टिसे रहित हो तो जातकको हृदय रोग होता है ॥ ६९ ॥ अथ पुण्यविचारः । अन्नदानपरो नित्यं पञ्चमेशे शुभांशके । शुभखेचरसंयुक्ते भूमिजे केन्द्रमाश्रिते ॥ ७० ॥ इदानीं यस्मिन्योगे जातोऽन्नदानपरो भवति तमाह—अन्नदानपर इति । पञ्चमेशे शुभांशके विलसति, भूमिजे = मङ्गले शुभखेचरेण संयुक्ते केन्द्रमाश्रिते च सति जातो नरः नित्यं = सततम्, अन्नदानपरः = अन्नदानैकशीलः भवति ॥ ७० ॥ इति पञ्चमभावफलानि । पञ्चमेश शुभग्रहके नवांशमें होकर शुभग्रहसे युक्त हो और मङ्गल केन्द्रमें हो तो जातक अन्नदान करनेमें तत्पर रहता है ॥ ७० ॥ अथ षष्ठभावफलम् । तत्रादौ रोगविचारः । रोगारिव्यसनक्षतानि वसुधापुत्रारितश्चिन्तये- दुक्तं रोगकरं तदेव रिपुगे जीवे जितारिर्भवेत् । षष्ठोऽरीशबुधौ विधुन्तुदयुतौ लग्नेशसम्बन्धिनौ लिङ्गस्यामयकृद् व्रणेन रुधिरः षष्ठे सलग्नाधिपः ॥ ७१ ॥ अथाधुना षष्ठभावफलानि विवक्षुरादौ षष्ठभावे विचारणीयविषयान् ततो रोगयोगं चाह—रोगत्यादिना । रोगः = आमयः, अरिः = शत्रुः, व्यसनं = दुराचरणम्, क्षतं = व्रणा- बाघातश्चैतानि वसुधापुत्रारितः = मङ्गलतः षष्ठभावतश्च सञ्चिन्तयेत् = विचारयेत् । तदेव = षष्ठस्थानं ( भौमान्वितम् ) रोगकरमुक्तम् । जीवे = गुरौ, रिपुगे = षष्ठभावगते सति जातः, जितारिः = शत्रुनाशको भवेत् । अरीशबुधौ = षष्ठेशो बुधश्च, विधुन्तुदेन = राहुणा युतौ, लग्नेशस्य सम्बन्धिनौ (स्थान-दृष्टि-मित्र-सहचरान्यतमसम्बन्धयुक्तौ ) भवेतां तदा

पञ्चमषष्ठभावफलाध्यायः ॥ १३ ॥ ४१५ जातः षण्ढो (नपुंसकः) भवति। सलग्नाधिपः = लग्नेशेन सहितः, रुधिरः = मङ्गलः, षष्ठे भावे भवेत् तदा व्रणेन लिङ्गस्यामयकृद् = शिश्नरोगकरो भवति ॥ ७१ ॥ मंगल और शत्रुभावसे-रोग, शत्रु, व्यसन और चोट घाव वगैरहका विचार करे। मंगल युक्त छठा भाव रोग करने वाला कहा गया है। बृहस्पति षष्ठभावमें हो तो जातक शत्रु जीतनेवाला हो। षष्ठेश और बुध राहुके साथ लग्नेशके लग्नस्थी हों तो जातक नपुंसक हो। मङ्गल लग्नेशके साथ छठे भावमें हो तो घावसे लिङ्गमें रोग हो ॥ ७१ ॥ पत्नी षण्ढत्वमेति क्षतभवनगते कामपे सासुरेज्ये भौमे मन्देन दृष्टे रिपुभवनगते शत्रुभार्यामुपैति । सौम्यैर्दृष्टे युते वा न भयमरिजनाच्छत्रुभे जन्मलग्नात् पापैः शत्रुक्षतादिव्रणभयविपुलं जायते लाञ्छनं वा ॥ ७२ ॥ पत्नीति । सासुरेज्ये=असुरेज्येन (शुक्रेण) सहिते, कामपे=सप्तमेशे, क्षतभवनगते= षष्ठभावमुपगते जातस्य पत्नी = स्त्री, षण्ढत्वं = क्लीवत्वम्, एति=प्राप्नोति। विगतयोषिद्धर्मा भवतीत्यर्थः। भौमे=मङ्गले, रिपुभवनगते=षष्ठभावमुपगते तस्मिन्मन्देन=शनिना दृष्टे च सति जातः शत्रुभार्या=द्विषत्स्त्रियम्, उपैति=प्राप्नोति। अस्मिन्योगे जातस्य भार्या शत्रुर्भवतीति । अथ जन्मलग्नात् शत्रुभे = षष्ठभावे, सौम्यैः शुभग्रहैः दृष्टे वा युते सति जातस्य, अरिजनात् = शत्रोः सकाशात्, भयं न भवेत् । तस्मिन् षष्ठभावे पापैः दृष्टे वा युते (सौम्यदृष्टियोगरहिते न) सति, शत्रोः = वैरिजनात्, क्षतादेः = आघातादितः, व्रणभय- विपुलं = व्रणादितो भयाधिक्यं जायते वा लाञ्छनं=मिथ्यापवादः सञ्जायते ॥ ७२ ॥ शुक्रके सहित सप्तमेश शत्रुस्थानमें हो तो स्त्री नपुंसकी हो । मंगल शत्रुभवनमें हो शनि उसे देखता हो तो शत्रु स्त्री मिले। जन्मलग्नसे षष्ठस्थानमें शुभग्रह हों या देखते हों तो शत्रुसे भय न हो। पाप ग्रह हो तो शत्रुसे क्षतादि व्रण बहुत हो और लांछन हो ॥ ७२ ॥ षष्ठे भास्वति लग्ननायकरिपौ नीचारिगे दुर्बले जातस्तत्पितृवर्गशत्रुसहितो लग्नेशमित्रग्रहे । इष्टस्थानगते निजोच्चसुहृदां वर्गोपयाते सति ज्ञातीनां बहुलं वदन्ति मुनयः शत्रुव्रणाभावभाक् ॥ ७३ ॥ षष्ठ इति । भास्वति = सूर्ये, षष्ठे भावे व्यवस्थिते, लग्ननायकरिपौ = लग्नेशस्य शत्रुग्रहे दुर्बले नीचारिगे च सति जातो नरः, तत्पितृवर्गशत्रुसहितः = स्वपित्रादीनां ये शत्रवस्तैः सहितः भवति । अथ तस्मिन् भास्वति षष्ठे व्यवस्थिते, लग्नेशमित्रग्रहे, इष्टस्थानगते शुभ- स्थाने-(केन्द्रकोणादिके) गते, तथा निजोच्चसुहृदां = स्वकीयोच्चराशेः मित्राणां वा वर्गे सम्प्राप्ते सति जातः ज्ञातीनां = स्ववंशजानां (दायादानां) बहुलं प्राप्नोति, शत्रुव्रणाभावभा- क् = रिपु-क्षतादिभिरहितश्च भवेदिति ॥ ७३ ॥ सूर्य षष्ठस्थानमें हो लग्नेशका शत्रुग्रह नीचराशिमें हो दुर्बल हो तो जातक पितृवर्ग शत्रुसे सहित हो। लग्नेशका मित्रग्रह इष्टस्थानमें प्राप्त हो अपने उच्च या मित्रके वर्गमें प्राप्त हो तो पुरुष अपने बहुत वंशजोंको प्राप्त करता है और उसे शत्रु तथा घाव वगैरह नहीं होते, ऐसा मुनियोंने कहा है ॥ ७३ ॥ शत्रुस्थानगतोऽरिनीचगृहगो वक्रं गतो वाऽस्तगो- ऽनेकारातिजनो बहुक्षततनुः षष्ठाधिपो वा तथा ॥ षष्ठस्थानगतेषु भास्करमुखव्योमाटनेषु क्रमात् तत्तत्कारकखेटवर्गरिपुणा सम्पीड़ितः सन्ततम् ॥ ४ ॥ 28 शत्रुस्थानगत इति । अरिनीचगृहगः = शत्रुगृहे नीचे वा गतः, वक्रं गतः, वा अस्तगः

कश्चिद् ग्रहो यदि शत्रुस्थानगतः = षष्ठभावगतः स्यात् तदा अनेकारातिजनः=बहुशत्रुजनै- र्युक्तः, बहुक्षततनुः = बहुव्रणादिपीडितगात्रश्च भवेत् । षष्ठाधिपः = षष्ठेशो वा तथा = अरि- नीचगृहगः, वक्रं गतोऽस्तगो वा भवेत्तदाऽपि तथा फलं भवेत् । भास्करमुखव्योमाट- नेषु = सूर्यादिग्रहेषु, षष्ठस्थानगतेषु = शत्रु-(६) भावगतेषु जातो नरः क्रमात् तत्तत्कारक- खेटवर्गरिपुणा = यो ग्रहः षष्ठगतो भवति तस्य यो वर्गः (वर्णः) तज्जातीयशत्रुणा सन्ततं = नित्यम् 'सततानरताश्रान्तसन्तताविरतानिशम् । नित्यानवरताजस्रम्' इत्यमरः, सम्पीड़ितो भवति । अत्रेदं विचिन्त्यम् । गुरु-शुकौ षष्ठस्थौ भवेतां तदा ब्राह्मणजातीयशत्रुणा सम्पी- डितो भवेत् । सूर्य-भौमौ षष्ठस्थौ तदा क्षत्रियेण रिपुणा, चन्द्रश्चेत्तदा वैश्येन, बुधश्चेत्तदा शूद्रेण, शनिश्चेत्तदा म्लेच्छेन सम्पीड़ितो भवेदिति ॥ ७४ ॥ कोई भी ग्रह अपने शत्रुगृहमें होकर, या नीचमें होकर, या वक्री होकर, या अस्त होकर यदि छठे भावमें हो तो जातक अनेक शत्रुओंसे युत हो तथा उसके शरीरमें बहुत घाव हों। इसी तरह षष्ठेशके होने पर भी फल होते हैं । सूर्य आदि ग्रहोंके छठे भावमें रहने पर क्रमसे उनके वर्गके शत्रुसे जातक पीड़ित होता है ॥ ७४ ॥ पापव्योमचराह्वयोऽरिपतितत्प्राप्तेक्षका दुर्बला- गोवित्तक्षयमामयं रिपुभयं कुर्वन्ति जन्मादितः । ते सर्वे बलशालिनो यदि शुभा गोवित्तमश्वादिकं राजान्नं सकलोपदंशसहितं रोगारिनाशं वदेत् ॥ ७५ ॥ पापेति । अरिपतितत्प्राप्तेक्षकाः = १. षष्ठभावेशः, २. षष्ठभावगतः, ३. षष्ठभावदर्शी चैते त्रयो ग्रहाः यदि पापव्योमचराः = पापग्रहाः, दुर्बलाः = बलरहिताश्च भवेयुः तदा गोवित्त- क्षयं=गवां धनानां च नाशम्, आमयं=रोगम्, रिपुभयं=शत्रुभीतिं च जन्मादित एव कुर्वन्ति । अथ ते सर्वे=षष्ठेश-षष्ठस्थ-षष्ठद्रष्टारो ग्रहा यदि शुभाः=शुभग्रहाः, बलशालिनः=बलवन्तश्च भवेयुस्तदा गोवित्तमश्वादिकं, विविधोपस्करयुक्तं राजान्नं, रोगारिनाशं च वदेत् ॥ ७५ ॥ षष्ठेश, षष्ठभावस्थ और षष्ठभावद्रष्टा ये तीनों ग्रह यदि पापग्रह हों और दुर्बल हों तो जन्मसे ही गौ-धनका नाश, रोग और शत्रुसे भय होता है । यदि वे तीनों ग्रह बली और शुभग्रह हों तो गौ, धन, घोड़ा आदि सवारी, अनेक सामग्रियोंके सहित, सुन्दर-अन्नकी प्राप्ति और रोग तथा शत्रु का नाश होता है ॥ ७५ ॥ तेषामम्बरचारिणामतिशुभौ केन्द्रत्रिकोणायगौ द्वावेतौ बलशालिनौ यदि लघुव्याध्यादिनाशं नृणाम् । एकोऽपि प्रबलो यदि व्रणरिपुक्लेशादि किञ्चित् फलं यत्तत्कारकवर्गमूलमखिलं मोदं प्रमादं तु वा ॥ ७६ ॥ तेषामिति । तेषां = त्रयाणाम्, अम्बरचारिणां = ग्रहाणाम्=अरिपतितत्प्राप्तेक्षकाणाम्, अतिशुभौ = त्रयाणां मध्येऽतीव शुभग्रहौ द्वौ यदि केन्द्रत्रिकोणाय ( १।४।७।१०।५।६।११ ) गौ भवेताम्, तथा चैतौ द्वौ यदि बलशालिनावपि भवेतां तदा नृणाम् = जनिमताम्, लघुव्याध्यादिनाशं कुरुतः । अथ तेषां त्रयाणां मध्ये एकोऽपि प्रबलो ग्रहो यदि केन्द्रत्रि- कोणायगो भवेत् तदा किञ्चित् = ईषदैव व्रणरिपुक्लेशादि फलं कुरुते । अत्र मोदम्=अनुकूलं ( शुभम् ) वा प्रमादं=प्रतिकूलम् ( अशुभम् ) यत् फलमुक्तं तदखिलं तु=सर्वमपि कारक- वर्गमूलं=यो ग्रहस्तद्योगकरो भवति तन्मूलकं विजानीयात् ॥ ७६ ॥ उन तीनों ( षष्ठेश-षष्ठस्थ-षष्ठदर्शी ) में कोई दो ग्रह अत्यन्त शुभग्रह हों, १।४।७।१०। ५।९।११ इन भावोंमें किसीमें स्थित हों, बलयुक्त हों तो छोटे २ रोगोंका नाश करते

