जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 471, कुल 588 में से
संदर्भ में पढ़ेंसप्तमाष्टमनवमभावफलाध्यायः ।।१४।। ४४५ भानौ सेन्दुसुते सपत्नबहुलो दुःखी रुगार्तः सदा वागीशेन युते पितृप्रियकरो जातः स्वयं वित्तवान् । रोगी शुक्रयुते रवौ शनियुते रुग्णः पिता कुक्षिरुक् चन्द्रे सावनिनन्दने तु जननीहन्ता धनत्यागवान् ॥ ७४ ॥ भानविति । (सू. बु.)-सेन्दुसुते = इन्दुसुतेन (बुधेन) सहिते, भानौ=सूर्ये भाग्ये गतवति जातः सपत्नबहुलः = शत्रुबहुलः = अनेकरिपुव्याप्तः, दुःखी, सदा रुगार्तः = व्याधिपीडितश्च भवेत् । (.सू. वृ.) - वागीशेन = गुरुणा युते नवमस्थे भानौ जातः पितृप्रियकरः = स्वज- नकामोदकृत्, स्वयं वित्तवान् = धनी च भवेत् । ( सू. शु.) - शुक्रयुते रवौ भाग्ये सति रोगी स्यात् । (सू. श.) शनियुते रवौ भाग्ये जातो रुगणः = व्याधिमान्, तस्य पिता च कुक्षिरुक्= उदरामययुग् भवेत् । (चं. मं.) चन्द्रे सावनिनन्दने=भौमेन सहिते चन्द्रे भाग्यगते तु जातो जननीहन्ता= मातृवधकृत्, धनत्यागवाँश्च भवेदिति ॥ ७४ ॥ सूर्य और बुध ९ वें भावमें हों तो जातकके बहुत शत्रु हों। स्वयं सदा दुःखी और रोगसे पीड़ित रहे। सूर्य गुरुके साथ ९ वेंमें हो तो जातक पिताका आज्ञाकारी और धनी होवे। सूर्य शुक्रके साथ हो तो जातक रोगी हो। शनिसे युक्त हो तो जातक रोगी हो और उसका पिता उदरव्याधिसे युक्त हो। यदि मङ्गल और चन्द्रमा ९ वें भावमें हो तो जातक माताका नाश करे और धनका भी त्याग करे ॥ ७४ ॥ वाग्मी शास्त्रकलापवान् नवमगे चन्द्रे सतारासुते सेन्दौ मन्त्रिणि धीरधीर्नरवरः श्रीमान् गुरुस्थानगे । तारेशे कुलटापतिः सभृगुजे सापत्लमातृप्रिय- श्चन्द्रे मन्दयुते विधर्मगुणवान् माता कुलप्रच्युता ॥ ७५ ॥ वाग्मीति । (चं० बु०) - सतारासुते = तारासुतेन (बुधेन) सहिते चन्द्रे नवमगे सति जातो नरः वाग्मी = वाक्चतुरः, शास्त्रकलापवान् = विविधशास्त्रज्ञो भवेत् । (चं० वृ०) सेन्दौ = चन्द्रयुक्ते, मन्त्रिणि=गुरौ, गुरुस्थानगे=नवमगे, जातः श्रीमान्, धीरधीः = प्रशस्तबुद्धिः, नरवरः = पुरुषश्रेष्ठश्च भवेदिति । (चं० शु०) -सभृगुजे शुक्रेण सहिते, तारेशे = चन्द्रे नवमगे जातः, कुलटापतिः = पुंश्चलीस्त्रीस्वामी, सापत्लमातृप्रियः = विमातुः स्नेहकृच्च भवेत् । (चं० श०)-मन्दयुते = शनिसहिते चन्द्रे भाग्यगते जातो विधर्मगुणवान् भवेत्, तस्य माता च कुलप्रच्युता = कुलाद् बहिष्कृता भवेदिति ॥ ७५ ॥ यदि चन्द्रमा बुधके साथ नववें भावमें हो तो जातक बोलनेमें चतुर और अनेक शास्त्रों का ज्ञाता हो। चन्द्रमा और गुरु नववें हों तो जातक धीर बुद्धि, पुरुषश्रेष्ठ और श्रीमान् हो। नववें चन्द्रमा शुक्रसे युक्त हो तो कुलटा स्त्रीका पति हो और सौतेली माताका प्रिय हो। नववें चन्द्रमा शनिसे युक्त हो तो जातक निन्दित गुणोंसे युत हो और उसकी माता कुलसे बाहर हो जाय ॥ ७५ ॥ शास्त्री भोगसुखी कुजे बुधयुते सेज्ये धनी पूजितः शुक्रेण द्विवधूपतिः सहकुजे वादी विदेशं गतः । भौमे भानुसुतान्विते नवमगे पापी परस्त्रीरतः सौम्ये सामरवन्दिते पटुमतिर्विद्वान् धनी पण्डितः ॥ ७६ ॥ ३८ जा०