भारतकोश
संग्रह पर लौटें

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

सप्तमाष्टमनवमभावफलाध्यायः ।।१४।। ४४५ भानौ सेन्दुसुते सपत्नबहुलो दुःखी रुगार्तः सदा वागीशेन युते पितृप्रियकरो जातः स्वयं वित्तवान् । रोगी शुक्रयुते रवौ शनियुते रुग्णः पिता कुक्षिरुक् चन्द्रे सावनिनन्दने तु जननीहन्ता धनत्यागवान् ॥ ७४ ॥ भानविति । (सू. बु.)-सेन्दुसुते = इन्दुसुतेन (बुधेन) सहिते, भानौ=सूर्ये भाग्ये गतवति जातः सपत्नबहुलः = शत्रुबहुलः = अनेकरिपुव्याप्तः, दुःखी, सदा रुगार्तः = व्याधिपीडितश्च भवेत् । (.सू. वृ.) - वागीशेन = गुरुणा युते नवमस्थे भानौ जातः पितृप्रियकरः = स्वज- नकामोदकृत्, स्वयं वित्तवान् = धनी च भवेत् । ( सू. शु.) - शुक्रयुते रवौ भाग्ये सति रोगी स्यात् । (सू. श.) शनियुते रवौ भाग्ये जातो रुगणः = व्याधिमान्, तस्य पिता च कुक्षिरुक्= उदरामययुग् भवेत् । (चं. मं.) चन्द्रे सावनिनन्दने=भौमेन सहिते चन्द्रे भाग्यगते तु जातो जननीहन्ता= मातृवधकृत्, धनत्यागवाँश्च भवेदिति ॥ ७४ ॥ सूर्य और बुध ९ वें भावमें हों तो जातकके बहुत शत्रु हों। स्वयं सदा दुःखी और रोगसे पीड़ित रहे। सूर्य गुरुके साथ ९ वेंमें हो तो जातक पिताका आज्ञाकारी और धनी होवे। सूर्य शुक्रके साथ हो तो जातक रोगी हो। शनिसे युक्त हो तो जातक रोगी हो और उसका पिता उदरव्याधिसे युक्त हो। यदि मङ्गल और चन्द्रमा ९ वें भावमें हो तो जातक माताका नाश करे और धनका भी त्याग करे ॥ ७४ ॥ वाग्मी शास्त्रकलापवान् नवमगे चन्द्रे सतारासुते सेन्दौ मन्त्रिणि धीरधीर्नरवरः श्रीमान् गुरुस्थानगे । तारेशे कुलटापतिः सभृगुजे सापत्लमातृप्रिय- श्चन्द्रे मन्दयुते विधर्मगुणवान् माता कुलप्रच्युता ॥ ७५ ॥ वाग्मीति । (चं० बु०) - सतारासुते = तारासुतेन (बुधेन) सहिते चन्द्रे नवमगे सति जातो नरः वाग्मी = वाक्चतुरः, शास्त्रकलापवान् = विविधशास्त्रज्ञो भवेत् । (चं० वृ०) सेन्दौ = चन्द्रयुक्ते, मन्त्रिणि=गुरौ, गुरुस्थानगे=नवमगे, जातः श्रीमान्, धीरधीः = प्रशस्तबुद्धिः, नरवरः = पुरुषश्रेष्ठश्च भवेदिति । (चं० शु०) -सभृगुजे शुक्रेण सहिते, तारेशे = चन्द्रे नवमगे जातः, कुलटापतिः = पुंश्चलीस्त्रीस्वामी, सापत्लमातृप्रियः = विमातुः स्नेहकृच्च भवेत् । (चं० श०)-मन्दयुते = शनिसहिते चन्द्रे भाग्यगते जातो विधर्मगुणवान् भवेत्, तस्य माता च कुलप्रच्युता = कुलाद् बहिष्कृता भवेदिति ॥ ७५ ॥ यदि चन्द्रमा बुधके साथ नववें भावमें हो तो जातक बोलनेमें चतुर और अनेक शास्त्रों का ज्ञाता हो। चन्द्रमा और गुरु नववें हों तो जातक धीर बुद्धि, पुरुषश्रेष्ठ और श्रीमान् हो। नववें चन्द्रमा शुक्रसे युक्त हो तो कुलटा स्त्रीका पति हो और सौतेली माताका प्रिय हो। नववें चन्द्रमा शनिसे युक्त हो तो जातक निन्दित गुणोंसे युत हो और उसकी माता कुलसे बाहर हो जाय ॥ ७५ ॥ शास्त्री भोगसुखी कुजे बुधयुते सेज्ये धनी पूजितः शुक्रेण द्विवधूपतिः सहकुजे वादी विदेशं गतः । भौमे भानुसुतान्विते नवमगे पापी परस्त्रीरतः सौम्ये सामरवन्दिते पटुमतिर्विद्वान् धनी पण्डितः ॥ ७६ ॥ ३८ जा०

४४६ सटीकजातकपारिजाते- शास्त्रीति । (मं० बु०)—बुधयुते, कुजे = मङ्गले नवमगे जातः शास्त्री = शास्त्राध्यय- नाध्यापनकृद्भवेत् । (मं० वृ०)—शेज्ये = इज्येन (गुरुणा) सहिते कुजे नवमगे जातो धनी, लोकैः पूजितः = मान्यश्च भवेत् । (मं० शु०)—शुक्रेण सह कुजे नवमगे जातो द्विवधूपतिः = द्विदारः, वाग्मी, विदेशं गतश्च भवेत् । (मं० श०)—भानुसुतान्विते = शनिसंयुक्ते भौमे नवमगे जातो हि पापी, परस्त्री- रतश्च भवेत् । (बु० वृ०)—सामरवन्दिते = अमरवन्दितेन (गुरुणा) सहिते, सौम्ये = बुधे नव- मगे सति जातः पटुमतिः = चतुरबुद्धिः, विद्वान्, धनी, पण्डितः = सदसद्वस्तुविवेकबुद्धि- शाली च भवेदिति ॥ ७६ ॥ बुधसे युक्त नवमेंमें मंगल हो तो जातक शास्त्र जाननेवाला हो, और भोगी तथा सुखी हो । मंगल बृहस्पतिसे युक्त नवमेंमें हो तो धनवान् और पूज्य होता है । मंगल शुक्रसे युक्त नवमेंमें हो तो दो स्त्रियोंका पति, विवादी और विदेश वासी हो । नववें भावमें मङ्गल शनिसे युक्त हो तो जातक पापी, पराई स्त्रीगामी हो । नवममें बुध गुरुके सहित हो तो चतुरबुद्धि, विद्वान् धनी और ज्ञानी होवे ॥ ७६ ॥ प्राज्ञो गीतरतिप्रियः सभृगुजे चन्द्रात्मजे पण्डितः सौम्ये मन्दयुते तु रोगितनुको वित्ताधिकोऽसत्यवाक् । जीवे शुक्रयुते चिरायुरधिकश्रीमान् समन्दे गुरौ रोगी रत्नधनः सितेऽसितयुते भूपालतुल्यो भवेत् ॥ ७७ ॥ प्राज्ञ इति । (बु. शु.)—सभृगुजे = शुक्रेण सहिते, चन्द्रात्मजे = बुधे भाग्य-(नवम) स्थानगते जातः पण्डितः स्यात् । (बु. श.)—मन्दयुते, सौम्ये = बुधे नवमगे तु जातो रोगितनुकः = रुग्णशरीरः, वित्ताधिकः = धनी, असत्यवाक् = मिथ्यावादी च भवेत् । (वृ. शु.)—शुक्रयुते जीवे = गुरौ नवमगते जातः, चिरायुः = दीर्घजीवी, अधिक- श्रीमान् = बहुलधनश्च स्यात् । (वृ. श.)—समन्दे गुरौ नवमगते जातो रोगी, रत्नधनश्च भवेत् । (शु. श.)—सिते = शुक्रे, असितेन = शनिना युते नवमगते सति जातो भूपालतुल्यो भवेज् तु भूपाल इति ॥ ७७ ॥ नववें भावमें बुध शुक्रसे युक्त हो तो जातक बुद्धिमान्, गीतरति प्रिय और पण्डित हो । बुध शनिसे युत नवमें भावमें हो तो रोगी, अधिक धनवान् और मिथ्यावादी हो । नववें में बृहस्पति शुक्रसे युक्त हो तो चिरायु और विशेष श्रीमान् हो । नवममें शनिके साथ गुरु हो तो रोगी तथा रत्नका धनी हो । नववेंमें शुक्र शनिसे युक्त हो तो राजाके सदृश हो ॥७७॥ अथ नवमे त्रिग्रहयोगफलानि । इतः प्रभृति ८६ श्लोकान्तं नवमे भावे त्रिग्रहयोगफलान्युच्यन्ते— रवीन्दुभौमा नवमोपयाता यदि क्षताङ्गः पितृमातृहीनः । हिंसी विकर्मा रविचन्द्रसौम्या रवीन्दुजीवाः सुखवाहनाढ्यः ॥ ७८ ॥ रवीन्दुभौमा इति । (सू. चं. मं.)—सूर्य-चन्द्र-कुजाः यदि नवमोपयाताः स्युः तदा जातः, क्षताङ्गः = रुग्णशरीरः, पितृमातृहीनश्च भवेत् । (सू. चं. बु.)—रविचन्द्रसौम्याः = सूर्यचन्द्रबुधा नवमगाश्चेत्तदा जातो हिंसी = हिंसाकर्मकृत्, विकर्मा = स्वकुलाचारकर्मरहितश्च भवेत् ।