पञ्चमसप्तषष्ठभावफलाध्यायः ॥ १३॥ ४१७ यदि उन तीनोंमें एक ही ग्रह प्रबल हो तो थोड़े घाव, शत्रु, रोग वगैरह कहने चाहिये। यहां अच्छा या बुरा जो फल कहा गया है वह उस योगकारक ग्रहके सम्बन्धसे जानना चाहिये। अर्थात् जिस ग्रहका जो अच्छा या बुरा फल है वही जानना चाहिये ॥ ७६ ॥ पापे लग्नगते सपत्नपयुते देहव्रणं देहिनां पुत्रस्थे पितृपुत्रयोः सुखगते मातुः कलत्रे स्त्रियाः । धर्मस्थे सति मातुलस्य सहजे तस्यानुजस्य व्रणं लाभस्थे तु तदग्रजस्य निधने जातो गुदार्तो भवेत् ॥ ७७ ॥ पाप इति । सपत्नपेन = षष्ठेशेन युते पापे = पापग्रहे ( सूर्य = कुज-शनि-राहूणाम- न्यतमे ) लग्नगते सति देहिनां = जातानां, देहव्रणं = शरीरे व्रणं स्यात् । सपत्नपयुते पापे पुत्रस्थे = पञ्चमभावगते सति पितृपुत्रयोः = जातस्य पितुः पुत्रस्य च देहव्रणं स्यात् । सुखगते = चतुर्थभावगते सति मातुः = जातस्य जनन्याः देहव्रणं स्यात् । कलत्रे=सप्तमगते, स्त्रियाः देहव्रणं स्यात् । धर्मस्थे = नवमभावगते सति तन्मातुलस्य । सहजे = तृतीये सति तस्यानुजस्य = तस्य कनिष्ठभ्रातुः । लाभस्थे = एकादशस्थे सति तु तदग्रजस्य = तस्य ज्येष्ठभ्रातुः व्रणं जायते । अथ सपत्नपयुते पापग्रहे निधने = अष्टमभावगते सति जातः स्वयमेव गुदार्त्तः = अपानरोगेण ( भगन्दरादिना ) पीडितो भवेदिति ॥ ७७ ॥ षष्ठेशसे युक्त लग्नमें पापग्रह हो तो मनुष्यके देहमें व्रण हो । पञ्चममें हो तो पिता और पुत्रके देहमें। चौथेमें हो तो माताके देहमें । धर्ममें हो तो मामाके देहमें । तृतीयमें हो तो जातकके छोटे भाईके देहमें व्रण हो । लाभमें हो तो बड़े भाईके देहमें व्रण हो । अष्टममें हो तो जातक स्वयं गुदार्त्त ( बवासीर रोगी ) हो ॥ ७७ ॥ भानुर्मूर्ध्नि शशी मुखेऽवनिसुतः कण्ठे तु नाभेरधः चान्द्रिः सूरिरनामयं प्रकुरुते नेत्रामयं भार्गवः । मन्दो वातमहिश्च केतुरुदरव्याधिं बुधक्षेत्रगो लग्नेशः शशिजेन वीक्षितयुतो गुह्यव्रणं यच्छति ॥ ७८ ॥ भानुरिति । भानुः = सूर्यो यदि षष्ठेशयुतः षष्ठाष्टमगतश्च भवेत्तदा मूर्ध्नि = शिरोदेशे आमयं=रोगं=व्रणादिकं करोति । शशी=चन्द्रस्तथाभूतो मुखे, अवनिसुतः=मङ्गलस्तथाभूतः कण्ठे, चान्द्रिः=बुधस्तथाविधस्तु नाभेरधोदेशे रोगं करोति। सूरिः=बृहस्पतिः अनामयं=रोग- मुक्तिम् ( आरोग्यम् ) कुरुते । भार्गवः=शुक्रस्तथाविधश्चेत्तदा नेत्रामयं = नेत्ररोगं प्रकुरुते । मन्दः=शनिः, वातं=वातव्याधिम् , अहिः=राहुः, केतुश्च उदरव्याधिम्=उदररोगं प्रकुरुतः । अथ च लग्नेशः, बुधक्षेत्रगः = कन्यामिथुनान्यतरस्थः शशिजेन = बुधेन, वीक्षितयुतः = दृष्टो युक्तो वा षष्ठस्थश्च यदि भवेत् तदा गुह्यव्रणं=भगन्दरादिगुप्तरोगं यच्छति=करोतीति । Notes—अत्र बृहस्पतौ 'अनामयत्वम्' उक्तं परन्तु पराशरेण षष्ठेशयुते षष्ठाष्टमगते च गुरौ नासिकारोगोऽभिहितः । तथा च तद्वचनानि— षष्ठाधिपोऽपि पापश्चेद्देहे वाऽप्यष्टमे स्थितः । तदा व्रणं भवेद् देहे कर्मस्थानेऽप्ययं विधिः ॥ एवं पित्रादिभावेशास्तत्तत्कारकसंयुताः । व्रणाधिपयुताश्चापि षष्ठाष्टमयुता यदि ॥ तेषामपि व्रणं वाच्यमादित्येन शिरोव्रणम् । इन्दुना च मुखे, कण्ठे भौमेन, ज्ञेन, नाभिषु ॥ गुरुणा नासिकायां च भृगुणा नयने पदे । शनिना राहुणा कुक्षौ केतुना च तथा भवेत् । इति ॥ ७८ ॥ षष्ठेशसे युक्त ६।८ भावमें सूर्य हो तो शिरपर, चन्द्रमा हो तो मुखमें, मंगल हो तो कण्ठमें, बुध हो तो नाभिके नीचे रोग हो । गुरु हो तो रोगका नाश करते हैं । शुक्र हो तो

४१८ सटीकजातकपारिजाते- नेत्ररोग, शनि हो तो वातव्याधि, राहु-केतु हों तो पेट में रोग हो। लग्नेश बुधके गृह (३।६) में हो और बुधसे देखा जाता हो वा युक्त हो तो गुह्यस्थानमें व्रण करता है ॥७८॥ लग्नाद्यिद्राशिगते फणीशे शुक्रेक्षिते तत्तनुचिह्नमेति ॥ मन्दाहियुक्ते रिपुराशिनाथे तुरङ्गपश्वादिभयं वदन्ति ॥ ७९ ॥ लग्नादीति । फणीशः = राहुः लग्नादि-यद्राशिगतः = लग्नाद्यस्मिन् स्थाने स्थितः शुक्रेण दृष्टश्च भवेत् तत्स्थानं 'कादिविलग्नविभक्तभगात्रः' ( अ० ३, श्लो० ७६ द्र० ) इत्य- नेन यस्मिन्नङ्गे भवेत्तत्तन्नौ = तदङ्गे, चिह्नमेति = व्रणादिचिह्नं भवति । अथ रिपुराशिनाथे = षष्ठभावेशे मन्दाहियुक्ते=शनिराहुभ्यां सहिते सति जातस्य तुरङ्गपश्वादिभयं = घोटकादिच- तुष्पदेभ्यो भयं मनीषिणः वदन्ति ॥ ७९ ॥ लग्नादि जिस राशिमें राहु हो, शुक्र उसको देखता हो तो वह राशि शरीरमें जिस स्थानका हो उस जगह व्रण कहे। शत्रुस्थानका मालिक शनि-राहुसे युक्त हो तो घोड़ा आदि पशुओंसे भय होता है ॥ ७९ ॥ पापग्रहेण संदृष्टे बलहीनेऽरिनायके । पापान्तरगते वाऽपि शत्रुपीड़ा भविष्यति ॥ शत्रुस्थानाधिपे दुःस्थे नीचमूढारिराशिगे। लग्नेशे बलसंयुक्ते शत्रुनाशं वदेद्बुधः ॥ इदानीं शत्रोः पीडां शत्रुनाशञ्चाह-पापग्रहेणेतिद्वाभ्याम् । अरिनायके = षष्ठभावेशे, बलहीने, पापग्रहेण संदृष्टे च, अपि वा पापान्तरगते = पापद्वयमध्यगते सति जातस्य शत्रोः सकाशात् पीडा = दुःखं भविष्यति । अस्मिन्योगे जातस्य शत्रुद्वारेण दुःखं भवति । न कदाविच्छत्रुणा तज्जातस्य शुभं सम्भाव्यत इति भावः । शत्रुस्थानाधिपे = षष्ठभावेशे, दुःस्थे, नीचे, अस्तङ्गते, शत्रुगृहं गते वा तथा लग्नेशे= जन्मलग्नाधिपतौ बलसंयुक्ते सति बुधः शत्रुनाशं = जातस्य रिपोः मरणं वदेत् । अस्मिन् योगे जातस्य शत्रुर्म्रियते इति भावः ॥ ८०-८१ ॥ षष्ठ स्थानका मालिक बलहीन हो पापग्रहसे देखा जाता हो, वा पापग्रहोंके बीच हो तो शत्रुसे पीड़ा होती है ॥ ८० ॥ शत्रुभावेश दुष्ट स्थानमें हो नीच, अस्तङ्गत, शत्रु राशिमें हो लग्नेश बली हो तो शत्रु का नाश कहना चाहिये ॥ ८१ ॥ षष्ठेशे गोपुरांशादौ दिवाकरनिरीक्षिते । लग्नेशे बलसम्पूर्णे ज्ञातीनामुपकारकृत् ॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते त्रयोदशोऽध्यायः ॥१३॥ इदानीं ज्ञातीनामुपकारकृतं जातकमाह-षष्ठेश इति । षष्ठेशे = षष्ठभावपतौ, गोपुरां- शादौ = गोपुरादिवैशेषिकांशे ( १ अ० श्लो० ४५-४७ ) विद्यमाने, दिवाकरनिरीक्षिते = सूर्येणावलोकिते, लग्नेशे बलसम्पूर्णे = परिपूर्णबलान्विते च सति जातो नरो ज्ञातीनामुपका- रकृत् = स्ववंशजानामुपकृतिकरो भवतीति ॥ ८२ ॥ इति षष्ठभावफलानि । पारिजाते सुधा टीका कपिलेश्वररचिता । अध्याये विश्व (१३) सङ्ख्येऽस्मिन् पूर्ति भावफले गता ॥ १३ ॥ षष्ठेश गोपुरांशादिमें हो उसको सूर्य देखता हो लग्नेश परिपूर्णबली हो तो जातक जातिका उपकार करनेवाला होता है ॥ ८२ ॥ इति वैद्यनाथदैवज्ञविरचिते जातकपारिजाते त्रयोदशाध्याये पञ्चमषष्ठभावफले 'विमला' हिन्दी टीका समाप्ता ॥ १३ ॥ -०००००-

