भारतकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 446, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 446

४२० सटीकजातकपारिजाते- वित्तास्तारिपभार्गवास्तनुगताः पापान्विताः कामुकः पापव्योमचरान्वितौ तनुरिपुस्थानाधिपौ चेत्तथा । कामस्थे रिपुवित्तलग्नपयुते पापे परस्त्रीरतः पापारातिकलत्रपा नवमगाः कामातुरो जायते ॥ ३ ॥ वित्तेति । वित्तास्तारिपभार्गवाः = द्वितीयेश-सप्तमेश-षष्ठेश-शुक्राः, पापान्विताः = पापग्रहयुक्ताः सन्तो यदि तनुगताः = लग्ने विद्यमाना भवेयुस्तदा जातः कामुकः = अति- कामी भवेत् । चेद्यदि तनुरिपुस्थानाधिपौ= लग्नेश-षष्ठेशौ यत्र तत्र पापव्योमचरान्वितौ = पापग्रहयुक्तौ भवेतां तदा तथा = कामुकः = सदा स्त्रीरतो भवेत् । पापे = रविभौमशनीनाम- न्यतमे, कामस्थे = सप्तमभावगते, तस्मिन् रिपुवित्तलग्नपयुते = षष्ठेश-द्वितीयेश-लग्नेशैः सहिते च जातः परस्त्रीरतः = अन्यदारसक्तः स्यात् । अथ च पापारातिकलत्रपाः = पापग्रह-षष्ठेश-सप्तमेशाः यदि नवमगा भवेयुस्तदा जातः कामातुरः=कामपीडितः जायते= भवतीति । अत्रोक्तयोगेषु शुभग्रहाणां दृष्टियोगे न तथात्वमिति ज्ञेयम् । तथा च सर्वार्थचिन्तामणौ— लग्नस्थिता वित्तकलत्रशत्रुनाथाः सशुक्रा यदि पापयुक्ताः । जातः परस्त्रीषु रतः कुमार्गी शुभैक्षिताश्चेन्न तथा भवेच्च ॥ लग्नेारिपौ पापयुतौ यदि स्याज्जातः परस्त्रीषु रतः कुमार्गी । लग्नेश्वरे शत्रुकुटुम्बनाथे पापैर्युते वा यदि दारराशौ : जातः परस्त्रीषु रतः••••••••••••••••' इति ॥ ३ ॥ द्वितीयेश, सप्तमेश, षष्ठेश और शुक्र पापग्रहसे युक्त होकर लग्नमें हों तो जातक कामी हो लग्नेश और षष्ठेश पापग्रहसे युक्त हो तो भी कामी होता है। कोई पापग्रह षष्ठेश, धनेश और लग्नेशसे युक्त होकर सप्तम भावमें ही हो तो परस्त्रीगामी हो। पापग्रह, षष्ठेश और सप्तमेश नवम भावमें हों तो कामातुर होता है ॥ ३ ॥ जारः कर्मधनास्तपा दशमगाः पुत्रादिकारग्रहा- दुःस्था धीगुरुकामपाः सुतगृहे पापेक्षितेऽनात्मजः । जीवज्ञौ यदि वा निशाकरसितौ कामे बहुस्त्रीरतः शुक्रे मन्मथराशिगे बलवति स्त्रीणां बहूनां पतिः ॥ ४ ॥ जार इति । कर्मधनास्तपाः = दशमेश-द्वितीयेश-सप्तमेशाः यदि दशमभावगताः स्युस्तदा जातो जारः स्यात् । धीगुरुकामपाः=पञ्चमेश-नवमेश-सप्तमेशाः पुत्रादिकारग्रहाः सन्तो यदि दुःस्थाः=षडष्टव्ययगताः स्युः, तथा सुतगृहे = पञ्चमभावे पापेक्षिते सति जातो नरोऽनात्मजः = पुत्ररहितो भवेत् । तथाहि सर्वार्थचिन्तामणौ— 'कर्मेशवित्तेशकलत्रनाथा मानस्थिता जारमुदाहरन्ति । धीधर्मनाथौ सकलत्रनाथौ दुःस्थानगौ हीनबलौ शुभैर्न ॥ दृष्टे सुते दारबहुत्वयोगे त्वपुत्रयोगं मुनयो वदन्ति' इति ॥ जीवज्ञाविति । गुरुबुधौ, वा निशाकरसितौ = चन्द्रशुक्रौ, कामे = सप्तमभावे भवेतां तदा जातो बहुस्त्रीरतः = विविधस्त्रीसंसक्तो भवेत् । अथ च बलवति = पूर्णबलयुक्ते शुक्रे मन्मथराशिगे = सप्तमभावगते सति जातो बहूनां स्त्रीणां पतिः भवति । यस्य जन्मकाले बलीयान् शुक्रः सप्तमे भवति तस्य बह्वयः स्त्रियो भवन्तीति ॥ ४ ॥ दशमेश, द्वितीयेश और सप्तमेश दशवें हों तो जातक जार हो पञ्चमेश, नवमेश और सप्तमेश पुत्रादि कारक होकर दुष्ट स्थानमें हों, पांचवे भावको पापग्रह देखता हो तो जातक