जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 468, कुल 588 में से
संदर्भ में पढ़ें४४२ सटीकजातकपारिजाते- पापारिनीचरविलुप्तकरा नभोगा भाग्यस्थिता यदि यशोधनधर्महीनाः ॥ पापोऽपि तुङ्गनिजमित्रगृहोपगश्चेद्भाग्ये तु भाग्यफलदः सततं नराणाम् ॥६६॥ पापारीति । पापग्रहाः, शत्रुगृहगताः, नीचगताः, सूर्येण सहास्तङ्गता वा नभोगाः = ग्रहाः यदि, भाग्यस्थिताः = नवमभावगताः स्युस्तदा जाताः नराः यशोधनधर्महीना भवन्ति । अथ यदि पापोऽपि = कश्चित्पापग्रहोऽपि तुङ्गगतः ( उच्चस्थः ), निजगृहगतः मित्रगृहोपगतः सन् चेद् भाग्ये=नवमभावे स्थितः स्यात्तदा तु नराणां सततं भाग्यफलदः = अभ्युदयकृदेव भवेत् । पापो वा शुभो वा कश्चिद्ग्रह उच्च-स्व-मित्रगृहगतो यद्भावगतः स्यात्तद्भावपोषक एव भवतीति प्रायः सर्वेषां सिद्धान्त एवावगम्यः ॥ ६६ ॥ यदि पापग्रह, नीचराशिस्थ ग्रह, या अस्तग्रह नववें भावमें हों तो जातक यश, धर्म और धनसे हीन हो । पापग्रह भी यदि उच्चस्थानमें, मित्रगृहमें होकर नववेंमें हो तो मनुष्य निरन्तर भाग्यवान् होता है ॥ ६६ ॥ सौम्यस्वामियुतेक्षितं नवमभं भाग्यप्रदं प्राणिनां तद्राशीशसमेतराशिरमणो भाग्यस्य कर्त्ता भवेत् ॥ भाग्येशः परिपाचको भवति तत्पुत्रेश्वरो बोधक- स्तुङ्गस्वर्क्षगृहोपगो यदि चिरं भाग्यं प्रकुर्वन्ति ते ॥ ६७ ॥ सौम्यस्वामीति । नवमभम् = भाग्यस्थानम् , सौम्येन = शुभग्रहेण, स्वामिना = स्वपतिना ( नवमेशेन ) युक्तमीक्षितं = दृष्टं वा भवेत्तदा प्राणिनां = जनिमताम् भाग्य- प्रदम् = अभ्युदयकारकं भवेदिति । तदिति । तद्राशीशः भाग्यराशिपतिः ( नवमेशः ) समेतः = स्थितो यस्मिन् राशौ तद्राशिरमणः = तद्राशिपतिः=नवमेशाधिष्ठितराशिपतिर्ग्रह इत्यर्थः, स भाग्यस्य कर्त्ता भवेत् । भाग्येशाधिष्ठितराशिप्तेः शुभाशुभस्थितिवशेन।पि शुभाशुभभाग्यविचारः कर्त्तव्य इति भावः । भाग्येश इति । भग्येशो ग्रहो हि परिपाचको भवति । अर्थात्भाग्येशदशायां भाग्यो- दयसम्भवः । तत्पुत्रेश्वरः=नवमभावात्पञ्चमेशोऽर्थाल्लग्नेशः, बोधकः=भाग्यज्ञापको भवति । ते सर्वे पूर्वोक्ताः ( भाग्येश-भाग्येशाधिष्ठितराशीश-भाग्यगत-लग्नेशाः ) यदि तुङ्गस्वर्क्ष- गताः स्युस्तदा चिरं = यावदायुः भाग्यं प्रकुर्वन्ति ॥ ६७ ॥ नवमभाग यदि अपने स्वामीसे या शुभग्रहसे युत या दृष्ट हो तो