अथ सप्तमाष्टमनवमभावफलाध्यायः ॥ १४ ॥ तत्र सप्तमभावफलम् । यात्रापुत्रकलत्रसौख्यमखिलं सञ्चिन्तयेत्सप्तमा- दुक्तं पुत्रसुखासुखागमफलं सर्वं च यत्तद्वदेत् ॥ ३ ॥ यात्रेति । सप्तमात् = सप्तमभावात्, यात्रापुत्रकलत्रसौख्यमखिलं सञ्चिन्तयेत् = विचार- येत्; तथा इतः पूर्वं पुत्रसुखासुखागमफलं यदुक्तं तत्सर्वं च सप्तमादपि वदेत् । तथा हि जातकाभरणे— “रणाङ्गणं चापि वणिक्क्रियाश्च जायाविचारागमनप्रयाणम् । शास्त्रप्रवीणैर्हि विचारणीयं कलत्र(७)भावे किल सर्वमेतत्” इति ॥ एवं जातकरत्ने— “युवतिपदाद्युद्वाहं भार्या-पति-सूप-दधि-गुडक्षीरम् । आगमनं सरिदाप्तिं मूत्राशयं च नष्टधनम्” इति ॥ ३ ॥ सप्तम भावसे सम्पूर्ण यात्रा-पुत्र-स्त्री-सुखका विचार करे । जो कुछ पहले पुत्रादिके सुख-असुखके आगम फल कहे जा चुके हैं वे सब सप्तम भावसे भी कहे ॥ ३ ॥ जारः कामगते सिते मदनपे साहिध्वजे वा तथा . कामे जीवयुगीक्षिते शुभगृहे जातो न जारो भवेत् ॥ १ ॥ जार इति । सिते = शुक्रे, कामगते = सप्तमभावगते सति जातो नरः जारः = परस्त्रीगामी भवति । वा मदनपे = सप्तमभावेशे यत्र तत्र साहिध्वजे = राहुणा वा केतुना सहिते सति तथा = जारो भवति । अथ कामे = सप्तमे भावे शुभगृहे=शुभग्रहराशौ सति तस्मिन् जीवे- न=गुरुणा युक्ते वा ईक्षिते=दृष्टे सति जातो नरो जारो न भवेत्प्रत्युत सदाचारी भवेदिति ॥१॥ शुक्र सप्तममें हो तो जार (परस्त्रीलम्पट) हो, या सप्तमेश राहु या केतुसे युत हो तो भी जार हो । सप्तम शुभगृह हो उसमें गुरु हो वा उसे देखता हो तो जार नहीं होता है ॥ १ ॥ दुःस्थे कामपतौ तु पापगृहगे पापेक्षिते तद्युते तज्जायाभवनस्य मध्यमफलं सर्वं शुभं चान्यथा ॥ कामस्थानपतौ सितेन सहिते पापर्क्षगे कामधीः सौम्यर्क्षे शुभखेटवीक्षितयुते जातः सितच्छत्रवान् ॥ २ ॥ दुःस्थ इति । कामपतौ = सप्तमेशग्रहे तु, दुःस्थे = षडष्टव्ययान्यतमगते, पापग्रहगृहे, पापग्रहेणेक्षिते वा पापग्रहेण युक्ते तज्जायाभवनस्य = तस्य जातकस्य सप्तमभावस्य सर्वं मध्यमफलं भवति, अर्थाद्दीदृग्योगे जातस्य सप्तमभावे यत्किञ्चिद्विचार्य्यते तत्सर्वं मध्यमफलं भवति । अन्यथा चार्थात् सप्तमेशे शुभस्थानगते, शुभराशिगते, शुभेक्षिते वा शुभयुते सति तज्जायाभवनस्य सर्वं फलं शुभं स्यात् । कामस्थानपतौ = सप्तमभावेशे, सितेन = शुक्रेण सहिते, पापर्क्षगे = पापराशिगते च जातः कामधीः = कामुकः भवति । तस्मिन्नेव सप्तमेशे सौम्यर्क्षे = शुभराशिगते, शुभखेटेन वीक्षिते वा युते सति जातो नरः सितच्छत्रवान् = धव- लातपत्रयुतः ( राजेति यावत् ) भवेदिति ॥ २ ॥ सप्तमेश दुष्ट स्थानमें हो, पापगृहमें हो, उसे पापग्रह देखता हो, या पापसे युत हो तो उसके सप्तमगृहका मध्यम फल कहे । ऐसा न हो तो सब शुभ जाने । सप्तमेश शुक्रके साथ होकर पापराशिमें हो तो कामी हो । शुभराशि में हो, शुभग्रहसे युक्त हो, वा उसे शुभग्रह देखते हों तो वह जातक सितच्छत्रवाला ( राजा ) होवे ॥ २ ॥

४२० सटीकजातकपारिजाते- वित्तास्तारिपभार्गवास्तनुगताः पापान्विताः कामुकः पापव्योमचरान्वितौ तनुरिपुस्थानाधिपौ चेत्तथा । कामस्थे रिपुवित्तलग्नपयुते पापे परस्त्रीरतः पापारातिकलत्रपा नवमगाः कामातुरो जायते ॥ ३ ॥ वित्तेति । वित्तास्तारिपभार्गवाः = द्वितीयेश-सप्तमेश-षष्ठेश-शुक्राः, पापान्विताः = पापग्रहयुक्ताः सन्तो यदि तनुगताः = लग्ने विद्यमाना भवेयुस्तदा जातः कामुकः = अति- कामी भवेत् । चेद्यदि तनुरिपुस्थानाधिपौ= लग्नेश-षष्ठेशौ यत्र तत्र पापव्योमचरान्वितौ = पापग्रहयुक्तौ भवेतां तदा तथा = कामुकः = सदा स्त्रीरतो भवेत् । पापे = रविभौमशनीनाम- न्यतमे, कामस्थे = सप्तमभावगते, तस्मिन् रिपुवित्तलग्नपयुते = षष्ठेश-द्वितीयेश-लग्नेशैः सहिते च जातः परस्त्रीरतः = अन्यदारसक्तः स्यात् । अथ च पापारातिकलत्रपाः = पापग्रह-षष्ठेश-सप्तमेशाः यदि नवमगा भवेयुस्तदा जातः कामातुरः=कामपीडितः जायते= भवतीति । अत्रोक्तयोगेषु शुभग्रहाणां दृष्टियोगे न तथात्वमिति ज्ञेयम् । तथा च सर्वार्थचिन्तामणौ— लग्नस्थिता वित्तकलत्रशत्रुनाथाः सशुक्रा यदि पापयुक्ताः । जातः परस्त्रीषु रतः कुमार्गी शुभैक्षिताश्चेन्न तथा भवेच्च ॥ लग्नेारिपौ पापयुतौ यदि स्याज्जातः परस्त्रीषु रतः कुमार्गी । लग्नेश्वरे शत्रुकुटुम्बनाथे पापैर्युते वा यदि दारराशौ : जातः परस्त्रीषु रतः••••••••••••••••' इति ॥ ३ ॥ द्वितीयेश, सप्तमेश, षष्ठेश और शुक्र पापग्रहसे युक्त होकर लग्नमें हों तो जातक कामी हो लग्नेश और षष्ठेश पापग्रहसे युक्त हो तो भी कामी होता है। कोई पापग्रह षष्ठेश, धनेश और लग्नेशसे युक्त होकर सप्तम भावमें ही हो तो परस्त्रीगामी हो। पापग्रह, षष्ठेश और सप्तमेश नवम भावमें हों तो कामातुर होता है ॥ ३ ॥ जारः कर्मधनास्तपा दशमगाः पुत्रादिकारग्रहा- दुःस्था धीगुरुकामपाः सुतगृहे पापेक्षितेऽनात्मजः । जीवज्ञौ यदि वा निशाकरसितौ कामे बहुस्त्रीरतः शुक्रे मन्मथराशिगे बलवति स्त्रीणां बहूनां पतिः ॥ ४ ॥ जार इति । कर्मधनास्तपाः = दशमेश-द्वितीयेश-सप्तमेशाः यदि दशमभावगताः स्युस्तदा जातो जारः स्यात् । धीगुरुकामपाः=पञ्चमेश-नवमेश-सप्तमेशाः पुत्रादिकारग्रहाः सन्तो यदि दुःस्थाः=षडष्टव्ययगताः स्युः, तथा सुतगृहे = पञ्चमभावे पापेक्षिते सति जातो नरोऽनात्मजः = पुत्ररहितो भवेत् । तथाहि सर्वार्थचिन्तामणौ— 'कर्मेशवित्तेशकलत्रनाथा मानस्थिता जारमुदाहरन्ति । धीधर्मनाथौ सकलत्रनाथौ दुःस्थानगौ हीनबलौ शुभैर्न ॥ दृष्टे सुते दारबहुत्वयोगे त्वपुत्रयोगं मुनयो वदन्ति' इति ॥ जीवज्ञाविति । गुरुबुधौ, वा निशाकरसितौ = चन्द्रशुक्रौ, कामे = सप्तमभावे भवेतां तदा जातो बहुस्त्रीरतः = विविधस्त्रीसंसक्तो भवेत् । अथ च बलवति = पूर्णबलयुक्ते शुक्रे मन्मथराशिगे = सप्तमभावगते सति जातो बहूनां स्त्रीणां पतिः भवति । यस्य जन्मकाले बलीयान् शुक्रः सप्तमे भवति तस्य बह्वयः स्त्रियो भवन्तीति ॥ ४ ॥ दशमेश, द्वितीयेश और सप्तमेश दशवें हों तो जातक जार हो पञ्चमेश, नवमेश और सप्तमेश पुत्रादि कारक होकर दुष्ट स्थानमें हों, पांचवे भावको पापग्रह देखता हो तो जातक