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४५७ (सू. चं. बृ.)—रवीन्दुजीवा यदि नवमे स्युस्तदा जातः सुखवाहन व्यो भवेदिति ॥७८॥ यदि नवममें सूर्य चन्द्र और मंगल हों तो जातकके शरीरमें क्षत ( घाव ) हो और वह माता पितासे हीन हो। नवममें रवि, चन्द्र और बुध हों तो हिंसा कर्म करनेवाला, कुला- चार हीन हो। नवममें रवि, चन्द्र और गुरु हों तो जातक सुख और वाहनसे पूर्ण हो ॥७८॥ चन्द्राकौ ससितौ वधूकलहकृद् राजप्रियो वित्तहा भाग्यस्थौ रविशीतगू शनियुतौ भृत्यो विरोधी सताम् । रव्यारौ सबुधौ तु तत्र सुभगः क्रुद्धो विवादप्रियः सेज्यौ देवपितृप्रियः सुतवधूवित्तान्वितो जायते ॥ ७६ ॥ चन्द्राकाविति ( सू. चं. शु. )—ससितौ = शुक्रेण सहितौ चन्द्राकौ भाग्यस्थौ स्यातां तदा जातो नरो वधूकलहकृत = स्त्रीभिः सह झकटकरः, राजप्रियः, वित्तहा=धनक्षयकरश्च भवेत्। ( सू. चं. श. )—शनियुतौ रविशीतगू भाग्यस्थौ स्यातां तदा जातः भृत्यः = परेषां सेवकः, सतां = सज्जनानां विरोधी च भवेत् । ( सू. मं. बु. )—सबुधौ = बुधेन सहितौ रव्यारौ = सूर्यभौमौ, तत्र = भाग्ये भवेतां तदा जातः सुभगः = दर्शनीयशरीरः, क्रुद्धः, विवादप्रियश्च भवेत् । ( सू. मं. बृ. )—सेज्यौ = गुरुणा सहितौ सूर्यभौमौ भाग्यगतौ स्यातां तदा जातः देवपितृप्रियः, सुतवधूवित्तान्वितः = स्त्रीपुत्रधनैः सङ्कुलश्च भवेदिति ॥ ७९ ॥ यदि ९ वें भावमें सूर्य, चन्द्रमा और शुक्र होवें तो जातक स्त्रीसे झगड़नेवाला, राजा- का स्नेही और धननाश करनेवाला होता है । सूर्य, चन्द्रमा और शनि ९ वेंमें होवें तो जातक दूसरेका नौकर और भले आदमियों का विरोधी होता है । सूर्य, मंगल और बुध नवमें भावमें होवें तो जातक देखनेमें .सुन्दर, क्रोधी और विवा- दप्रिय होता है । सूर्य, मङ्गल और गुरु ९ वें में हों तो देवता और पितरोंके प्रिय, पुत्र, स्त्री और धनोंसे पूर्ण होता है ॥ ७९ ॥ सूर्यारौ ससितौ विवादनिरतः कोपी वधूदूपक- च्छायासूनुयुतौ विबन्धुरधनो साधुः पितुर्मारकः । धर्मस्थौ रविचन्द्रजौ गुरुयुतौ राजप्रियो वित्तवान् साच्छौ राजसमः समानुतनयौ पापी परस्त्रीपतिः ॥ ८० ॥ सूर्याराविति । ( सू० मं० शु० )—ससितौ = शुक्रेण सहितौ सूर्यारौ = रविमङ्गलौ भाग्यगतौ स्यातां तदा जातो विवादनिरतः, कोपी, वधूदूपकश्च भवेत् । ( सू० मं० श० )—छायासूनुयुतौ = शनिना सहितौ सूर्यभौमौ भाग्यगतौ तदा जातो विबन्धुः = बन्धुरहितः, अधनः = दरिद्रः, साधुः = सज्जनः, पितुर्मारकः ( तस्मिञ्जात एव तस्य पिता म्रियेत इत्यर्थः ) भवेत् । ( सू० बु० बृ० )—गुरुयुतौ रविचन्द्रजौ ( रविबुधगुरवः ) धर्मस्थौ भवेतां तदा जातो राजप्रियो वित्तवांश्च भवेत् । ( सू० बु० शु० )—साच्छौ = शुक्रेण सहितौ सूर्यबुधौ धर्मगतौ तदा जातो राजसमः= नृपतुल्यो भवेत् । ( सू० बु० श० )—सभानुतनयौ = शनिना सहितौ सूर्यबुधौ नवमे भवेतां तदा जातो हि पापी, परस्त्रीरतश्च स्यादिति ॥ ८० ॥ यदि सूर्य, मङ्गल और शुक्र ९ वें भावमें होंवें तो जातक विवादमें निरत क्रोधी, स्त्रियोंसे 30 झगड़ने वाला हो ।

४४८ सटीकजातकपारिजाते- सूर्य, मङ्गल और शनि ९ वेंमें होवें तो बन्धुहीन, साधु और पितृहीन हो । सूर्य, बुध और गुरु ९ वेंमें हों तो जातक राजाका स्नेही और धनी हो । सूर्य, बुध और शुक्र ९ वें में हों तो राजाके समान हो । सूर्य, बुध और शनि हों तो पापी और परस्त्रीगामी हो । सू० शा० कार ॥ ८० ॥ जीवाकौ सितसंयुक्तौ परवधूसक्तो धनी पण्डितः । सार्की जीवदिवाकरौ यदि विटस्वामी तपःस्थानगौ ॥ आदित्यासितभार्गवा नवमगा हीनो नृपैर्दण्डितो बाल्ये तप्तमनाः सुखी च परतश्चन्द्रारशीतांशुजाः ॥ ८१ ॥ जीवाकविति । ( सू० बृ० शु० ) – जीवाकौ = गुरुसूर्यौ, सितेन = शुक्रेण संयुक्तौ नव- मगती स्यातां तदा जातः परवधूसक्तः = अन्यदाररतः, धनी पण्डितश्च भवेत् । ( सू० बृ० श० )—सार्की = शनिना सहितौ जीवदिवाकरौ = गुरुसूर्यौ, तपःस्थानगौ = नवमभावगतौ स्यातां तदा जातो विटस्वामी = विटानां ( धूर्तानां ) स्वामी = धूर्तराड् भवेदिति । ( सू० शु० श० ) - आदित्यासितभार्गवाः = सूर्यशुक्रशनैश्चराः नवमगा भवेयुस्तदा जातो हीनो गुणादिरहितो नृपैः = राजभिर्दण्डितश्च भवेत् । ( च० मं० बु० ) - चन्द्रारशीतांशुजाः = चन्द्रकुजबुधा यदि नवमगताः स्युस्तदा जातो बाल्ये = शैशवे, तप्तमनाः = दुःखितचित्तः, परतः = यौवने च सुखी भवेदिति ॥८१॥ यदि ९ वें भावमें सू० बृ० शु० हों तो जातक परस्त्रीरत, धनी और पण्डित हो। सू० बृ० श० हों तो धूर्तराज हो। सू० शु० श० नववें भावमें होवें तो जातक निर्गुण तथा राजासे दण्डित हो । चं० मं० और बुध ९ वें भावमें होवें तो जातक बाल्यावस्था में दुःखी और उसके बाद (युवा अवस्था) में सुखी होता है । देवाराधनतत्परो नवम गैश्चन्द्रारवागीश्वरै- र्जातो नष्टकलत्रवान् क्षततनुः शुक्रेन्दुभूनन्दनैः ॥ क्षुद्रो मातृहरो महीपतिसमश्चन्द्रारसूर्यात्मजै- राचार्यो धनवान् विभुश्च रजनीनाथज्ञदेवाचितैः ॥ ८२ ॥ देवेत्यादि । ( चं० मं० बृ० ) – चन्द्रारवागीश्वरैः = चन्द्रमङ्गलवृहस्पतिभिः नव- मगैः जातः देवाराधनतत्परः = देवपूजनपरायणो भवेत् । ( चं० मं० शु० ) - शुक्रेन्दुभूनन्दनैः = चन्द्र-कुज-शुक्रैः नवमगैः जातः नष्टकलत्र- वान् = मृतभार्यः, क्षततनुः = पीडितगात्रश्च भवेत् । ( चं० मं० श० ) - चन्द्रारसूर्यात्मजैः = चन्द्रकुजशनैश्चरैः नवमगैः जातः, क्षुद्रः = कृपणः, मातृहरः = जननीविनाशकः, महीपतिसमः = नृपतुल्यश्च भवेत् । ( चं० बु० बृ० ) - रजनीनाथज्ञदेवाचितैः = चन्द्रबुधगुरुभिर्नवगैः जातः आचार्यः, धनवान्, विभुश्च भवेदिति ॥ ८२ ॥ यदि चं० मं० बृ० ९ वेंमें होवें तो जातक देवताओंकी पूजामें तन्मय होता है। चं० मं० शु० ९ वेंमें हों तो स्त्रीरहित तथा रोगी होता है । चं० मं० श० ९ वें में होनेसे कृपण (कञ्जूस) और मातृहीन होता है। चं० बु० बृ० ९ वेंमें होवें तो जातक पूज्य विद्वान्, धनी और परा- क्रमी होता है ॥ ८२ ॥ मातुः सपत्नीजनको विभुः स्यात् चन्द्रज्ञशुक्रा नवमोपयाताः । पापी विवादप्रियबुद्धियुक्तो जातः सुधारश्मिबुधार्कपुत्रैः ॥ ८३ ॥ मातुरिति । ( चं० बु० शु० ) – चन्द्रज्ञशुक्रा यदि नवमोपयाता भवेयुस्तदा जातो

