जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 445, कुल 588 में से
संदर्भ में पढ़ेंअथ सप्तमाष्टमनवमभावफलाध्यायः ॥ १४ ॥ तत्र सप्तमभावफलम् । यात्रापुत्रकलत्रसौख्यमखिलं सञ्चिन्तयेत्सप्तमा- दुक्तं पुत्रसुखासुखागमफलं सर्वं च यत्तद्वदेत् ॥ ३ ॥ यात्रेति । सप्तमात् = सप्तमभावात्, यात्रापुत्रकलत्रसौख्यमखिलं सञ्चिन्तयेत् = विचार- येत्; तथा इतः पूर्वं पुत्रसुखासुखागमफलं यदुक्तं तत्सर्वं च सप्तमादपि वदेत् । तथा हि जातकाभरणे— “रणाङ्गणं चापि वणिक्क्रियाश्च जायाविचारागमनप्रयाणम् । शास्त्रप्रवीणैर्हि विचारणीयं कलत्र(७)भावे किल सर्वमेतत्” इति ॥ एवं जातकरत्ने— “युवतिपदाद्युद्वाहं भार्या-पति-सूप-दधि-गुडक्षीरम् । आगमनं सरिदाप्तिं मूत्राशयं च नष्टधनम्” इति ॥ ३ ॥ सप्तम भावसे सम्पूर्ण यात्रा-पुत्र-स्त्री-सुखका विचार करे । जो कुछ पहले पुत्रादिके सुख-असुखके आगम फल कहे जा चुके हैं वे सब सप्तम भावसे भी कहे ॥ ३ ॥ जारः कामगते सिते मदनपे साहिध्वजे वा तथा . कामे जीवयुगीक्षिते शुभगृहे जातो न जारो भवेत् ॥ १ ॥ जार इति । सिते = शुक्रे, कामगते = सप्तमभावगते सति जातो नरः जारः = परस्त्रीगामी भवति । वा मदनपे = सप्तमभावेशे यत्र तत्र साहिध्वजे = राहुणा वा केतुना सहिते सति तथा = जारो भवति । अथ कामे = सप्तमे भावे शुभगृहे=शुभग्रहराशौ सति तस्मिन् जीवे- न=गुरुणा युक्ते वा ईक्षिते=दृष्टे सति जातो नरो जारो न भवेत्प्रत्युत सदाचारी भवेदिति ॥१॥ शुक्र सप्तममें हो तो जार (परस्त्रीलम्पट) हो, या सप्तमेश राहु या केतुसे युत हो तो भी जार हो । सप्तम शुभगृह हो उसमें गुरु हो वा उसे देखता हो तो जार नहीं होता है ॥ १ ॥ दुःस्थे कामपतौ तु पापगृहगे पापेक्षिते तद्युते तज्जायाभवनस्य मध्यमफलं सर्वं शुभं चान्यथा ॥ कामस्थानपतौ सितेन सहिते पापर्क्षगे कामधीः सौम्यर्क्षे शुभखेटवीक्षितयुते जातः सितच्छत्रवान् ॥ २ ॥ दुःस्थ इति । कामपतौ = सप्तमेशग्रहे तु, दुःस्थे = षडष्टव्ययान्यतमगते, पापग्रहगृहे, पापग्रहेणेक्षिते वा पापग्रहेण युक्ते तज्जायाभवनस्य = तस्य जातकस्य सप्तमभावस्य सर्वं मध्यमफलं भवति, अर्थाद्दीदृग्योगे जातस्य सप्तमभावे यत्किञ्चिद्विचार्य्यते तत्सर्वं मध्यमफलं भवति । अन्यथा चार्थात् सप्तमेशे शुभस्थानगते, शुभराशिगते, शुभेक्षिते वा शुभयुते सति तज्जायाभवनस्य सर्वं फलं शुभं स्यात् । कामस्थानपतौ = सप्तमभावेशे, सितेन = शुक्रेण सहिते, पापर्क्षगे = पापराशिगते च जातः कामधीः = कामुकः भवति । तस्मिन्नेव सप्तमेशे सौम्यर्क्षे = शुभराशिगते, शुभखेटेन वीक्षिते वा युते सति जातो नरः सितच्छत्रवान् = धव- लातपत्रयुतः ( राजेति यावत् ) भवेदिति ॥ २ ॥ सप्तमेश दुष्ट स्थानमें हो, पापगृहमें हो, उसे पापग्रह देखता हो, या पापसे युत हो तो उसके सप्तमगृहका मध्यम फल कहे । ऐसा न हो तो सब शुभ जाने । सप्तमेश शुक्रके साथ होकर पापराशिमें हो तो कामी हो । शुभराशि में हो, शुभग्रहसे युक्त हो, वा उसे शुभग्रह देखते हों तो वह जातक सितच्छत्रवाला ( राजा ) होवे ॥ २ ॥