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४२१ का सन्तान न हो। यदि गुरु, बुध, वा चन्द्र सप्तममें हों तो बहुत स्त्रियोंसे भोग करे। बलवान् शुक्र सप्तममें हो तो बहुत स्त्रियोंका पति हो ॥ ४ ॥ शुक्रारौ मदगौ कलत्ररहितो धर्मात्मजस्थौ तथा शत्रुस्थानगतौ निशाकरसितौ यद्येकपुत्रो भवेत् । लग्नास्तव्ययगेषु पापखचरेष्विन्दौ सुते दुर्बले बन्ध्यास्त्रीपतिरेव जातमनुजो जायाविहीनोऽथवा ॥ ५ ॥ शुक्राराविति । शुक्रारौ = शुक्रमङ्गलौ, मदगौ = सप्तमभावगतौ भवेतां तदा जातः कलत्ररहितः = स्त्रीविहीनः (मृतभार्य इति यावत्) भवति । तावेव शुक्रारौ धर्मात्मज- स्थौ = नवमपञ्चमगतौ भवेतां तदा तथा = कलत्ररहितः स्यात् । तथा च सारावल्याम्— यूने कुजभार्गवयोर्जातः पुरुषो भवेद्विकलदारः । धीधर्मस्थितयोर्वा परिकल्प्यं पण्डितैरेवम्” इति ॥ शत्रुस्थानगताविति । निशाकरसितौ = चन्द्रशुक्रौ यदि शत्रुस्थानगतौ = षष्ठभावगतौ भवेतां तदाजातस्यैकपुत्रः भवेत् । लग्नास्तेति । पापखचरेषु = पापग्रहेषु, लग्नास्तव्यय- गेषु = लग्नसप्तमद्वादशभावेषु व्ययस्थितेषु, दुर्बले = निर्बले (क्षीणे) इन्दौ = चन्द्रे, सुते= पञ्चमभावे च गतवति सति जातमनुजः = समुद्भूतो नरः, बन्ध्यास्त्रीपतिः = अप्रजायाः स्त्रिया भर्त्ता भवति, अथवा जायाविहीनः = स्त्रीविहीनो भवति । अस्मिन्योगे जातस्य स्त्री बन्ध्या (बाँझिन) भवति, वा असौ पुरुषः स्त्रीरहितः स्यादिति । तथा च सारावल्याम्— लग्नव्ययमदनस्थैः पापैः क्षीणे निशाकरे धीस्थे । स्त्रीहीनो भवति नरः पुत्रैश्च विवर्जितो नूनम्” इति ॥ ५ ॥ शुक्र और मङ्गल सप्तममें हों तो जातक स्त्रीसे रहित होवे । नवम और पञ्चममें हों तो भी यही फल जाने । यदि चन्द्रमा और शुक्र शत्रु स्थानमें हों तो जातकको एक पुत्र हो । लग्न, सप्तम और द्वादशमें पापग्रह हों निर्बल चन्द्रमा पञ्चम भावमें हो तो जातक बन्ध्या (बाँझिन) स्त्रीका पति होवे, वा स्त्रीसे रहित होवे ॥ ५ ॥ बन्ध्यापतिः सितरवी सदनोदयस्थौ चन्द्रोदये समगृहे ललनाकृतिः स्यात् ॥ पुंराशिगे पुरुषभावयुतं कलत्रं स्त्रीपुंग्रहेक्षितयुते सति मिश्ररूपम् ॥ ६ ॥ बन्ध्यापतिरिति । सितरवी = शुक्रसूर्यौ, मदनोदयस्थौ = सप्तमस्थौ लग्नस्थौ वा भवेतां तदा जातः बन्ध्यापतिः भवति । चन्द्रोदये = चन्द्राश्रिते लग्ने, समगृहे = २।४।६। ८।१०।१२ एतदन्यतमराशौ सति जातो नरः ललनाकृतिः = योषित्प्रकृतिः भवति । पुंरा- शिग इति । चन्द्रोदये पुरुष- ( १।३।५।७।९।११ एतदन्यतम-) राशिगते सति जातस्य कलत्रं = स्त्री, पुरुषभावयुतं = पुरुषाकृतिः भवति । तस्मिन्नेव लग्नाश्रितचन्द्रे यत्र तत्र स्त्रीपुंग्रहेक्षितयुते = स्त्रीग्रहेण पुरुषग्रहेण च दृष्टे वा संयुक्ते सति मिश्ररूपं = स्त्रीपुरुषसंयुक्ता- कृतिर्भवति । तत्र कथितलक्षणलक्षिते चन्द्रोदये समराशौ पुरुषस्य मिश्ररूपम्, विषमराशौ तत्स्त्रिया मिश्ररूपमिति वाच्यम् ॥ ६ ॥ शुक्र और सूर्य सप्तम या लग्नमें हों तो जातक बन्ध्यापति हो । चन्द्रमा उदय (लग्न) में समगृहमें हो तो जातक स्त्रीके आकृतिका हो । पुरुषराशि (विषमगृह) में हो तो स्त्री पुरुष आकृतिवाली हो । यदि मिश्र ग्रहसे दृष्टयुत हो तो मिश्रित-रूपा हो ॥ ६ ॥ भौमांशे वा भौमराशौ विलग्नात् कामस्थाने जन्मभे वा वधूनाम् । जाया दासी नीचमूढग्रहांशे दुष्टा वा स्याद्यौवने भर्तृहीना ॥ ७ ॥ भौमांश इति । विलग्नात्=पुरुषस्य जन्मलग्नात् कामस्थाने=सप्तमे भावे, वा वधूनाम् = स्त्रीणाम्, जन्मभे = जन्मलग्ने भौमांशे=मेषवृश्चिकान्यतरराशिनवांशे वा भौम- ३६ जा०

४२२ सटीकजातपारिजाते- राशौ = मेषवृश्चिकान्यतरराशौ सति जाया=स्त्री, दासी=भृत्या भवति । एतदुक्तं भवति । पुरुषस्य सप्तमे भावे भौमांशे वा भौमराशौ सति तस्य स्त्री दासी भवति । एवं स्त्रिया जन्मलग्ने भौमांशे वा भौमराशौ सति सा स्त्री दासी स्यादिति । तस्मिन्नेव भावे नीच- मूढग्रहांशे = नीचं गतस्यास्तं गतस्य वा ग्रहस्य नवांशे सति स्त्री दुष्टा = दुराचारिणी, अथवा यौवने = युवावस्थायां भर्तृहीना=मृतभर्त्तृका ( विधवा ) भवति ॥ ७ ॥ पुरुषके जन्मलग्नसे सप्तम भावमें तथा स्त्रियोंके जन्मलग्नमें मङ्गलका नवांश या राशि हो तो स्त्री दासी होवे । यदि उसमें नीचगत ग्रहका या अस्त ग्रहका नवांश हो तो स्त्री दुष्टा या युवा अवस्था में विधवा होवे ॥ ७ ॥ शुभांशराशौ यदि सद्गुणाढ्या शुभेक्षिते चारुतरं कलत्रम् । चन्द्रांशके दुर्बलचन्द्रराशौ जाता पतिघ्नी

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४२३ कामस्थ इति। तनुपे = लग्नेशे कामस्थे = सप्तमभावगते शुभराशौ, तस्मिन् शुभ- ग्रहेण युक्ते च जातो नरः सद्वंशजाम् = उत्तमकुलोत्पन्नां स्त्रियमिच्छति = अभिलषति (प्राप्नो- तीत्यर्थः)। क्रूरक्षं इति। विलग्नरमणे = लग्नेशे, मदगे = सप्तमे भावे, क्रूरर्क्षे = पापराशौ च गतवति दुर्वंशजाताङ्गनां = कुलहीनगृहोत्पन्नां स्त्रियं प्राप्नोतीति। स्त्रिया वर्णादिकमाह- वर्गमिति। सप्तमे भावे यो राशिस्तस्य यो वर्णः, यद्रूपं, ये च गुणाः, या चाकृतिः तत्सकलं तद्गृहेशं ( तत्सप्तमराशियुक्तम् ) स्त्रिया वदेत् । अथ स्त्रिया व्यभिचारयोगस्य सति सम्भवे कीदृक्पुरुषमुपयातीत्याह-दुर्व्यापारेति। सप्तमे भावे यो ग्रहो दुर्व्यापारकरः = व्यभिचारयोग- सूचको भवेत् तद्ग्रहाकृतियुक्तेन नरेण सह, अङ्गना = जातस्य स्त्री प्रीतिं = प्रमोदं प्रयाति ॥१०॥ लग्नेश सप्तम भावमें शुभग्रहसे युक्त हो तो अच्छे वंशकी उत्पन्न उसकी स्त्री हो। लग्ने- श सातवें भावमें पापराशिमें हो तो दुर्वंशमें जायमान उसकी अङ्गना (स्त्री) हो। स्त्रीका वर्ण, रङ्ग, गुण, स्वभाव सब सप्तम गृहके अनुकूल कहे। व्यभिचार योगमें जो ग्रह व्यभि- चार योग करता हो उसीके अनुकूल रूपवाले मनुष्यसे स्त्री प्रेम करती है ॥ १० ॥ पापाप्रकाशसंयुक्ते कलत्रे दुष्टचारिणी । रवौ वन्ध्या तु शीतांशौ क्षीणे तु व्यभिचारिणी ॥ ११ ॥ कुजे तु म्रियते मन्दे दुर्भगा राहुसंयुते । परदारोऽरतिः स्वीयां निषेकाभावकोऽसुतः ॥ १२ ॥ धूमे विवाहहीनः स्यान्म्रियते कार्मुके सति । परिवेषे तु दुःशीला केतौ बन्ध्या सती भवेत् ॥ १३ ॥ काले विदारः पापे तु गर्भस्रावेण संयुता । सुशीला स्त्री प्रसूता च पूर्णमाणे सुधाकरे ॥ १४ ॥ बुधे सुपुत्रा वागीशे गुणयुक्ता सुपुत्रिणी । शुक्रे सौभाग्यसंयुक्ता श्रीमती च बलान्विते ॥ १५ ॥ इदानीं सप्तमे भावे ग्रहाणामुपग्रहाणाञ्च स्थितिवशेन फलान्याह—पापेति श्लोकपञ्चकेन । कलत्रे = सप्तमे भावे पापाप्रकाशसंयुक्ते = पापग्रहेण अप्रकाशग्रहेण ( उपग्रहेण अ० २ श्लो० ६) वा सहिते जातस्य स्त्री दुष्टचारिणी = दुर्जनासक्ता (दुराचारवती) भवति । रवौ = सूर्ये कलत्रे सति स्त्री वन्ध्या भवति । क्षीणे शीतांशौ = चन्द्रे तु व्यभिचारिणी ( पुंश्चली ) भवति । अन्यत् सर्वं सुस्पष्टमेवेत्यलमतिविस्तरेण ॥ सप्तम भावमें पापग्रह या अप्रकाश (उपग्रह) ग्रह हों तो जातककी स्त्री दुष्टचारिणी ( व्यभिचारिणी ) हो । वहां सूर्य हो तो वन्ध्या हो । क्षीण चन्द्रमा हो तो व्यभिचारिणी हो। मंगल हो तो स्वयं मर जावे। शनि हो तो दुर्भगा स्त्री हो। राहु हो तो परस्त्रीमें रत हो, अपनी स्त्रीमें उदासीन, गर्भाधानका अभाव तथा पुत्रहीन हो । धूम हो तो विवाहसे रहित हो। धनुष हो तो स्वयं मर जावे। परिवेष हो तो दुःशीला हो। केतु हो तो बाँझ और पतिव्रता हो ॥ ११-१३ ॥ सप्तममें काल हो तो स्त्री-रहित हो । पापग्रह हो तो गर्भस्राव हो । पूर्ण चन्द्रमा हो तो सुशीला और कन्या उत्पन्न करनेवाली हो । बुध हो तो सुपुत्रा हो । गुरु हो तो गुणवती तथा पुत्रवती स्त्री हो। बली शुक्र हो तो सौभाग्यवती और श्रीमती हो ॥ १४-१५ ॥ स्त्रीपुत्रपे बलिनि शोभनखेटदृष्टे षष्ठाधिपेन सहिते सति वीक्षिते वा । जारेण पुत्रजनिलाभमुपैति जाया तस्या धवो बहुकलत्रयुतोऽप्यपुत्रः ॥ १६ ॥ स्त्रीपुत्रप इति । स्त्रीपुत्रपे = सप्तमेशे वा पञ्चमेशे, बलिनि = पूर्णबलयुते, शोभनखेट- दृष्टे = शुभग्रहेणावलोकिते, षष्ठाधिपेन = षष्ठेशेन सहिते वा वीक्षिते = दृष्टे च सति तस्य