मातुः = स्वजनन्यः, सपत्नीजनकः = सापत्त्यकारको भवेत् , विभुः = समर्थश्च स्यात् । (चं० बु० श० )-सुधारश्मिबुधार्कपुत्राः = चन्द्रबुधशनैश्चरा यदि नवमोपगताः स्यु- स्तदा जातः पापी, विवादप्रियबुद्धियुक्तः = विवादशीलश्च भवेदिति ॥ ८३ ॥ चन्द्रमा, बुध और शुक्र नववेंमें प्राप्त हों तो अपनी माताकी सपत्नी (सौत) उत्पन्न करावे और पराक्रमी हो । चन्द्रमा, बुध और शनि नववें हों तो जातक पापी, विवादप्रिय और बुद्धियुक्त हो ॥ ८३ ॥ चन्द्रामरेज्यौ ससितौ महीपः सार्कात्मजौ सद्गुणकर्मशीलः ॥ मन्दज्ञशुक्रा नरपालतुल्यः कृषिक्रियावित्तपरो गुरुस्थाः ॥ ८४ ॥ चन्द्रामरेज्याविति । (चं० बृ० शु०)-ससितौ = शुक्रसंयुतौ, चन्द्रामरेज्यौ=चन्द्र- गुरु यदि नवमगतौ भवेतां तदा जातः महीपः = राजा भवेत् । (चं० बृ० श०)-सार्कात्मजौ = शनिना सहितौ चन्द्रगुरू नवमगौ चेत्तदा जातः सद्गुणकर्मशीलः = विहितसत्कर्मकृद्भवेत् । (बु. शु. श.)-मन्दज्ञशुक्राः = शनिबुधशुक्राः, गुरुस्थाः = नवमभावगताः स्युस्तदा जातः नरपालतुल्यः=राजसमः, कृषिक्रियावित्तपरः=कृषिकर्मणा धनोपार्जनशीलश्च भवेदिति ॥ चन्द्रमा और गुरु शुक्रके सहित नववें में हों तो राजा, शनिके साथ हों तो सद्गुण कर्मशील हो। नववेंमें शनि, बुध और शुक्र हों तो राजाके तुल्य और कृषिक्रियासे धनार्जनमें तत्पर हो ॥ ८४ ॥ राजप्रियो माण्डलिकः सजीवौ भाग्यस्थितौ भूसुतचन्द्रपुत्रौ । शाली सशुकौ चपलश्च भीरुः सभानुजौ वादपरोऽसमर्थः ॥ ८५ ॥ राजप्रिय इति । (मं. बु. बृ.)-सजीवौ = गुरुणा सहितौ भूसुतचन्द्रपुत्रौ = मङ्गल- बुधौ यदि भाग्यस्थितौ = नवमभावगतौ स्यातां तदा जातः राजप्रियः = नृपमित्रः, माण्ड- लिकः = मण्डलशासकः ( Ruler of a Province ) भवेत् । (मं. बु. शु.)-सशुक्रौ कुजबुधौ भाग्यस्थौ स्यातां तदा जातः, शाली = शास्त्रवेत्ता चपलः = चपलमत्तिः, भीरुः = भयभीतश्च भवेत् । (मं. बु. श.)-सभानुजौ = शनिना सहितौ कुजबुधौ भाग्यस्थौ स्यातां तदा जातः वादपरः = विवादशीलः, असमर्थः = सर्वत्रैव कार्ये अक्षमो भवेदिति ॥ ८५ ॥ बृहस्पतिके साथ मङ्गल और बुध भाग्य भवनमें हों तो राजाका प्रिय, प्रान्त का शासक हो। शुक्रके साथ हो तो, शास्त्रवेत्ता, चञ्चल, भीरु (डरपोक) हों । शनिसे युक्त हो तो विवादमें तत्पर और कार्योंमें असमर्थ हो ॥ ८५ ॥ ख्यातो विद्वान् धर्मवान् जीवसौम्यौ धर्मस्थाने दानवाचार्ययुक्तौ । विद्यावाग्मी सासितौ धर्मयातौ राजश्रीमान् जीवशुक्रज्ञचन्द्राः ॥ ८६ ॥ ख्यात इति । (बु. बृ. शु.)-जीवसौम्यौ = गुरुबुधौ, दानवाचार्येण = शुक्रेण युक्तौ धर्मस्थाने = नवमे भावे भवेतां तदा जातः ख्यातः = अतिप्रसिद्धः, विद्वान्, धर्मवांश्च भवेत् । (बु. बृ. श.)-सासितौ = शनैश्चरेण सहितौ गुरुबुधौ नवमगौ स्यातां तदा विद्या- वाग्मी = विविधविद्यासु चतुरो भवेत् । अथ नवमे भावे केषाञ्चित् चतुर्ग्रहाणां योगफलमाह - राजश्रीमानिति । (चं. बु. बृ. शु.)-जीवशुक्रज्ञचन्द्रा यदि नवमभावमुपगताः स्युस्तदा बातः राज- श्रीमान् = राजलक्ष्मीयुतो भवेदिति ॥ ८६ ॥ धर्मस्थानमें शुक्रसे युक्त बृहस्पति और बुध हों तो नामी, विद्वान् और धर्मवान् हो ।

