जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 467, कुल 588 में से
संदर्भ में पढ़ेंसप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४४१ बहुत रोग हो । बुध दशम गृहमें हो और अत्यन्त शुभग्रहसे युक्त हो तो जातक हर्ष युत तथा सुखी हो ॥ ६३ ॥ शीर्षोदयेषु चरभादिषु वित्तपस्य लग्नाधिपस्य भुजगस्य दशापहारे । पृष्ठोदये सति तदीयदृगाणपस्य तद्वीक्षितादिसहितस्य मृतिं वदेद्वा ॥ ६४ ॥ इदानीं लग्ने चरादिराशिवशान्मृत्युविचारमाह—शीर्षोदयेष्विति । शीर्षोदयेषु राशिषु (१ अ० १४ श्लो० द्र०) लग्नगतेषु चरभादिषु = चरस्थिरद्वन्द्वराशिषु क्रमेण–वित्तपस्य = धनेशस्य, लग्नाधिपस्य, भुजगस्य = राहोः दशापहारे मृतिं वदेत् । एतदुक्तं भवति । मिथुन-सिंह-कन्या-तुला-वृश्चिक-कुम्भानां मध्ये तुला-लग्ने द्वितीयस्य दशापहारे, सिंह- वृश्चिक-कुम्भान्यतमे लग्ने लग्नेशस्य दशापहारे, मिथुन-कन्ययोरन्यतरे लग्ने राहोर्द- शापहारे जातस्य मरणं वदेत् । अथ पृष्ठोदये = वृष-कर्क-मेष-धनुः-मकरान्यतमे (१ अ. श्लो० १४ द्र०) लग्ने सति तदीयदृगाणपस्य = लग्नाश्रितद्रेष्काणपतेः, तद्वीक्षितादिसहितस्य = लग्नगतद्रे- ष्काणपतिदृग्दृष्टसंयुक्तस्य वा दशापहारे मृतिं वदेत् । अत्रापि त्रैविध्यमुक्तं, तच्चरादिराशि- परमेवार्यात् मेषकर्कमकरान्यतमे लग्ने-लग्नद्रेष्काणपतेर्दशापहारे, वृषलग्ने-लग्नद्रेष्काण- पतिद्रष्टुर्दशापहारे, धनुर्लग्ने-लग्नद्रेष्काणपतिसहितस्य दशापहारे जातस्य मरणं वाच्यम् । Notes—अत्र लग्नद्रेष्काणपतौ ग्रहदृष्टियोगाभावे तद्द्रेष्काणपतिरेव ग्राह्य इति ॥६४॥ शीर्षोदय राशिमें, चर आदि राशिमें क्रमसे धनेशकी, लग्नेशकी और राहुकी दशामें, पृष्ठोदय राशिमें क्रमसे चरादि राशिमें उसके द्रेष्काणपति, ॰उसके देखने वाले तथा उसमें युक्तकी दशामें मृत्यु कहे ॥ ६४ ॥ इति अष्टमभावफलविचारः । 𑁋𑁋𑁋𑁋𑁋𑁋𑁋𑁋𑁋𑁋 अथ नवमभावफलम् । तत्रादौ भाग्यविचारः । अथाधुना नवमभावफलविचारः क्रियते । तत्रादौ नवमभावात्तत्कारकाच्च [(गुरोः) विचारणीयविषयकथनपूर्वकं भाग्ययोगमाह— भाग्यप्रभावगुरुधर्मतपःशुभानि संचिन्तयेन्नवमदेवपुरोहिताभ्याम् । भाग्येशदेवसचिवौ शुभवर्गयातौ भाग्ये शुभग्रहयुते समुपैति भाग्यम् ॥ ६५ ॥ भाग्यप्रभावेत्यादि । नवमदेवपुरोहिताभ्याम् = लग्नान्नवमभावतः गुरोश्च सकाशात् भाग्यम् = दैवम् (तकदीर), प्रभावः = सामर्थ्यम्, गुरुः = शिक्षको दीक्षकश्च, धर्मः, तपः, शुभम् = सत्कार्याणि एतानि सञ्चिन्तयेत् = विचारयेत् । एतेषां शुभाशुभविचारो नवमभावबृहस्पतिभ्यां प्रकर्त्तव्य इति । भाग्येशदेवसचिवौ = नवमभावेशो बृहस्पतिश्च शुभवर्गयातौ भवेताम्, भाग्ये = नवमे भावे शुभग्रहयुते सति जातो नरः भाग्यं = सदभ्युदयं, समुपैति = प्राप्नोति । अस्मिन् लक्षणे जातो भाग्यवान् भवेदित्यर्थः ॥ ६५ ॥ नवम भाव और बृहस्पतिसे भाग्य, प्रभाव, गुरु, धर्म, तप और शुभका विचार करना चाहिये । नवमेश और बृहस्पति शुभवर्गमें हों, भाग्य भाव शुभग्रहसे युक्त हो तो जातक भाग्य- वान् होता है ॥ ६५ ॥