४२४ सटीकजातकपारिजाते- जातस्य जाया = स्त्री, जारेण = अन्यपुरुषेण पुत्रजनिलाभं= सुतोत्पत्तिमुपैति । तस्याः स्त्रियाः, धवः = स्वामी ( यस्य जन्माङ्गचक्रमीदृग्लक्षणयुतं स्यात्सः ) बहुकलत्रयुतोऽपि = अनेकस्त्री- सहितोऽपि, अपुत्रः = पुत्ररहित एव भवेदिति । न खलु कस्यामपि स्त्रियां तस्यौरसः पुत्रो जायेतेति भावः । Notes—यदि स्त्रियाः कुण्डल्यामयं योगः स्यात्तदा सा स्त्री परपुरुषेण पुत्रोत्पत्तिमुपैति । न स्वपतिनेति । पुरुषस्य कुण्डल्यामयं योगः सर्वथा सन्तानबाधक एव भवतीति विज्ञेयम् ॥१६॥ सप्तमेश या बलवान् पञ्चमेश शुभग्रहसे दृष्ट और षष्ठेशके साथ हो वा षष्ठेश देखता हो तो स्त्री जारसे पुत्र उत्पन्न करे और उसके स्वामीके बहुत स्त्री हों तो भी पुत्रहीन हो ॥१६॥ नीचे गुरौ मदनगे सति नष्टदारो मीने कलत्रभवने रविजे तथैव । मन्दारराशिनवभागगते सुरेड्ये जारो भवेद्दिनसुतारसमन्विते वा ॥ १७ ॥ नीच इति । नीच-( मकरराशि-) वर्त्तिनि गुरौ मदनगे = सप्तमभावगते सति जातः नष्टदारः = मृतभार्यः भवेत् । कर्कराशिलग्नेऽस्य योगस्य सम्भवः । रविजे = शनैश्चरे मीने कलत्रभवने = सप्तमे भावे च गते तथैवार्थात्नष्टदारः भवेत् । कन्यालग्नेऽस्य सम्भव इति । सुरेड्ये = गुरौ मन्दारराशिनवभागगते=शनिकुजयोरन्यतरस्य राशौ नवांशे वा गते, अथवा इनसुतारसमन्विते=शनिभौमान्यतरेण सहिते सति जातो जारो भवेदिति । तथा च मन्त्रेश्वरः- शुक्रे वृश्चिकगे मदे मृतवधूः कान्ते वृषस्थे बुधे, स्त्रीनाशस्त्वथ नीचगे सुरगुरौ द्यूनाधिरूढे तथा । जामित्रे झषगे शनौ सति तथा धीमेऽथवा धीद्युति- श्चन्द्रक्षेत्रगयोर्मदेऽर्किकुजयोः पत्नी सती शोभना ॥ इति ॥ १७ ॥ सातवें भावमें नीच राशिका गुरु हो तो उसकी स्त्री मर जावे । सप्तम मीन राशि हो उसमें शनि हो तो भी पूर्वोक्त फल जाने । शनि या मंगलके नवांशमें गुरु हो, वा शनि मंगलके साथ हो तो वह जार ( व्यभिचारी ) हो ॥ १७ ॥ सप्तमे वाऽष्टमे पापे व्ययस्थे धरणीसुते । अदृश्ये यदि तन्नाथे कलत्रान्तरभाग्भवेत् ॥ सुवंशजातं प्रथमं कलत्रं लग्नेश्वरो दारपसंयुतश्चेत् । दिनेशकान्त्याभिहतस्तदानीं स्वरूपहीनां सुतरां वदन्ति ॥ १६ ॥ इदानीं कलत्रद्वययोगं तल्लक्षणञ्चाह- सप्तम इति, सुवंशजातमिति श्लोकद्वयेन । जन्म- लग्नात् सप्तमे, अथवा अष्टमे भावे कस्मिंश्चित् पापे सति तथा धरणीसुते = मङ्गले व्ययस्थे= द्वादशे गतवति, तन्नाथे = स्त्रीभावेशे यदि अदृश्ये = अदृश्यचक्रार्द्धगतेऽस्तङ्गते वा सति जातो नरः कलत्रान्तरभाक् = दारान्तरोपयुक्तो भवेत् । अस्मिन् योगे जातस्य कलत्रद्वयं स्यादिति भावः । तत्र कलत्रद्वये प्रथमं कलत्रं सुवंशजातं विजानीयात् । यदि पूर्वोक्तयोगे लग्नेश्वरः = जन्मलग्नस्वामी, दारपसंयुतः = सप्तमेशेन सहितः स्यात्तदेति । अथ केवलं लग्नेश्वरो यदि दिनेशकान्त्याभिहतः = सूर्येण सहास्तमितो भवेत्तदानीं प्रथमां स्त्रियं सुतराम् = अतिशयेन स्वरूपहीनां = सौन्दर्यरहितां = कुरुपां विज्ञा वदन्तीति ॥ १८-१९ ॥ सप्तम या अष्टममें पापग्रह हो बारहवें मंगल हो और यदि सप्तमेश अदृश्य हो तो उसे दूसरी भी स्त्री होवे ॥ १८ ॥ लग्नेश जायेशके साथ हो तो पहिली स्त्री सुवंशोत्पन्न हो । यदि सूर्यकी कांतिसे हत हो अर्थात् अस्त हो तो रूपसे रहित ( कुरूपा ) स्त्री जाने ॥ १९ ॥ वित्ते पापबहुत्वे च कलत्रेशे तथास्थिते । *शत्रुस्थानगते केतौ कलत्रत्रयभाग्भवेत् ॥ २० ॥

  • 'पापग्रहेण सन्दृष्टे' इत्यपि पाठान्तरम् ।

४. अध्याय १५-१८: विंशोत्तरी दशा, अष्टकवर्ग, गोचर फल एवं जातक पारिजात उपसंहार

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४२५ इदानीं कलत्रत्रययोगमाह - वित्त इति । वित्ते = लग्नाद् द्वितीयभावे पापबहुत्वे = अधिकपापग्रहे सति कलत्रेशे = सप्तमेशे च तथास्थिते = अदृश्येऽस्तङ्गते वा सति केतौ शत्रुभावगते च जातः कलत्रत्रयभाग् भवेत् । अस्मिन्योगे जातस्य स्त्रीत्रयं भवतीति । सर्वा- र्थचिन्तामणावपि कलत्रत्रययोगः- “वित्ते पापबहुत्वे तु कलत्रे वा तथाविधे । तदीशे पापसन्दृष्टे कलत्रत्रयभाग्भवेत्”॥ इति ॥ २० ॥ द्वितीय स्थानमें बहुत पापग्रह हों सप्तमेश भी पाप युक्त हो और शत्रुस्थान (छठे) में केतु हो तो जातककी तीन स्त्रियाँ होवें ॥ २० ॥ केन्द्रत्रिकोणे दारेशे स्वोच्चमित्रस्ववर्गगे । कर्माधिपेन वा दृष्टे बहुस्त्रीसहितो भवेत् ॥ २१ ॥ इदानीं बहुस्त्रीयोगमाह - केन्द्रेति । दारेशे = सप्तमेशे स्वोच्चमित्रस्ववर्गगे सति वा केन्द्रत्रिकोणे ( १।४।७।१०।५।५ ) गतवति वा कर्माधिपेन = कर्म-(दशम-) भावपतिना दृष्टे सति जातो नरः बहुस्त्रीसहितः = अत्यधिककलत्रवान् भवति ॥ २१ ॥ सप्तमेश अपनी उच्चराशि, मित्रगृह, स्ववर्गमें होकर केन्द्रत्रिकोणमें हो वा कर्मेश उसे देखता हो तो जातक बहुत स्त्रीसे युक्त हो ॥ २१ ॥ कलत्राधिपतौ केन्द्रे शुभग्रहानिरीक्षिते । शुभांशे शुभराशौ वा पत्नी व्रतपरायणा ॥ २२ ॥ इदानीं व्रतपरायणां स्त्रियमाह-कलत्रेति । कलत्राधिपतौ = सप्तमेशे केन्द्रे (१।४।७।१०) शुभांशे = शुभग्रहनवांशे, शुभराशौ वा व्यवस्थिते तस्मिन् शुभग्रहेण निरीक्षिते सति जातस्य पत्नी = स्त्री, व्रतपरायणा = पातिव्रत्यैकनियमा भवति ॥ २२ ॥ सप्तमेश केन्द्रमें हो शुभग्रह उसको देखता हो शुभांश वा शुभराशि में हो तो जातक की पत्नी व्रतमें तत्पर रहे (स्त्री पतिभक्त होवे) ॥ २२ ॥ दाराधिपे सोमसुते सपापे नीचारिवर्गे रिपुनाशभावे । पापान्तरे पापदृशा समेते जाया पतिघ्नी कुलनाशिनी स्यात् ॥ २३ ॥ इदानीं पतिघ्नीं स्त्रियमाह - दाराधिप इति । सोमसुते = बुधे दाराधिपे = सप्तमेशे सति सपापे = केनचित्पापग्रहेण सहिते नीचारिवर्गे, रिपुनाश-(६।८) भावे वा गतवति, वा पापान्तरे = पापद्वयमध्यगते (एकेन पापेन संयुक्तः, एकः पापो द्वयाद् द्वितीयोऽन्यो द्वादशे भवेदिति) तस्मिन् पापदृशा समेते वा जातस्य जाया पतिघ्नी = पतिनाशिनी, कुलनाशिनी = वंशोन्मूलिनी च भवेदिति ॥ २३ ॥ सप्तमेश बुध पापग्रहके साथ नीच या शत्रुवर्गका होकर शत्रुभाव या अष्टम भावमें हो, पापग्रहोंके बीचमें हो उसपर पापग्रहकी दृष्टि हो तो उसकी स्त्री पतिको मारनेवाली कुलनाशिनी होवे ॥ २३ ॥ शुभांशे शुभसंदृष्टे नाथे जाया सुवंशजा । पापारूढे पापवर्गे तस्य जाया कुवंशजा ॥ २४ ॥ स्पष्टार्थः ॥ २४ ॥ सप्तमेश शुभांशमें शुभदृष्ट हो तो स्त्री अच्छे वंशकी हो । यदि सप्तमेश पापयुत पापवर्ग में हो तो उसकी स्त्री कुवंशोत्पन्ना होवे ॥ २४ ॥ कामस्थाने सखेटे सितयुतखचरैर्दारसंख्यां वदन्ति स्वोच्चस्थव्योमवासो न भवति गणने शुक्रयुक्तग्रहैर्वा ॥

