जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 450, कुल 588 में से
संदर्भ में पढ़ें४२४ सटीकजातकपारिजाते- जातस्य जाया = स्त्री, जारेण = अन्यपुरुषेण पुत्रजनिलाभं= सुतोत्पत्तिमुपैति । तस्याः स्त्रियाः, धवः = स्वामी ( यस्य जन्माङ्गचक्रमीदृग्लक्षणयुतं स्यात्सः ) बहुकलत्रयुतोऽपि = अनेकस्त्री- सहितोऽपि, अपुत्रः = पुत्ररहित एव भवेदिति । न खलु कस्यामपि स्त्रियां तस्यौरसः पुत्रो जायेतेति भावः । Notes—यदि स्त्रियाः कुण्डल्यामयं योगः स्यात्तदा सा स्त्री परपुरुषेण पुत्रोत्पत्तिमुपैति । न स्वपतिनेति । पुरुषस्य कुण्डल्यामयं योगः सर्वथा सन्तानबाधक एव भवतीति विज्ञेयम् ॥१६॥ सप्तमेश या बलवान् पञ्चमेश शुभग्रहसे दृष्ट और षष्ठेशके साथ हो वा षष्ठेश देखता हो तो स्त्री जारसे पुत्र उत्पन्न करे और उसके स्वामीके बहुत स्त्री हों तो भी पुत्रहीन हो ॥१६॥ नीचे गुरौ मदनगे सति नष्टदारो मीने कलत्रभवने रविजे तथैव । मन्दारराशिनवभागगते सुरेड्ये जारो भवेद्दिनसुतारसमन्विते वा ॥ १७ ॥ नीच इति । नीच-( मकरराशि-) वर्त्तिनि गुरौ मदनगे = सप्तमभावगते सति जातः नष्टदारः = मृतभार्यः भवेत् । कर्कराशिलग्नेऽस्य योगस्य सम्भवः । रविजे = शनैश्चरे मीने कलत्रभवने = सप्तमे भावे च गते तथैवार्थात्नष्टदारः भवेत् । कन्यालग्नेऽस्य सम्भव इति । सुरेड्ये = गुरौ मन्दारराशिनवभागगते=शनिकुजयोरन्यतरस्य राशौ नवांशे वा गते, अथवा इनसुतारसमन्विते=शनिभौमान्यतरेण सहिते सति जातो जारो भवेदिति । तथा च मन्त्रेश्वरः- शुक्रे वृश्चिकगे मदे मृतवधूः कान्ते वृषस्थे बुधे, स्त्रीनाशस्त्वथ नीचगे सुरगुरौ द्यूनाधिरूढे तथा । जामित्रे झषगे शनौ सति तथा धीमेऽथवा धीद्युति- श्चन्द्रक्षेत्रगयोर्मदेऽर्किकुजयोः पत्नी सती शोभना ॥ इति ॥ १७ ॥ सातवें भावमें नीच राशिका गुरु हो तो उसकी स्त्री मर जावे । सप्तम मीन राशि हो उसमें शनि हो तो भी पूर्वोक्त फल जाने । शनि या मंगलके नवांशमें गुरु हो, वा शनि मंगलके साथ हो तो वह जार ( व्यभिचारी ) हो ॥ १७ ॥ सप्तमे वाऽष्टमे पापे व्ययस्थे धरणीसुते । अदृश्ये यदि तन्नाथे कलत्रान्तरभाग्भवेत् ॥ सुवंशजातं प्रथमं कलत्रं लग्नेश्वरो दारपसंयुतश्चेत् । दिनेशकान्त्याभिहतस्तदानीं स्वरूपहीनां सुतरां वदन्ति ॥ १६ ॥ इदानीं कलत्रद्वययोगं तल्लक्षणञ्चाह- सप्तम इति, सुवंशजातमिति श्लोकद्वयेन । जन्म- लग्नात् सप्तमे, अथवा अष्टमे भावे कस्मिंश्चित् पापे सति तथा धरणीसुते = मङ्गले व्ययस्थे= द्वादशे गतवति, तन्नाथे = स्त्रीभावेशे यदि अदृश्ये = अदृश्यचक्रार्द्धगतेऽस्तङ्गते वा सति जातो नरः कलत्रान्तरभाक् = दारान्तरोपयुक्तो भवेत् । अस्मिन् योगे जातस्य कलत्रद्वयं स्यादिति भावः । तत्र कलत्रद्वये प्रथमं कलत्रं सुवंशजातं विजानीयात् । यदि पूर्वोक्तयोगे लग्नेश्वरः = जन्मलग्नस्वामी, दारपसंयुतः = सप्तमेशेन सहितः स्यात्तदेति । अथ केवलं लग्नेश्वरो यदि दिनेशकान्त्याभिहतः = सूर्येण सहास्तमितो भवेत्तदानीं प्रथमां स्त्रियं सुतराम् = अतिशयेन स्वरूपहीनां = सौन्दर्यरहितां = कुरुपां विज्ञा वदन्तीति ॥ १८-१९ ॥ सप्तम या अष्टममें पापग्रह हो बारहवें मंगल हो और यदि सप्तमेश अदृश्य हो तो उसे दूसरी भी स्त्री होवे ॥ १८ ॥ लग्नेश जायेशके साथ हो तो पहिली स्त्री सुवंशोत्पन्न हो । यदि सूर्यकी कांतिसे हत हो अर्थात् अस्त हो तो रूपसे रहित ( कुरूपा ) स्त्री जाने ॥ १९ ॥ वित्ते पापबहुत्वे च कलत्रेशे तथास्थिते । *शत्रुस्थानगते केतौ कलत्रत्रयभाग्भवेत् ॥ २० ॥
- 'पापग्रहेण सन्दृष्टे' इत्यपि पाठान्तरम् ।