४५० सटीकजातकपारिजाते- शनिके साथ नववेंमें वे ही हों तो विद्या पढ़नेवाला खूब वक्ता हो । गुरु, शुक्र, बुध और चन्द्रमा ९ वें भावमें हों तो श्रीमान् राजा हो ॥ ८६ ॥ जातः साहसविक्रमार्जितधनः सूर्यारजीवार्कजैः शूरः सर्वगुणप्रपञ्चरसिकः शुक्रारजीवेन्दुभिः । षट्पञ्चत्रिचतुर्विद्यच्चरयुते भाग्ये समेति श्रियं राजत्वं सबुधे विबोधनगुरौ जातः समेत्यश्रियम् ॥ ८७ ॥ जात इति । ( सू. मं. वृ. श. ) - सूर्यारजीवार्कजैः = सूर्य-मङ्गल-बृहस्पति-शनैश्चरैः भाग्ये = नवमे भावे गतैः जातः साहसविक्रमार्जितधनः = उद्योगेन, पराक्रमेण चोपार्जित धनयुक्तः भवेत् । ( चं. मं. वृ. शु. ) - शुक्रारजीवेन्दुभिः = शुक्रमङ्गलबृहस्पतिचन्द्रैः भाग्ये स्थितैः जातः शूरः = सङ्ग्रामप्रियः, सर्वगुणप्रपञ्चरसिकः = विविधगुणविलासी च भवेत् । अथ सामान्यतो नवमे भावे त्र्यादिग्रहयोगफलमाह - षडित्यादि । भाग्ये = नवमे भावे षट्-पञ्च-त्रि-चतुर्विद्यच्चरैर्युते जातः, श्रियं = विविधसम्पत्तिं, समेति = प्राप्नोति । सबुधे = बुधयुक्ते त्र्यादिग्रहे भाग्ये गते राजत्व समेति । अथ च तस्मिंस्त्र्यादिग्रहे विबोधन- गुरौ = विगतो बोधनो गुरुश्च यस्मात्तस्मिन् (बुध-गुरु-रहिते) भाग्ये गतवति अश्रियम् = अनैश्वर्यं समेति । बुधे गुरौ वा भाग्ये गतवति भाग्यवान् भवतीति भावः । तत्रापि भाग्ये त्र्यादिग्रहयोगे बुधे गुरौ च गतवति विशेषादिति चिन्त्यम् ॥ ८७ ॥ नवें में सूर्य, मंगल, बृहस्पति और शनि हों तो जातक साहस और पराक्रमसे धन उत्पन्न करे । शुक्र, मंगल, बृहस्पति और चन्द्रमा हों तो वीर और सर्वगुणप्रपञ्चका रसिक हो। छः, पांच, तीन या चार ग्रहसे युक्त भाग्य स्थान हो तो जातक लक्ष्मी प्राप्त करे । बुधके साथ वे ग्रह नववें हों तो राज प्राप्त हो । यदि वे ग्रह बुध या गुरुसे रहित होकर ९ वें हों तो भाग्यहीन होवे ॥ ८७ ॥ जनयन्ति भाग्यसंस्था गुरुसौम्यविवर्जिता ग्रहाः पुरुषम् । व्याधिप्रायमकान्तं जनहीनं बन्धनातंमतिदीनम् ॥ ८८ ॥ जनयन्तीति । गुरुसौम्याभ्यां = बृहस्पतिबुधाभ्यां विवर्जिताः = रहिताः ग्रहास्त्रिप्रभृ- तयः, भाग्यसंस्थाः = नवममुपगताः, व्याधिप्रायं = विविधरोगक्रान्तम, अक्रान्तं = कुरूपं, जन- हीनं = परिवारादिरहितं, बन्धनातं = कारागारादिभाजम्, अतिदीनं च पुरुषं जनयन्ति = उत्पादयन्ति । अत्रेदमयुक्तं भवति । नवमे भावे बुधगुरुरहिता त्र्यादयो ग्रहा न भाग्यका- रका भवन्ति । किन्तु यदि केचित् त्र्यादयो ग्रहाः सबुधाः सजीवा वा भवेयुस्तदा ते भाग्य- वन्तमेव जातं कुर्वन्तीति ॥ ८८ ॥ बृहस्पति और बुधके अतिरिक्त ग्रह भाग्य स्थानमें हों तो पुरुषको प्रायः व्याधि होती है, जनसे हीन होता है, तेज हीन, बन्धनातं और अत्यन्त दीन होता है ॥ ८८ ॥ भाग्याधिपे विनाशास्थे नीचशत्रुखगेक्षिते । क्रूरांशे नीचराश्यादौ भाग्यहीनो भवेन्नरः ॥ ८९ ॥ भाग्याधिप इति । भाग्याधिपे = नवमभावेशे, विनाशास्थे = अष्टमभावमुपगते तस्मिन् नीचगतग्रहेण स्वशत्रुग्रहेण वा दृष्टे क्रूरांशे = पापग्रहनवांशे, वा नीचराश्यादौ = स्वनिच- राशौ स्वनिच-नवांशे वा विद्यमाने भाग्येशे जातो नरः भाग्यहीनः भवेदिति ॥ ८९ ॥ भाग्याधीश अष्टममें हो उसे नीच गत या शत्रु ग्रह देखता हो, वह क्रूरांश या नीच राशि आदिमें हो तो भाग्यसे हीन मनुष्य होता है ॥ ८९ ॥

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४५१ भाग्याधिपे शुभयुते शुभग्रहे निरीक्षिते । तद्भावे शुभसम्बन्धे तत्कीर्तिधनभाग्यवान् ॥ ६० ॥ भाग्याधिप इति । भाग्याधिपे = नवमभावेशे शुभयुते = केनचिच्छुभग्रहेण सहिते शुभ- ग्रहेण निरीक्षिते च तद्भावे शुभसम्बन्धे = शुभग्रहस्य सम्बन्धे ( नवमो भावः शुभग्रहराशिः, वा शुभदृष्टः, वा शुभयुक्तो भवेदित्यर्थः ) सति जातः सत्कीर्तिधनभाग्यवान् भवेदिति ॥६०॥ नवमेश शुभयुक्त हो, शुभग्रहसे देखा जाता हो, उस भावमें शुभग्रहका सम्बन्ध हो तो कीर्त्तिमान् , धनवान् और भाग्यवान् होवे ॥ ६० ॥ सिंहासनांशे तन्नाथे लग्नेशेन निरीक्षिते । कर्माधिपेन संदृष्टे महादानकरो भवेत् ॥ ६१ ॥ जातः पुरोहितो वाऽपि ब्रह्मवंशसमुद्भवः । दानाध्यक्षोपकारी स्याद् वर्णभेदविकल्पना ॥ ६

४५२ सटीकजातकपारिजाते- नववें स्थानमें शुभग्रह गुरुके वर्गमें हो, नवमेश गुरुके नवांशमें हो तो गुरु भक्तिमें रत तथा सुखी हो । गुरु, शुक्र या बुधके अंशमें नवमेशको शुभग्रह देखते हों वा शुभग्रहोंके बीचमें हो तो वह मनुष्य धर्म करनेवाला होवे ॥ ९४-९५ ॥ धर्मे पापे पापभाक् स्यात् तदीशे पापसंयुते । क्रूरषष्ट्यंशके वाऽपि धर्महीनो भवेन्नरः ॥ ९६ ॥ धर्मे पाप इति । कस्मिंश्चित पापग्रहे धर्मे = नवमभावे गतवति जातो नरः पापभाक् = पापी भवति । तदीशे = नवमभावेशे पापसंयुते = केनापि पापेन सहिते, अपि वा क्रूरषष्ट्यं- शके गतवति सति नरो धर्महीनः = पापकर्मा भवेदिति ॥ ९६ ॥ नववेंमें पापग्रह हो तो पापी हो । धर्मेश पापग्रहसे युक्त हो वा क्रूर षष्ट्यंशमें हो तो धर्मसे हीन हो ॥ ९६ ॥ बलवति शुभनाथे केन्द्रकोणोपयाते शुभशतमु