४२६ सटीकजातकपारिजाते- जायाधीशो सितर्क्षे सति धनभवने शुक्रसंयुक्तसंख्या शुक्रानङ्गेशयुक्तद्युचरनववधूवल्लभो जायते वा ॥ २५ ॥ इदानीं स्त्रीसङ्ख्यामाह—कामस्थान इति । कामस्थाने = सप्तमे भावे सखेटे = ग्रहयुक्ते सति सितयुतखचरैः = शुक्रसंयुक्तगगनेचरैः दारसङ्ख्यां = स्त्रीसङ्ख्यां वदन्ति । अत्रेदमूक्तं भवति । यदि सप्तमे भावे कश्चिद्ग्रहो भवेत्तदा शुक्रेण सहिता यावन्तो ग्रहा भवेयुस्तावत्यो दारास्तस्य भवन्तीति । अत्र शुक्रयुक्तग्रहैः स्वोच्चस्थव्योमवासः = स्वक्षेत्रस्थ उच्चस्थितो वा ग्रहो गणने = सङ्ख्याने ग्राह्यो न भवति । यदुक्तं 'सितयुतखचरैः दारसंख्यां वदन्ति' तत्र शुक्रेण युक्तः स्वक्षेत्रोच्चगतो ग्रहो न गणनीय इति भावः । अत्र 'वा' इति पदं मता- न्तरसूचकमिवाभातीति चिन्त्यम् । जायाधीश इति । जायाधीशे = सप्तमभावेरो, सितर्क्षे=शुक्रराशौ=वृषतुलयोरन्यतरे, धनभवने = द्वितीयभावे च सति शुक्रसंयुक्तसङ्ख्या = शुक्रेण संयुक्ता यावन्तो ग्रहास्तावती सङ्ख्या स्त्रियो वाच्या । अथवा शुक्रेण, अनङ्गशेन = सप्तमेशेन च युक्ता यावन्तो द्युचराः = ग्रहास्तावतीनां नववधूनां वल्लभः = भर्त्ता, जायते = भवति जातक इति ॥ २५ ॥ सातवां भाव ग्रह युक्त हो तो शुक्रके साथ जितने ग्रह हों उतनी स्त्रियोंकी संख्या पण्डित लोग कहते हैं । शुक्रयुक्त ग्रहोंमें उच्चगत ग्रहकी गणना नहीं होती है। सप्तमेश शुक्र के गृह (२।७) में धन आश्नमें हो (मेष लग्न हो, शुक्र वृष पर हो, या कन्या लग्न हो गुरु तुला पर हो तो यह योग मिलेगा) तो शुक्र संयुक्त संख्या जीकी जाने। वा शुक्र और सप्तमेशसे युक्त ग्रहकी संख्या तुल्य नवीन स्त्रियोंका स्वामी होवे ॥ २५ ॥ दारेशेन कुटुम्बपेन सहिता यावद्ग्रहा दुर्बला- स्तत्संख्याकलत्रनाशनकरा दुःस्थाननाथा यदि ॥ यावन्तो बलशालिनः शुभकरास्तत्तुल्यजायासुखं कुर्वन्त्येकवियच्चरो बलयुतो यद्येकदारो भवेत् ॥ २६ ॥ दारेशेनेति । दारेशन=सप्तमेशेन, वा कुटुम्बपेन—द्वितीयशेन सहिता, यावद्ग्रहा दुर्ब- लाः = बलरहिता यदि दुःस्थाननायाथ भवन्ति तदा तत्संख्याकलत्रनाशनकरा भवेयुः । बलशालिनः, शुभकराः = शुभाः शुभस्थानेशाः शुभस्थानगताश्च यावन्तो ग्रहा दारेशेन द्वितीयशेन वा सहिताः स्युस्तत्तुल्यजायासुखं कुर्वन्ति । अथ यदि बलयुत एक एव विय- च्चरः=ग्रहः सप्तमेशन कुटुम्बपेन वा सहितो भवेत्तदा जातो नर एकदारः=एकस्त्रीयुतो भवेत्। Notes—सप्तमभावगतैर्ग्रहैः जीसङ्ख्या वक्तव्या । तत्र पापास्तावत्स्त्रीनाशकाः शुभास्तावत्स्त्रीसौख्यदा भवन्ति । पापोऽपि सप्तमे यदि स्वगेहोच्चादिगतः स्यात्तदा शुभ एव भवत्येवं शुभो यदि नीचारिगतः सन् सप्तमे भवेत्तदाऽशुभकर एवेति विमृश्य वक्तव्यम् । तथा च मन्त्रेश्वरः— स्त्रीसङ्ख्यां मदगैर्ग्रहैर्मृतिमसत्खेटैश्च सद्भिः स्थितिः, यूनेशे सबले शुभे सति वधूः साध्वी सुपुत्रान्विता । पापोऽपि स्वगृहं गतः शुभकरः पत्न्याश्च कामस्थितो हित्वा षड्व्ययरन्ध्रपान् मदनगाः सौम्यास्तु सौख्यावहाः ॥ २६ ॥ जितने दुर्बल ग्रह सप्तमेश या द्वितीयेशसे युक्त हों उतनी संख्या जीका नाश करते हैं। यदि वे दुष्ट स्थानके स्वामी हों जितने बलवान् शुभ ग्रह हों उनके तुल्य जीका सुख हो । यदि एक ग्रह बली हो तो एक ही जी हो ॥ २६ ॥ अथ विवाहकालः । लग्नानङ्गपतिस्फुटैक्यगृहगे जीवे विवाहं वदे- च्चन्द्राधिष्ठिततारकावधुपयोरेक्यांशके वा तथा ॥

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४१७ जीवे मित्रनवांशके बलयुते यद्येकदारान्वितः स्वांशे द्वित्रिकलत्रवान् बहुवधूनाथः स्वतुङ्गांशके ॥ २७ ॥ इदानीं जातस्य विवाहसमयमाह—लग्नेति । लग्नानङ्गपतिस्फुटैक्यग्रहगे = जन्म- लग्नेशस्य सप्तमेशस्य च पृथक् पृथक् यत्स्पष्टराश्यादिकं तयोर्योगे कृते यद्राश्यादिकं भवे- तस्मिन् सञ्चारेण गतवति जीवे = गुरौ जातस्य विवाहं वदेत् । अथवा जन्मकाले चन्द्रा- धिष्ठिततारकायाः = चन्द्रो यस्मिन्नक्षत्रे भवेत्तस्य यत्स्पष्टराश्यादिकं, तथा वधूपस्य = स- प्तमेशस्य यत्स्पष्टराश्यादिकं तयोरैक्यांशके = योगे कृते सति यन्नवांशस्तस्मिन् गतवति गोचरीयजीवे सति तथा = जातस्य विवाहं वदेदिति । अथैकदारमाह—जीव इति । जन्मकाले बलयुते = पूर्वोक्तबलसहिते जीवे = गुरौ मित्र- नवांशके च व्यवस्थिते सति जात एकदारान्वितः = एकस्त्रीयुतो भवति । अथ द्वित्रिकलत्रमाह—स्वांश इति । बलयुते जीवे स्वांशे = धनुर्मीनान्यतरराशिनवांशे सति जातः द्वित्रिकलत्रवान् भवति । अथ बहुदारमाह—बह्विति । तस्मिन्नेव बलयुते जीवे स्वतुङ्गांशके = स्वोच्च-(कर्क-) राशिनवांशे गतवति जातः बहुवधूनाथः=त्र्यधिकवनितापतिर्भवतीति ॥ २७ ॥ लग्नेश और सप्तमेशके स्पष्ट राश्यादिके योगतुल्य राशिमें जब गोचरीय बृहस्पति हो तब विवाह होना कहे । वा चन्द्राधिष्ठित नक्षत्र और सप्तमेशके योगतुल्य अंशमें गुरुके होने पर विवाह कहे । यदि गुरु मित्रके नवांशमें हो तो एक ही स्त्रीसे युक्त हो । स्वांशमें हो तो दो तीन स्त्रीवाला हो । उच्चांशमें हो तो बहुत स्त्रियोंका स्वामी होवे ॥ २७ ॥ कलत्रनाथस्थितभांशकेशयोः सितक्षपानायकयोर्बलीयसः । दशागमे द्यूनपयुक्तभांशकत्रिकोणगे देवगुरौ करग्रहः ॥ २८ ॥ इदानीं विवाहकालज्ञाने प्रकारान्तरमाह—कलत्रेति । कलत्रनाथस्थितभांशकेशयोः = सप्तमेशः स्थितो यस्मिन् ये = राशौ, अंशके = नवांशे च तदीशयोः मध्ये बलीयसो ग्रहस्य दशागमे, वा सितक्षपानायकयोः = शुक्रचन्द्रयोर्मध्ये बलीयसो ग्रहस्य दशागमे = महादशाकाले, द्यूनपेन = जन्मलग्नातसप्तमेशेन युक्तो यो राश्यंशकस्तस्मात् त्रिकोणे (५।९) गतवति गुरौ च जातस्य करग्रहः = विवाहो वाच्यः । Notes—अत्र लग्नचन्द्रयोर्बलीयसः पक्षो ग्राह्यः । अर्थात् यदि चन्द्रो बलीयांस्तदा सितक्षपानायकयोर्बलीयसः दशागमे इति, लग्ने बलीयसि कलत्रनाथस्थितभांशकेशयोः बलीयसः दशागमे इति पक्षः स्वीकार्यः । लग्नाच्चन्द्राद्वा भावविचारस्य विहितत्वादिति ॥ सप्तमेश जिस राशि और नवांशमें हो उनके स्वामियोंमें, वा शुक्र और चन्द्रमामें जो अधिक बली हो उसकी दशामें सप्तमेश युत, राश्यंशके त्रिकोणमें गुरुके होनेपर विवाह कहे ॥ २८ ॥ शुक्रोपेतकलत्रराशिपदशाभुक्तिर्विवाहप्रदा लग्नाद्वित्तपतिस्थराशिपदशाभुक्तौ च पाणिग्रहः ॥ कर्मायुर्भवनाधिनायकदशाभुक्तौ विवाहः क्रमात् कामेशेन युतः कलत्रगृहगस्तत्पाकभुक्तौ तु वा ॥ २६ ॥ इदानीमन्यानपि विवाहसमयानाह—शुकोपेतेति । •शुक्रेण उपेतस्य = सहितस्य कल- त्रराशिपस्य = सप्तमभावेशस्य दशाभुक्तिः विवाहप्रदा भवति । यस्य जन्मसमये सप्तमेशः शुक्रसंयुक्तः स्यात्तस्य सप्तमेशदशान्तर्दशाकाले विवाहो भवतीत्यर्थः ।

