जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 472, कुल 588 में से
संदर्भ में पढ़ें४४६ सटीकजातकपारिजाते- शास्त्रीति । (मं० बु०)—बुधयुते, कुजे = मङ्गले नवमगे जातः शास्त्री = शास्त्राध्यय- नाध्यापनकृद्भवेत् । (मं० वृ०)—शेज्ये = इज्येन (गुरुणा) सहिते कुजे नवमगे जातो धनी, लोकैः पूजितः = मान्यश्च भवेत् । (मं० शु०)—शुक्रेण सह कुजे नवमगे जातो द्विवधूपतिः = द्विदारः, वाग्मी, विदेशं गतश्च भवेत् । (मं० श०)—भानुसुतान्विते = शनिसंयुक्ते भौमे नवमगे जातो हि पापी, परस्त्री- रतश्च भवेत् । (बु० वृ०)—सामरवन्दिते = अमरवन्दितेन (गुरुणा) सहिते, सौम्ये = बुधे नव- मगे सति जातः पटुमतिः = चतुरबुद्धिः, विद्वान्, धनी, पण्डितः = सदसद्वस्तुविवेकबुद्धि- शाली च भवेदिति ॥ ७६ ॥ बुधसे युक्त नवमेंमें मंगल हो तो जातक शास्त्र जाननेवाला हो, और भोगी तथा सुखी हो । मंगल बृहस्पतिसे युक्त नवमेंमें हो तो धनवान् और पूज्य होता है । मंगल शुक्रसे युक्त नवमेंमें हो तो दो स्त्रियोंका पति, विवादी और विदेश वासी हो । नववें भावमें मङ्गल शनिसे युक्त हो तो जातक पापी, पराई स्त्रीगामी हो । नवममें बुध गुरुके सहित हो तो चतुरबुद्धि, विद्वान् धनी और ज्ञानी होवे ॥ ७६ ॥ प्राज्ञो गीतरतिप्रियः सभृगुजे चन्द्रात्मजे पण्डितः सौम्ये मन्दयुते तु रोगितनुको वित्ताधिकोऽसत्यवाक् । जीवे शुक्रयुते चिरायुरधिकश्रीमान् समन्दे गुरौ रोगी रत्नधनः सितेऽसितयुते भूपालतुल्यो भवेत् ॥ ७७ ॥ प्राज्ञ इति । (बु. शु.)—सभृगुजे = शुक्रेण सहिते, चन्द्रात्मजे = बुधे भाग्य-(नवम) स्थानगते जातः पण्डितः स्यात् । (बु. श.)—मन्दयुते, सौम्ये = बुधे नवमगे तु जातो रोगितनुकः = रुग्णशरीरः, वित्ताधिकः = धनी, असत्यवाक् = मिथ्यावादी च भवेत् । (वृ. शु.)—शुक्रयुते जीवे = गुरौ नवमगते जातः, चिरायुः = दीर्घजीवी, अधिक- श्रीमान् = बहुलधनश्च स्यात् । (वृ. श.)—समन्दे गुरौ नवमगते जातो रोगी, रत्नधनश्च भवेत् । (शु. श.)—सिते = शुक्रे, असितेन = शनिना युते नवमगते सति जातो भूपालतुल्यो भवेज् तु भूपाल इति ॥ ७७ ॥ नववें भावमें बुध शुक्रसे युक्त हो तो जातक बुद्धिमान्, गीतरति प्रिय और पण्डित हो । बुध शनिसे युत नवमें भावमें हो तो रोगी, अधिक धनवान् और मिथ्यावादी हो । नववें में बृहस्पति शुक्रसे युक्त हो तो चिरायु और विशेष श्रीमान् हो । नवममें शनिके साथ गुरु हो तो रोगी तथा रत्नका धनी हो । नववेंमें शुक्र शनिसे युक्त हो तो राजाके सदृश हो ॥७७॥ अथ नवमे त्रिग्रहयोगफलानि । इतः प्रभृति ८६ श्लोकान्तं नवमे भावे त्रिग्रहयोगफलान्युच्यन्ते— रवीन्दुभौमा नवमोपयाता यदि क्षताङ्गः पितृमातृहीनः । हिंसी विकर्मा रविचन्द्रसौम्या रवीन्दुजीवाः सुखवाहनाढ्यः ॥ ७८ ॥ रवीन्दुभौमा इति । (सू. चं. मं.)—सूर्य-चन्द्र-कुजाः यदि नवमोपयाताः स्युः तदा जातः, क्षताङ्गः = रुग्णशरीरः, पितृमातृहीनश्च भवेत् । (सू. चं. बु.)—रविचन्द्रसौम्याः = सूर्यचन्द्रबुधा नवमगाश्चेत्तदा जातो हिंसी = हिंसाकर्मकृत्, विकर्मा = स्वकुलाचारकर्मरहितश्च भवेत् ।