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४५३ जातस्य पुत्रोत्पत्तिर्न भवतीत्यर्थः । अथ यदि तौ नभोगौ = ग्रहौ ( तातेशत्तत्कारकखे- चरौ ) केन्द्रत्रिकोणे ( १।४।७।१०।५।९ ) भवेतां तदा तयोः = दम्पत्योः पुत्रमुखं, हि=नि- श्चयेन दृश्यं भवेदिति ॥ ९९ ॥ नवमेश और पितृ कारक ग्रह उन दोनोंके दुष्ट स्थानमें होनेसे पुत्रका सुख नहीं देखे । यदि वे दोनों ग्रह केन्द्र, कोणमें हों तो पुत्रका सुख देखे ॥ ९६ ॥ इदानीं जातस्य पितुर्मरणं दिने रात्रौ वा स्यादित्याह— पितुर्निशायां मरणं सुखेशशुकेन्दवः षष्ठगता वलाढ्याः ॥ सारीश्वरास्तन्मरणं तथैव चन्द्रेण हीनास्तु दिवा मृतिः स्यात् ॥ १०० ॥ पितुरिति । सुखेशशुकेन्दवः = चतुर्थेश-शुक्र-चन्द्राः बलाढ्याः सन्तो यदि षष्ठगताः लग्नात् षष्ठभावे व्यवस्थिताः स्युस्तदा पितुः मरणं, निशायां = रात्रौ वक्तव्यम् । अथ त- एव त्रयो ग्रहाः ( सुखेशशुकेन्दवः ) सारीश्वराः = षष्ठेशेन सहिताः, चन्द्रेण हीनाश्च भवेयुः, अर्थात् चतुर्थेश षष्ठेश-शुक्रास्तथैव ( बलाढयाः षष्ठगताश्च भवेयुस्तदा तु पितुः दिवा = दिन एव, मृतिः = मरणं स्यादिति ॥ १०० ॥ चतुर्थेश, शुक्र और चन्द्रमा ६ ठे स्थानमें हों तो रात्रिमें पिताकी मृत्यु हो । यदि वहां चन्द्रमा न हो और षष्ठेशसे युक्त हो-तो दिनमें पिताकी मृत्यु होवे ॥ १०० ॥ सौम्ये चराद्यभागस्थे भाग्येशे बलसंयुते ॥ गुरुशुक्रयुते दृष्टे जपध्यानसमाधिमान् ॥ १०१ ॥ सौम्य इति । सौम्ये = शुभे ( बुध इत्यर्थः ) भाग्येशे = नवमभावपतौ बलसंयुते सति चराद्यभागस्थे = चरराशिप्रथमनवांशमुपगते तस्मिन् गुरुशुक्रयुते, वा गुरुशुक्रदृष्टे जातो जप- ध्यानसमाधिमान् भवेत् । तुलामकरान्यतरलग्ने सङ्गच्छतेऽयं योगः ॥ १०१ ॥ शुभग्रह नवमेश बलवान् होकर चरराशिके प्रथम नवांशमें हो गुरु और शुक्रसे युत दृष्ट हो तो जप-ध्यान-समाधि वाला होवे ॥ १०१ ॥ देवलोकादिभागस्थे कर्मेशे भाग्यपेऽपि वा । पारावतांशके सौम्ये ब्रह्मनिष्ठापरो भवेत् ॥ १०२ ॥ देवलोकादिभागस्थ इति । कर्मेशे = दशमभावपतौ, अपि वा भाग्यपे = नवमेशे, देव- लोकादिभागस्थे ( १ अ० ४५-४७ श्लो० द्र० ) सौम्ये=कस्मिंश्चिच्छुभग्रहे पारावतांशके गतवति जातो ब्रह्मनिष्ठापरः = ब्रह्मज्ञानी भवेत् ॥ १०२ ॥ कर्मेश या शुभ भाग्येश अपने देवलोकादि भागमें हो, वा पारावतांशमें हो तो ब्रह्मनि- ष्ठामें जातक तत्पर हो ॥ १०२ ॥ पारावतादिभागस्थे धर्मेशे गुरुसंयुते । लग्नेशे गुरुसन्दृष्टे महादानकरो भवेत् ॥ १०३ ॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते चतुर्दशोऽध्यायः ॥१४॥ पारावतादिभागस्थ इति । धर्मेशे=नवमभावपतौ गुरुणा संयुते तथा स्वपारावतादि- भागे गतवति, लग्नेशे च गुरुसंदृष्टे सति जातो महादानकरो भवेदिति ॥ १०३ ॥ पारिजाते सुधा टीका कपिलेश्वररचिता । अध्याये शक्रतुल्ये- ( १४ ) ऽस्मिन् पूर्त्ति भावफले गता ॥ १४ ॥ धर्मेश बृहस्पतिसे युक्त पारावतादि भागमें हो लग्नेश गुरुसे देखा जाता हो तो जातक महादानी होता है ॥ १०३ ॥ इति जातकपारिजाते चतुर्दशे भावफलाध्याये 'विमला' हिन्दी टीका समाप्ता ॥ १४ ॥

अथ दशमैकादशद्वादशभावफलाध्यायः ॥ १६ ॥ तत्र दशमभावफलम् । अथाधुना षोडशाध्यायो व्याख्यायते । अस्मिन्नध्याये कर्मायव्ययभावानां फलानि निर्दिशानि । तत्र प्रथमं दशमभावफलं विवक्षुर्दशमभावे विचारणीयविषयानाह— आज्ञामानविभूषणानि वसनव्यापारनिद्राकृषि- प्रव्रज्यागमकर्मजीवनयशोविज्ञानविद्याः क्रमात् । कर्मस्वामिदिनेशबोधनगुरुच्छायासुतैश्चिन्तये- दुक्तानि प्रविहाय पूर्वमशुभे मानी विमानो भवेत् ॥ १ ॥ आज्ञेति । आज्ञा, मानम्, विभूषणानि, वसनम्, व्यापारः, निद्रा, कृषिः, प्रव्रज्या, आगमः, कर्म, जीवनम्, यशो विज्ञानम्, विद्या इत्येतान् विषयान्, कर्मस्वामिदिनेशबो- धनगुरुच्छायासुतैः = दशमेश-सूर्य-बुध-बृहस्पति-शनैश्चरैः, क्रमात्, पूर्वम् = इतः प्रथमम्, उक्तानि, प्रविहाय = त्यक्त्वा, सञ्चिन्तयेत् = विचारयेत् । अत्र क्रमादित्यनेन कर्मस्वामिदि- नेशबोधनगुरुच्छायासुतैरित्यत्र पूर्वपूर्वस्याभावे उत्तरोत्तरो ग्राह्य इत्यर्थः । अशुभे, माने = दशमे भावे अशुभे पापक्रान्ते, पापदृष्टे च जातो नरः, विमानः = मानरहितः = अप्रतिष्ठः लोकैरनादृतश्च भवेदिति ॥ १ ॥ आज्ञा (हुकूमत), मान, भूषण, वस्त्र, व्यापार, निद्रा, कृषि, प्रव्रज्या, आगम, कर्म, जीवन, यश, विज्ञान और विद्या इन सबका विचार दशमेश, सूर्य, बुध, गुरु और शनिसे क्रमसे करे । १० वें भावमें अशुभ ग्रह हो तो मान-रहित हो ॥ १ ॥ अथ कर्मविचारः । कर्मेशे बलवर्जिते चपलधीर्जातो दुराचारवान् जीवज्ञासितभानवो विबलिनो दुःस्था विकर्मप्रदाः । गङ्गास्नानफलं समेति दशमे राहौ दिनेशेऽथवा मीने कर्मणि चन्द्रजारसहिते जातः स मुक्तो भवेत् ॥ २ ॥ कर्मेश इति । कर्मेशे = दशमभावेशे, बलवर्जिते = निर्बले सति जातो नरः परः चपलधीः = अव्यवस्थितबुद्धिः, दुराचारवान् = कुत्सितकर्मकृच्च भवेत् । जीवज्ञासितभानवः = गुरु-बुध- शनि-सूर्याः विबलिनो भूत्वा यदि दुःस्थाः = दुःस्थान (६।८।१२) गताः स्युस्तदा जातस्य विकर्मप्रदाः भवेयुः । अस्मिन् योगे जातः गर्हितकर्मा भवेदिति भावः । राहौ वा दिनेशे = सूर्ये दशमे सति जातो नरो गङ्गास्नानफलं, समेति = प्राप्नोति । कर्मणि = दशमे भावे, मीने = मीनराशौ सति तस्मिन् चन्द्रजारसहिते = बुधभौमाभ्यां संयुक्ते च स जातो नरः मुक्तः = निर्धूततापः = जीवन्मुक्तो भवेदिति ॥ २ ॥ कर्मेश (दशमेश) निर्बल हो तो जातक चञ्चल बुद्धि और दुराचारी हो । बृहस्पति, बुध, शनि और सूर्य बलरहित और दुष्टस्थानमें हों तो जातक सत्कर्महीन हो । दशवेंमें राहु वा सूर्य हो तो गङ्गास्नानका फल देता है । मीन राशि दशवेंमें हो वह बुध और मङ्गलसे युक्त हो तो जातक मुक्त हो ॥ २ ॥ मानेश्वरे शुक्रयुते च केन्द्रे तुङ्गस्थिते तादृशतोयपूतः । व्यये बुधे तद्भुवनाधिपे वा स्वोच्चान्विते तादृशपुण्यभाक् स्यात् ॥ ३ ॥ मानेश्वर इति । शुक्रेण युते, मानेश्वरे = दशमभावपतौ केन्द्रे, वा तुङ्गस्थिते = उच्चगते- सति जातः तादृशतोयपूतः = गङ्गाजले निर्मलीकृतकायो भवेत् । व्यय इति । तद्भुवनाधिपे

दशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४५५ दशमभावेशे बुधे, व्यये = द्वादशे वा स्वोच्चान्विते = स्वकीयोच्चराशि गते सति जातः तादृश- पुण्यभाक् = कथितपुण्ययुक्तः ( जातः स मुक्तो भवेदिति ) स्यादिति ॥ ३ ॥ दशमेश शुक्रसे युक्त केन्द्रमें बैठा हो । द्वादशमें बुध हो, वा द्वादशका स्वामी वहां हो, उच्चराशिका हो तो उसीके सदृश पुण्यका भागी हो ॥ ३ ॥ चन्द्रे कर्मणि जाह्नवीसलिलतः पूतो हि पूतद्युतौ पापो यच्छति कर्मगो विबलवान् द्यूतक्रियासाहसम् । सौम्या दुर्बलशालिनो दशमगाः सत्कर्मविध्वंसकाः कर्मेशाज्ञसुरार्चितैः क्रतुफलं सञ्चिन्त्य सम्यग्वदेत् ॥ ४ ॥ चन्द्र इति । पूतद्युतौ = विमलकिरणौ = परिपूर्णबिम्बे चन्द्रे कर्मणि = दशमभावे विल- सति सति जातो नरो हि = निश्चयेन जाह्नवीसलिलतः = गङ्गाजलतः, पूतः = विधूतपापः भवेत् । पाप इति । कर्मगः = दशमभावगतः विबलवान् = दुर्बलः पापः द्यूतक्रियासाहसम् = अक्ष-( जूआ ) क्रीडोत्कर्षं यच्छति = करोतीति । सौम्या इति । दुर्बलशालिनः = निर्बलाः, सौम्याः = शुभग्रहाः, दशमगाश्चेद्भवेयुस्तदा सत्कर्मविध्वंसकाः = तीर्थस्नानदेवयज्ञव्रतादीनां विनाशकाः भवेयुः । कर्मेशाज्ञसुरार्चितैः = कर्म-( दशम ) ईश-बुध-गुरुभिः, कर्मगैः ( दशमगैः ) ऋतुफलं = यज्ञफलं लभेत् । इति सम्यक् सञ्चिन्त्य = विविच्य, ग्रहसंस्थिति- वशात् सर्वं वदेत् ॥ ४ ॥ पूर्ण चन्द्रमा दशवें भावमें हो तो जातक गङ्गाजलसे पवित्र हो । बलरहित पापग्रह दशवें में हो तो जुवा काममें साहसी हो । निर्बल शुभग्रह दशवें स्थानमें हो तो सत्कर्म का संहार कारक हो । दशमेश, बुध तथा बृहस्पति दशवेंमें हों तो जातक यज्ञकर्त्ता होवे । ये सब फल अच्छे प्रकारसे विचारकर कहे ॥ ४ ॥ एकस्थौ तनुकर्मपौ यदि तयोरेकाधिपत्यं तु वा जातः स्वार्जितसद्धनेन कुरुते यज्ञादिकर्मोत्सवम् । सार्कौ शूद्रधनेन साहिशिखिनि क्षुद्रैः सजीवे नृप- स्तत्तत्कारकवित्ततो यदि युते रव्यादिभिः कर्मपे ॥ ५ ॥ एकस्थाविति । तनुकर्मपौ = लग्नेश-दशमेशौ यदि, एकस्थौ = यत्र तत्रैकत्र सङ्गतौ भवेताम्, वा तयोः = लग्नकर्मभावयोः, एकाधिपत्यम् = एकस्वामित्वं भवेत्, तदा जातः, स्वार्जितसद्धनेन = निजबाहुबलादुपार्जितेन सद्द्रव्येण यज्ञादिकर्मोत्सवं कुरुते । न खलु तस्यासन्मार्गे द्रव्यापायो भवतीति । सार्काविति । कर्मपे = दशमेशे, सार्कौ = आर्किणा ( शनिना ) सहिते सति शूद्रधनेन यज्ञादिकर्मोत्सवं कुरुते । तस्मिन्कर्मपे, साहिशिखिनि = अहिना ( राहुणा ) शिखिना ( केतुना ) वा सहिते सति, क्षुद्रैः = क्षुद्रजातिधनैः, सजीवे = जीवेन ( गुरुणा ) सहिते कर्मपे सति नृपैः = राजन्यद्रव्यैः यज्ञादि कुरुते । तत्तदिति । कर्मपे रव्यादिभिः = सूर्यप्रमुखैः ग्रहैः युते सति तत्तत्कारकवित्ततः = दशमेशसंयुक्तो रव्याद्यन्यतमो ग्रहो यस्य भावस्य जातीयस्य वा कारको भवति तदुपार्जि- तद्रव्यतो यज्ञादिकर्मोत्सवं कुरुते जातक इति । Notes-तयोरेकाधिपत्यमित्यत्र लग्नदशमभावयोरेक एवाधिपतिस्तदैव भवेत् यदि कन्या मीनो वा राशिलंग्नं स्यात् । कन्यालग्ने सति तस्माद्दशमो मिथुनराशिस्तेन लग्नदशमयोरेक एव बुधोऽधिपतिः । मीनलग्रे तस्माद्दशमो धनुराशिरतो लग्नदशमयोरेक एवाधिपो गुरुरिति ॥ ५ ॥

४५६ सटीकजातकपारिजाते- लग्नेश और दशमेश एक स्थानमें हों वा दोनों (१।१०) का एकाधिपत्य हो (कन्या और मीन लग्न होनेसे लग्नेश और दशमेश एक हो सकेगा) तो जातक स्वार्जित उत्तम धनसे यज्ञादि करे। राहु-केतुके साथ हो तो क्षुद्र जातिके धनसे और गुरुसे युक्त हो तो राजाके धनसे यज्ञादि कर्म करे। दशमेश सूर्यादि जिस ग्रहसे युक्त हो वह जिस जातिका कारक हो उस जातिके धनसे यज्ञादि होते हैं ॥ ५ ॥ बहुशुभयुजि माने वाजपेयादिसिद्धिः सितबुधयुतराशिस्वामिनौ दुर्बलाब्यौ यदि कृतसवनोऽपि प्राप्तकर्मप्रनष्टो भवति परमकमा दानवाचारशीलः ॥ ६ ॥ बह्विति । माने = दशमे भावे, बहुशुभयुजि = बहूनां शुभग्रहाणां संयोगे सति वाजपे- यादिसिद्धिः = वाजपेयप्रमुखमखपूर्तिर्भवति जातस्येति शेषः । यदि सितबुधयुवराशि- स्वामिनौ = शुक्रबुधाक्रान्तराशीशौ दुर्बलाब्यौ = निर्बलौ भवेतां तदा कृतसवनोऽपि = सम्पादिताभिषवोऽपि ("सुत्याऽभिषवः सवनं च सा" इत्यमरः) प्राप्तकर्मप्रनष्टः = दुर्दैवविपाकादुपस्थिताध्वरेऽक्षमोऽभूत्वा परमकमा = उत्कृष्टकर्मकृदपि, दानवाचारशीलः = राक्षसाचरणयुक्तो भवेदिति ॥ ६ ॥ दशममें बहुत शुभग्रह हों तो वाजपेय यज्ञ करे। यदि शुक्र तथा बुधसे युत राशिके स्वामी निर्बल हो तो यज्ञकार्य प्रारम्भ करके भी कर्म नष्ट होता है और वह परमकर्म करनेवाला भी राक्षसी स्वभाववाला होता है ॥ ६ ॥ चन्द्रात् कर्मणि शोभने बलयुते तुङ्गादिवर्गस्थिते वागीशेन युतेक्षिते नरवरो यज्वा यशस्वी भवेत् ॥ जीवज्ञासुरपूजितस्थितगृहाधीशा विनाशं गता जातः सत्फलकर्मवानपि कृतां कर्मश्रियं नाप्नुयात् ॥ ७ ॥ चन्द्रादिति । बलयुते = सबले, शोभने = बुध-शुक्रयोरन्यतरे ग्रहे तुङ्गादिवर्गस्थिते सति, चन्द्रात् = जन्मकालीनचन्द्राधिष्ठितराशितः, कर्मणि = दशमे गते तस्मिन्, वागीशेन = गुरुणा, युतेक्षिते=सहिते दृष्टे वा सति जातः, नरवरः=पुरुषेषु श्रेष्ठः, यज्वा = विधिनिष्टवान् (कृतोत्तमाध्वरः 'यज्वा तु विधिनिष्टवान्, इत्यमरः) यशस्वी = यशोधनः = लोके लब्ध- प्रतिष्ठ इति भवेत् । जीवेत्यादि । जीवः = गुरुः, ज्ञः = बुधः, असुरपूजितः = शुक्रः, एते यत्र यत्र तिष्ठन्ति तत्तद्गृहाधीशाः = राशिस्वामिनः (गुरु-बुध-शुक्राक्रान्तराशिषतयः) चेद् विनाशम् = अष्टमभावं गताः स्युस्तदा जातः सत्फलकर्मवान् = कृतसत्परिणामककर्मा अपि, कृतां = सम्पादितां, कर्मश्रियं = परिणामसम्पदां, नाप्नुयात्=न लभेत् । अस्मिन्योगे विधिना कर्माणि कृत्वाऽपि कर्मसाफल्यं न प्राप्नोतीति भावः ॥ ७ ॥ चन्द्रमासे दशवेंमें बलवान् शुभग्रह उच्चादि वर्गमें हो बृहस्पतिसे युक्त वा दृष्ट हो तो मनुष्योंमें श्रेष्ठ तथा यज्ञ करनेवाला यशस्वी हो । बृहस्पति, बुध और शुक्र जहांपर स्थित हों उनके स्वामी अष्टममें हों तो जातकको सत्कर्मवान् होने पर भी किये हुए कर्मका फल (कल्याण) प्राप्त नहीं होता है ॥ ७ ॥ कर्मेशाज्ञसुरार्चिता बलयुता यज्ञादिसत्कर्मदाः सौम्यव्योमचरेण धीक्षितयुतास्ते वाजपेयादिभाक् । जीर्णोद्धारणमुख्यगोपुरतटाकारामपुण्यप्रदा यज्वा कर्मपतौ शुभे शशियुते माने विशाहुध्वजे ॥ ८ ॥ कर्मेशेत्यादि । कर्मेशः = दशमेशः, ज्ञः = बुधः, सुरार्चितः = बृहस्पतिश्चैते यदि बल- युताः = बलशालिनः स्युस्तदा यज्ञादिसत्कर्मदा भवेयुः । ते त्रयो यदि सौम्यव्योमचरेण =

दशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४५७ शुक्रेण, पूर्णचन्द्रेण वा वीक्षिताः, युता वा भवेयुस्तदा जातः वाजपेयादिभाक् = वाजपेय- प्रभृतियज्ञकृद्भवेत् । तथा ते ग्रहास्तस्य जातस्य जीर्णोद्धारणमुख्यगोपुरतटाकारामपुण्यप्रदा भवन्ति । अर्थादसौ जातकः जीर्णोद्धारणम् = पुरातनस्य मठमन्दिरादेः संस्कारम्, मुख्य- गोपुरादेः = प्रसिद्धगोशालादेर्निर्माणम्, तटाकादेर्निर्माणम्, आरामादेः = उद्यानादेर्निर्माण- मित्यादि पुण्यकार्यं कुर्यादिति । यज्वेति । कर्मपतौ = दशमेशे, शुभे = शुभग्रहे, शशिना = चन्द्रेण युते, माने = दशमगते तस्मिन् विराहुध्वजे = राहुकेतुभ्यां रहिते च सति जातः, यज्वा = कृतयज्ञो भवेदिति ॥ ८ ॥ दशमेश, बुध और बृहस्पति बलवान् हों तो यज्ञादि सत्कर्मके देनेवाले होवें । यदि वे सौम्यग्रहसे दृष्ट या युत हों तो वाजपेयादि यज्ञके करानेवाले होते हैं, तथा जीर्णोद्धार प्रभृति गोशाला, तालाब, बाग आदि निर्माणका पुण्य देते हैं । यदि दशमेश शुभग्रह तथा चन्द्रमाके साथ हो और १० वेंमें राहु और केतु नहीं हो तो जातक यज्ञकर्ता होवे ॥ ८ ॥ उच्चस्थे शशिजेऽहिकेतुवियुते भाग्योपयातेऽथवा कर्मस्वामिनि भाग्यगे च मनुजो यागादिसत्कर्मवान् ॥ कर्मेशे निजतुङ्गगे बुधयुते तारासुते चास्तगे तुङ्गस्थानगते सति क्रतुफलं जातः समेति ध्रुवम् ॥ ९ ॥ उच्चस्थ इति स्पष्टार्थ एवेत्यलम् ॥ ९ ॥ बुध अपने उच्च (कन्या) राशिमें राहु-केतुसे रहित हो अथवा ९ वें भावमें हो और दशमेश नववेंमें हो तो मनुष्य यज्ञ आदि कर्म करनेवाला होता है। दशमेश अपनी उच्च राशिमें बुधसे युक्त हो या सप्तममें उच्चका बुध हो तो जातक निश्चय यज्ञफलको प्राप्त करे॥ कर्मस्थे शशिनन्दने सवनकृत्साहिध्वजे कर्महा कर्मेशे रिपुरन्ध्ररिष्फगृहगे कर्मावरोधी भवेत् ॥ कर्मेशस्य बुधस्य कर्मभवने राहौ मखध्वंसक- स्तुङ्गस्थानगतोऽपि कर्मगृहपो दुःस्थानगः कर्महा ॥ १० ॥ कर्मस्थ इति । शशिनन्दने=बुधे, कर्मस्थे=दशमभावगते सति, सवनकृत्=यज्ञान्नवस्तु- सम्पादकः भवेत् । तथाभूते शशिनन्दने, साहिध्वजे = राहुणा केतुना वा सहिते सति जातः कर्महा=यज्ञादिकर्मनाशको भवेत् । कर्मेश इति । दशमेशे, रिपुरन्ध्ररिष्फगृहगे=षष्ठाष्टमव्ययान्य- तमभावगते सति, कर्मावरोधी=अन्यस्यापि कर्त्तव्यस्य यज्ञादिकर्मणः निरोधकः भवेत् । कर्मेशस्येति । कर्मेशस्य बुधस्य=दशमेशत्वविशिष्टस्य बुधस्य, कर्मभवने=दशमे स्थाने राहौ सति । अत्रेदमुकं भवति । दशमभावपतिः बुधो भवेत्तथा बुधो यत्र भवेत्तस्माद्दशमे स्थाने राहुर्भवेत्तदा, जातः-मखध्वंसकः = यज्ञविनाशकः स्यादिति । धनुः-कन्ययोरन्यतरे लग्ने बुधो दशमेशो भवितुमर्हतीति चिन्त्यम् । तुङ्गस्थानगतोऽपीति । कर्मगृहपः = दशमेशः, तुङ्गस्थानगतोऽपि = स्वकीयोच्चराशि गतः अपि यदि, दुःस्थानगः=षडष्टव्ययगतः स्यात्तदा जातः, कर्महा=कर्मनाशकः भवेत् । षष्ठेऽष्टमे व्यये वा भावे दशमेश उच्चगतोऽपि जातम् कर्मविनाशकमेव करोतीति भावः ॥१०॥ बुध कर्ममें हो तो सवन (यज्ञार्थ औषध संग्रह) करनेवाला हो। यदि बुध राहु-केतुसे युक्त हो तो कर्मकी हानि करने वाला हो। दशमेश षष्ठ, अष्टम या द्वादशम हा तो कर्मका अवरोधी (रोकनेवाला) हो । 'दशमेश-बुधसे दशममें राहु हो तो वह यज्ञनाशक होवे । कर्मेश उच्चराशिगत होने पर भी यदि दुःस्थान (६।८।१२) में हो तो जातक कर्मका नाशक होवे ॥ १० ॥ ३६ जा०