लग्नादिति । जन्मलग्नाद् वित्तपतिः = द्वितीयेशः यस्मिन् राशौ तिष्ठति तद्राशिपतेर्द- शाभुक्तौ च पाणिग्रहः = विवाहो वक्तव्यः । कर्मायुरिति । कर्मभावेशस्यायुर्भावेशस्य च दशान्तर्दशाकाले विवाहो वाच्यः । अथवा यदि कलत्रगृहगः = सप्तमभावगतः ग्रहः कामेशेन = सप्तमेशेन युतो भवे- तदा तु तद्दशायाः = सप्तमगतग्रहदशाया भुक्तौ विवाहो वक्तव्य इति । अत्र क्रमादित्यनेन क्रमिका योगा उक्ता इति ज्ञातव्यम् ॥ २९ ॥ शुक्रयुक्त सप्तमेशकी दशाभुक्ति विवाह करानेवाली होती है। लग्नसे द्वितीयेशकी राशिपतिकी दशाभुक्तिमें पाणिग्रहण होवे। दशमेश और अष्टमेशकी दशाकी भुक्तिमें क्रमसे विवाह होवे। या लग्नेशसे युक्त तथा कलत्र (सप्तम) राशिमें प्राप्त ग्रहकी दशा- की भुक्तिमें विवाह कहे ॥ २९ ॥ सौम्यव्योमचरः स्थितः शुभगृहे चादौ ददाति श्रियं पापर्क्षे शुभखेचरो यदि दशामध्ये विवाहादिकम् ॥ क्रूरः पापगृहोपगो यदि फलं पाकावसाने तथा सौम्यर्क्षे यदि सर्वकालफलदः सौम्यान्वितः शोभनः ॥ ३० ॥ इदानीं ग्रहाणां शुभाशुभत्ववशात् स्थितिवशाच्च फलसमयमाह—सौम्यव्योमचर इति । शुभग्रहो यदि शुभगृहे स्थितः स्यात् तदाऽसौ आदौ=स्वदशारम्भसमय एव श्रियं = शुभसम्पदं ( विवाहादिफलम् ) ददाति । शुभखेचरः=शुभग्रहो यदि पापर्क्षे=पापराशौ स्थितः स्यात्तदा स्वदशामध्ये = स्वदशाया मध्यकाले विवाहादिकं शुभफलं ददाति । क्रूरः= पापग्रहो यदि पापगृहोपगः स्यात्तदा पाकावसाने = स्वदशाया अन्तकाले तथा = विवाहादि- फलं ददाति । यदि क्रूरः सौम्यर्क्षे = शुभराशौ भवेत् तदा सर्वकालफलदो ज्ञेयः । क्रूरः सौम्यान्वितः = शुभग्रहसंयुक्तश्चेद्भवेत्तदाऽसौ शोभनः = शुभ एव स्यादिति । Notes—इतः पूर्वश्लोके यदुक्तं 'दशाभुक्तौ विवाहः' इति तत्समय एवोक्तोऽ- स्मिन् श्लोके । तत्र विवाहकर्तृग्रहस्य स्थितिं विलोक्य तद्दशाभुक्तौ विवाहसमये ब्रूयादिति । अत्र विवाह इत्युपलक्षणमेव अतः सर्वस्मिन्नेव भावविचारे तत्तद्भावकारकस्य परिस्थिति- वशेनोक्तवत्फलं वाच्यमिति निष्कर्षः ॥ ३० ॥ सौम्य ग्रहसे शुभ गृह युक्त हो तो दशामें पहले शुभफलको देता है। यदि पापराशिमें शुभग्रह हो सो दशाके मध्यमें विवाह आदि शुभ फल हो । पापग्रह यदि पापगृहमें हो तो दशाके अन्तमें फल देता है । पापग्रह यदि शुभराशिमें हो तो अपनी सम्पूर्ण दशामें फल देवे । यदि वह शुभ युक्त हो तो शुभ होता है ॥ ३० ॥ लग्नेश्वरस्थितनवांशपतिः स्वराशौ चन्द्रे पुरन्दरगुरौ च कलत्रलाभम् ॥ कामेशशुक्रगृहगेऽमरमन्त्रिणीन्दौ केन्द्रेऽथवा गुरुयुते सति गोचरेण ॥ ३१ ॥ इदानीमन्यमपि विवाहसमयमाह—लग्नेश्वर इति । लग्नेश्वरः = जन्मलग्नपतिस्तिष्ठति यस्मिन्नवांशे तन्नवांशपतेः स्वराशौ = द्वितीयस्थाने चन्द्रे, पुरन्दरगुरौ = बृहस्पतौ च गो- चरेण समागते सति जातस्य कलत्रलाभम् = स्त्रीप्राप्तिं=विवाहं विजानीयात् । अथवा केन्द्रे= जन्मलग्नात् १।४।७।१० एतदन्यतमे गुरुयुते सति कामेशशुक्रगृहे = सप्तमेशो भृगुर्वा यत्र तिष्ठति तस्मिन् राशौ गोचरेण = सञ्चारेण गतवति अमरमन्त्रिणि = गुरौ, इन्दौ=चन्द्रे च कलत्रलाभं ब्रूयादिति । Notes—अत्र वयसस्तारतम्येनापि भवितव्यम् । न केवलं गुरोः सञ्चारतः फल- मादिशेदिति ॥ ३१ ॥

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४२६ लग्नेश जहाँ स्थित हो उस नवांशका स्वामी जहां हो उससे २ री राशिमें चन्द्रमा और बृहस्पति हों तो स्त्रीका लाभ होवे। सप्तमेश और शुक्रके गृहमें जब चन्द्रमा तथा बृहस्पति हों, तथा उससे केन्द्रमें जब गोचरीय गुरु हो तो स्त्रीका लाभ होवे ॥ ३१ ॥ यत्संख्यकमजादि कामभवनं तद्वत्सरे वा नृणां साष्टाब्दे कृतमौञ्जिकर्मपरतः कल्याणकालो भवेत् ॥ लग्नादस्तविलग्ननायकयुतक्षेत्रांशके सम्भवा या सा भर्तृमनःप्रसादकरणी भर्त्ता तथैव स्त्रियाः ॥ ३२ ॥ अन्यमपि विवाहकालं स्त्रियाः स्वभावं चाह—यदिति । कामभवनं = सप्तमं स्थानम् अजादि = मेषादिगणनाक्रमेण यत्संख्याकं भवेत् तद्वत्सरे, वा साष्टाब्दे=अष्टवर्षसहिते तत्स- प्तमभावाङ्कसमे वर्षे नृणां कृतमौञ्जिकर्मपरतः = मौञ्जिसंस्कार-( व्रतबन्धन- ) तः अनन्तरं कल्याणकालः = परिणयनसमयो भवेत् । यथा कस्यचित् सप्तमे भावे कर्कराशिस्यथा । तस्य मौञ्जिबन्धनमष्टाब्दे जातं तदा मौञ्जिकर्मपरतो द्वादशे ( ८+४ ) वर्षे जन्मतो विंशतितमे ( ४+८+८ ) वर्षे वा द्वादशे वर्षे तस्य परिणयनं वाच्यमिति । अथ भर्तृमनःप्रसादकरणीं स्त्रीमनःप्रसादकरञ्चाह—लग्नादिति । लग्नात् = जन्मल- ग्नात् अस्तविलग्नं = सप्तमो भावस्तस्य नायकेन = स्वामिना ( सप्तमेशेनेत्यर्थः ) युतो य क्षेत्रांशकः = राशिनवांशास्तस्मिन् सम्भवा = उत्पन्ना या स्त्री, सा भर्तृमनःप्रसादकरणी = पतिमनोमोदिनी भवति । तथैव = तेनैव प्रकारेण ( तल्लक्षणविशिष्टः ) भर्त्ता = स्वामी, स्त्रियाः मनःप्रसादकरो भवतीति ॥ ३२ ॥ जितनी संख्या मेषादिसे सप्तम भाव हो उतने वर्ष या उसमें ८ जोड़कर यज्ञोपवीतके बाद कल्याण (विवाह) का समय होता है। लग्नसे सप्तम भावेश युक्त क्षेत्रांशकमें (अर्थात् लग्नमें सप्तमेशस्य राशिका नवांश हो) उत्पन्ना स्त्री स्वामीके मनको प्रसन्न करनेवाली होती है। उसी प्रकार स्त्रीको स्वामी प्रसन्न करनेवाला होता है ॥ ३२ ॥ कामान्वितेक्षकवियच्चरराशिजाता चन्द्राद्यतीव सुभगा च पतिप्रिया स्यात् ॥ स्त्रीजातके च पतिरिष्टकरो वधूनां दिग्देशजा भृगुसुतादबलाधिपस्य ॥ ३३ ॥ कामेति । चन्द्रात् = जन्मकालीनचन्द्राधिष्ठितराशितः कामे = सप्तमे भावे, अन्वितः= व्यवस्थितः वा ईक्षकः = सप्तमभावद्रष्टा यो वियच्चरः = ग्रहस्तस्य, राशौ = स्वगृहे जाता स्त्री अतीव सुभगा पतिप्रिया च स्यात् । इदमुक्तं भवति । जन्मकाले चन्द्राधिष्ठित- राशेः सप्तमे स्थाने यो ग्रहो भवेत्तदभावे तत्र यस्य सर्वाधिका दृष्टिर्भवति तस्य ग्रहस्य राशि- रेव यस्या जन्मराशिर्भवति सा स्त्री अतीव सुन्दरी भर्तुः प्रियतमा च भवतीति । स्त्रीजातके= स्त्रियाः जन्मकुण्डल्यामपि कथितलक्षणे सति पतिः वधूनां = स्त्रीणाम्, इष्टकरः = मनः- प्रीतिकरो भवेदिति । दिगिति । भृगुसुतात् = शुक्रात् अबलाधिपस्य सप्तमेशस्य या दिक् ( २ अ. २३ श्लोक द्र. ) तद्दिग्देशजा जातस्य स्त्री वाच्या । अत्रेदं विचिन्त्यम् । पुरुषस्य जन्मकाले शुक्को यत्र भवेत्तस्मात्सप्तमभावस्य योऽधिपस्तस्य या दिगुक्ता तस्यां दिशि तस्य विवाहो वाच्य इति ॥ अत्र दारदिग्ज्ञानेऽन्येऽपि प्रकाराः— शुक्राधिष्ठितराश्यंशदिशो वा दारसम्भवः । शुक्रजामित्रतो वाऽपि दारेशस्य दिशोऽथवा ॥ कलत्रसंस्थस्य तदीक्षकस्य लग्नात्तदीशस्य च चन्द्रतो वा ।

४३० सटीकजातकपारिजाते- दिङ्ग्जातमात्रं प्रवदेत् कलत्रं पुंसोऽङ्गनायाश्च पतिं तथैव ॥ कामस्थकामाधिपभार्गवानामृक्षं दिशं शंसति तस्य पत्न्याः ॥ इति ॥ ३३ ॥ पुरुषके चन्द्रमासे सप्तममें स्थित तथा सप्तमको देखनेवाले ग्रह उसकी राशि में उत्पन्न होनेवाली स्त्री अत्यन्त सुन्दरी और पतिप्रिया होती है । स्त्री जातकमें ऐसा हो तो स्त्रियों के मनोरथ पूर्ण करनेवाला पति होता है । शुक्रसे सप्तमेशकी दिशाकी स्त्री कहे । याने जातक की शादी शुक्रसे सप्तमेशकी दिशामें कहनी चाहिये ॥ ३३ ॥ अथ वरवधूजातकसंयोगः । इदानीं वरस्य वध्वाश्च जातकसंयोगमाहेत आरभ्य श्लोकश्चतुर्द्दशभिः- धनावसानस्मरयानरन्ध्रगो धरासुतो जन्मनि यस्य दारहा ॥ तथैव कन्याजनजन्मलग्नतो यदि क्ष्मासूनुरनिष्टदः पतेः ॥ ३४ ॥ धनेति । यस्य पुरुषस्य जन्मनि = जन्मकाले धरासुतः = मङ्गलः, धनावसानस्मर- यानरन्ध्रगः = द्वितीय-द्वादश-सप्तम-चतुर्थाष्टमानामन्यतमगतः स्यादसौ पुरुषो दारहा = स्त्रीविनाशकः भवेदर्थात्तस्य नरस्य स्त्री न जीवेदित्यर्थः । कन्याजनजन्मलग्नतो यदि क्ष्मासूनुः = मङ्गलः तथैव = धनावसानस्मरयानरन्ध्र- ( २।१२।७।४।८ ) गतः स्यात् तदा पतेः = स्वामिनः अनिष्टदः = मृत्युकरः भवेदिति । अत्र योगे जाता कन्याऽपि भर्तृविनाशिनी भवतीति भावः । अत्र वध्वा वरस्य च जन्म- लग्नगतो भौमोऽशुभ उक्तः । अत्रोपलभ्यतेऽपि विशेषवचनम्- “लग्ने व्यये च पाताले जामित्रे चाष्टमे कुजे । कन्या भर्तृविनाशाय भर्त्ता कन्याविनाशकृत्” इति ॥ ३४ ॥ जिस पुरुषके द्वितीय, द्वादश, सप्तम, चतुर्थ वा अष्टममें मंगल हो वह (दारहा) स्त्री का नाशक होवे । इसी प्रकार कन्या के लग्नसे (२-४-७-८-१२) भावमें यदि मंगल हो तो पतिका अनिष्ट करनेवाली होती है । “धना” की जगह “लग्ना” पाठमें अन्य ग्रन्थोंसे भी सहयोग होगा । क्योंकि “लग्ने व्यये च पाताले जामित्रे चाष्टमे कुजे” इससे १-४-७-८ १२ ये स्थान अनिष्टकर अन्य ग्रन्थोंमें दृष्टि गोचर होते हैं ॥ ३४ ॥ क्रूरव्योमचरः स्त्रीणामष्टमस्थो विलग्नतः । नीचारिपापवर्गेषु यदि मृत्युकरः पतेः ॥ ३५ ॥ क्रूरैति । क्रूरव्योमचरः = कश्चित्पापग्रहः नीचारिपापवर्गेषु विद्यमानः सन् यदि स्त्रीणां विलग्नतः=जन्मलग्नात् अष्टमस्थो भवेत् तदा तस्याः पतेः=स्वामिनः मृत्युकरो भवेदिति॥३५॥ स्त्रियोंके लग्नसे अष्टम क्रूरग्रह नीच, शत्रु, पापके वर्गमें हो तो पतिकी मृत्यु करने वाला होता है ॥ ३५ ॥ द्यूनकुटुम्बगतौ यदि पापौ दारवियोगजदुःखकरौ तौ । तादृशयोगजदारयुतश्चेज्जीवति पुत्रधनादियुतश्च ॥ ३६ ॥ द्यूनकुटुम्बगताविति । पापौ = द्वौ पापग्रहौ यदि द्यूनकुटुम्बगतौ = सप्तमद्वितीयगतौ भवेताम्, (एकः सप्तमे, एको द्वितीये इति) तदा तौ दारवियोगजदुःखकरौ = स्त्रीवियोग- जनितदुःखदायिनौ भवेताम् । अस्मिन्योगे जातस्य पुरुषस्य स्त्री म्रियत इत्यर्थः । अथासौ पुरुषो यदि तादृशयोगजदारयुतः = तादृशे योगे ( द्यूनकुटुम्बगतौ यदि पापावित्यस्मिन् ) जातः दारैः (स्त्रीभिः) युतो भवेत् अर्थात् तस्य जातस्य स्त्रिया जन्मकुण्डल्यामपि पापौ द्वितीय- सप्तमौ भवेतां तदा पुत्रधनादियुतश्च जीवति । न तदानीं दम्पत्योरकाले मरणमिति भावः॥३६॥ यदि पापग्रह सप्तम और द्वितीय स्थानमें हों तो दोनों स्त्रीवियोगोत्पन्न दुःख देनेवाले होवें । ऐसे ही योगवाली उसकी स्त्री हो तो पुत्र धनादिसे युक्त होकर जीवे ॥ ३६ ॥

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४३१ कलत्रराशित्रितयेऽथवा स्यात्तदीशसंयुक्तभराशिकोणे । कलत्रराशैर्यदि पुत्रशाली तदन्यराशैर्यदि पुत्रहीनः ॥ ३७ ॥ कलत्रेति । पुरुषजन्मकुण्डल्याम्—कलत्रराशित्रितये=कलत्रराशेर्भेदत्रये ( कलत्रेशो यत्र भवेत् १, तस्योच्चं नीचं वा २, कलत्रराशिः ३ इति कलत्रस्य भेदत्रयं भवति ) किंवा सप्तमादित्रये, अथवा तदीशसंयुक्तभराशिकोणे=सप्तमेशस्थितराशेः कोणे ( ५।९ ) यदि कलत्रराशिः = स्त्रिया जन्मराशिः स्यात्तदा जातः पुत्रशाली भवेत् । तस्मिन् यदि तदन्यराशिः = स्त्रिया जन्मराशेर्भिन्नो राशिः स्यात्तदा पुत्रहीनो भवेदिति ॥ ३७ ॥ पुरुषके कलत्र* राशित्रयमें वा सप्तमेशसे संयुक्त राशिके कोणमें यदि उसके स्त्रीकी राशि हो तो पुत्रशाली ( पुत्रवान् ) हो । उससे अन्य राशि हो तो पुत्रहीन होवे ॥ ३७ ॥ अथ स्त्रियाः स्तनविचारः । काठिन्योरुकुचा मदे दिनकरे कामाधिपे केन्द्रगे जीवेन्दुज्ञसितान्विते गुरुकुचा, शुष्कस्तना भूमिजे । लम्बापीनपयोधरा सगुलिकच्छायासुताहिश्वजे, धूमादौ विषमाकृतिस्तनवती दुःस्थेऽथवा कामपे ॥ ३८ ॥ इदानीं कथम्भूता स्त्री भवेदित्याह—काठिन्येति । दिनकरे = सूर्ये, मदे=सप्तमे स्थिते सती जातस्य स्त्री काठिन्योरुकुचा=काठिन्यं=घनत्वमुपगतावूरू = जघनौ, कुचौ = स्तनौ च यस्यां सा तथाभूता भवेत् । जीवेन्दुज्ञसितान्विते = गुरु-चन्द्र-बुध-शुक्रान्यतमेन सहिते कामाधिपे = सप्तमभावेशे केन्द्रगे सति स्त्री गुरुकुचा = पीनपयोधरा भवेत् । भूमिजे=मङ्गले सप्तमगे सति शुष्कस्तना = गलत्कुचा भवेत् । सगुलिकच्छायासुताहिश्वजे = गुलिकेन सहिते छायासुते = शनौ, अहिश्वजे = राहुकेत्वोरन्यतरे वा सप्तमे गतवति सति स्त्री लम्बापीनपयो- धरा = लम्बायमानावपीनौ ( स्थूलौ ) च पयोधरौ ( कुचौ ) यस्यास्तथाभूता भवेत् । धूमादौ = सप्तमे भावे धूमाद्युपग्रहे सति स्त्री विषमाकृतिस्तनवती = असमान-(लघुमहत्-) पयोधरधरा भवेत् । अथवा कामपे = सप्तमेशे दुःस्थे सत्यपि विषमाकृतिस्तनवती स्त्री भवेदिति ॥ ३८ ॥ सूर्य सप्तममें हो तो उसके स्त्रीकी जांघें और स्तन कठिन हों। सप्तमेश केन्द्रमें हो बृह- स्पति, चन्द्रमा, बुध या शुक्रसे युक्त हो तो स्त्रीके स्तन बड़े हों। यदि ७ वेंमें मङ्गल हो तो शुष्क स्तन हों। गुलिकके साथ शनि, राहु या केतु हों तो लम्बे मोटे स्तन हों। सप्तमेश दुष्टस्थानमें हो अथवा सप्तममें धूमादि उपग्रह हो तो स्त्री विषमस्तनवाली हो ॥ ३८ ॥ अथ गम्यस्त्रीविवरणम् । बन्ध्यासङ्गमिनेऽस्तगे समयधूकेलिं निशानाथके भूपुत्रे तु रजस्वलाजनरतिं बन्ध्यावधूमेति वा । वेश्यामिन्दुसुते तु विप्रवनितां जीवे सिते गर्भिणीं नीचस्त्रीरतिमर्कजोरगशिखिप्राप्तेऽथवा पुष्पिणीम् ॥ ३६ ॥ इदानीं कथम्भूतया स्त्रिया सह सङ्गो भवेदित्याह—बन्ध्येति । इने = सूर्ये, अस्तगे = सप्तमभावगते सति पुरुषो बन्ध्यासङ्गं करोति । निशानाथके = चन्द्रे सप्तमगते सति समव- धूकेलिं = स्वसमानरूपगुणवयोयुतया वध्वा सह केलिं = रतिक्रीडां करोति । भूपुत्रे = भौमे सप्तमे सति रजस्वलाजनरतिं करोति । अथवा बन्ध्यावधूम एति = प्राप्नोति । इन्दुसुते = बुधे

  • कलत्रनाथस्थितभं तदीयराशिं कलत्रस्य विदुर्महान्तः । 29 तस्योच्चनीचं यदिवा कलत्रराशिं तदंशत्रितयं तदीयम् ॥