४५८ सटीकजातकपारिजाते- व्यापारधर्मभवने शुभखेटयुक्ते तन्नाथजीवतनूपा बलशालिनश्चेत् । आचारधर्मगुणकर्मविधिप्रयुक्तश्रद्धापरो भवति विप्रकुलाग्रगण्यः ॥ ११ ॥ व्यापारधर्मभवन इति । व्यापारः = दशमभावः । धर्मः = नवमभावः । अन्यत्स्पष्ट मेवेत्यलम् ॥ ११ ॥ दशम और नवम गृहमें शुभग्रह हों उन भावोंके स्वामी, बृहस्पति और लग्नेश बलवान् हों तो आचार-धर्म-गुण-कर्म-विधिमें प्रयुक्त और श्रद्धालु हो, तथा ब्राह्मण कुलमें मुख्य हो ॥ ११ ॥ सौम्यन्वितानि गुरुकर्मकलत्रपुत्रलग्नानि पञ्च भवनानि शुभेक्षितानि । तन्नायकाश्च बलिनो यदि सर्वतत्त्वविद्याधिकक्रतुसमस्तगुणप्रसिद्धः ॥ १२ ॥ सौम्यन्वितानीति । गुरु-कर्म-कलत्र-पुत्र-लग्नानि = नवम-दशम-सप्तम-पञ्चम- प्रथमेत्येतानि गृहाणि ( भावाः ) यथासम्भवं सौम्यन्वितानि = शुभग्रहसंयुक्तानि शुभेक्षि- तानि वा भवेयुस्तथा तन्नायकाश्च = नवमेश-दशमेश-सप्तमेश-पञ्चमेश-लग्नेशाश्च यदि बलिनः भवेयुस्तदा जातः सर्वतत्त्वविद्याधिकः, क्रतुकरः, समस्तैः गुणैः प्रसिद्धश्च भवेदिति ॥ यदि नवम, दशम, सप्तम, पंचम और लग्न ये पांच गृह शुभग्रहसे युक्त हों या शुभग्रह से दृष्ट हों और उन स्थानोंके स्वामी बलवान् हों तो सर्व तत्त्व, अधिकविद्या, सब यज्ञ आदि गुणोंसे प्रसिद्ध होवे ॥ १२ ॥ ज्ञानव्योमाधिवासास्तनुगुरुदशमस्थानपाः षड्बलाढ्या जातः षट्शास्त्रवेत्ता निखिलनिगमविज्ज्ञानदीक्षामुपैति । धर्मव्यापारलग्नाधिपबुधविबुधाचार्यपाकापहारे सत्कर्माचारसर्वक्रतुफलनिगमज्ञानविद्याकरः स्यात् ॥ १३ ॥ ज्ञानेत्यादि । ज्ञानव्योमाधिवासाः=ज्ञानञ्च व्योम च = ज्ञानव्योमनी, तेऽधिवसन्तीति = ज्ञानव्योमाधिवासाः । तत्र ज्ञानं = २।४।५। भावास्तेषु ज्ञानस्य विचारात् । व्योम = १० भावः । अत एव ज्ञानव्योमाधिवासाः = द्वितीय-चतुर्थ-पञ्चम-दशमभावगता ग्रहा यदि तनुगुरुदशमस्थानपाः = लग्न-नवम-दशमभावानामधिपाः स्युस्तथा षड्बलाढ्याः = पूर्वो- क्तैः षड्बलैः सहिताः स्युः तदा जातः षट्शास्त्रवेत्ता, निखिलनिगमविद् भवति, तथा ज्ञान- दीक्षां च प्राप्नोति । धर्मेति । धर्मव्यापारलग्नाधिपबुधविबुधाचार्याणां=नवमेश-दशमेश-लग्नेश-बुध-गुरु- णाम्, पाकापहारे=दशान्तर्दशाकाले जातो नरः-सत्कर्माचारशीलः, सर्वक्रतुफलयुक्तः, सक- लनिगमज्ञान-विद्याकरश्च भवेदिति ॥ १३ ॥ ज्ञानस्थान ( ५।४।२ ) तथा दशममें लग्नेश, नवमेश, दशमेश अपने षड्बलसे युक्त हों तो जातक छः शास्त्रोंका ज्ञाता, सम्पूर्णनिगमका विज्ञ हो और ज्ञानदीक्षा प्राप्त करे । उसको नवम-दशम-लग्नके स्वामी, बुध और गुरुकी दशा-अन्तर्दशामें सब सत्कर्म, आचार, सब यज्ञफल, वेदज्ञान और विद्याकी प्राप्ति हो ॥ १३ ॥ चन्द्रे तृतीये जलराशियुक्ते करोति जीर्णोद्धरणादि पुण्यम् । तटाककूपादिकमत्र लग्नात् कर्मेश्वरे गोपुरभागयुक्ते ॥ १४ ॥ चन्द्र इति । जलराशियुक्ते=मृगापरार्द्धान्त्यकुलीरान्यतम-( १ अ० १७ श्लो० द्र० ) राशौ गतवति चन्द्रे, तृतीये = लग्नात्तृतीयाभावे व्यवस्थिते सति जातः जीर्णोद्धरणादि=पुरा- तनस्य जलाशयारामदेवमन्दिरादेः उद्धारः (पुनः संस्कारः) इत्यादि पुण्यं=धर्मकार्यं करोति । लग्नात् कर्मेश्वरे = दशमभावेशे गोपुरभागयुक्ते गोपुरादिवैशेषिकांशे गते सति, अत्र=अस्मिन्योगे जातः तटाककूपादिकं पुण्यं करोति ॥ १४ ॥

दशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४५६ जलचर राशिका चन्द्रमा तृतीयमें हो तो जातक जीर्णोद्धार पुण्यको करे। लग्नसे दश- मेश गोपुरांशमें हो तो तालाब, कूप आदि निर्माण करनेवाला होवे ॥ १४ ॥ अथ प्रव्रज्यायोगः । अथातः अष्टाविंशतिभिः श्लोकैः प्रव्रज्यायोगा उच्यन्ते — जातः पञ्चचतुर्विद्यच्चरवरैः केन्द्रत्रिकोणस्थितै- रैकस्थैर्बलिभिः प्रधानबलवत्खेटाश्रमस्थो भवेत् । आदित्यासितजीवशुक्रधरणीपुत्रेन्दुतार्रासुतै- र्वानप्रस्थविवासभिक्षुचरकाः शाक्यो गुरुर्जीवकः ॥ १५ ॥ वानप्रस्थस्तपस्वी वनगिरिनिलयो नग्नशीलो विवासा भिक्षुः स्यादेकदण्डी सततमुपनिषत्तत्वनिष्ठो महात्मा । नानादेशप्रवासी चरकपतिवरः शाक्ययोगी कुशीलो राजश्रीमान् यशस्वी गुरुरशनपरो जल्पको जीवकः स्यात् ॥ १६ ॥ इदानीं प्रव्रज्यायोगं सूर्यादिसप्तग्रहाणां पृथक् पृथक् प्रव्रज्यां प्रव्रज्यालक्षणञ्चाह— जात इति द्वाभ्याम् । पञ्चचतुर्विद्यच्चरवरैः = पञ्चभिश्चतुर्भिर्वा ग्रहैरेकस्थैः = सम्मिलितैर्ब- लिभिश्च सद्भिः, केन्द्र-त्रिकोणस्थितैः = केन्द्रे ( १।४।७।१० ) वा त्रिकोणे ( ५।९ ) व्यव- स्थितैः । अत्रेदं किल विचिन्त्यम् । बलवन्तः पञ्च, चत्वारो वा ग्रहा एकत्र सम्मिलिताः सन्तः केन्द्रे वा कोणे स्थिता भवेयुः, तदा जातः प्रधानबलवतः = तेषु पञ्चसु चतुर्षु वा ग्रहेषु यः प्रधानबलवान् ( सर्वापेक्षया बलीयान् ) भवेत्तस्य खेटाश्रमस्थः ( यस्य ग्रहस्य य आश्रमस्तदाश्रमगतः ) भवेत् । अथ ग्रहाणां प्रव्रज्याश्रममाह—आदित्येत्यादि । आदित्यासितजीवशुक्रधरणीपुत्रे- न्दुतारासुतैः = सूर्य-शनि-गुरु-शुक्र-कुज-चन्द्र-बुधैः क्रमात्-वानप्रस्थ-विवासः-भिक्षु- चरक-शाक्य-गुरु-जीवकाः प्रव्रज्या ज्ञातव्याः । एवमुक्तं तत्र भवता वराहेण— “चतुरादिभिरेकस्थैः प्रव्रज्यां स्वां ग्रहः करोति बली । बहुभिर्यैस्तावत्यः प्रथमा वीर्याधिकस्यैव ॥ तापसवृद्धश्रावककञ्चटाजीविभिक्षुचरकाणाम् । निर्ग्रन्थानां चार्कात् पराजितैः प्रच्युतिर्बलिभिः” इति ॥ अथ पूर्वोक्तप्रव्रज्यानां लक्षणान्याह—वानप्रस्थेत्यादि । वानप्रस्थः - तपस्वी, वनगिरिनिलयः = वनानि, गिरयश्च निलयो गृहं यस्येति स वानप्रस्थ उच्यते । विवासाः—नग्नशीलः = वस्त्ररहितः ( नग्नः ) विवासाः कथ्यते । भिक्षुः—एकदण्डी = एकदण्डधरः, सततमुपनिषत्तत्वनिष्ठः = ब्रह्मविचारणपरः, महा- त्मा च भिक्षुरुच्यते । चरकः—चरकपतिवरः, नानादेशप्रवासी = विविधदेशभ्रमणशीलः भवति । शाक्यः — शाक्ययोगी, कुशीलः = दुराचारवान् वञ्चकः भवति । गुरुः—राजश्रीमान् = राजसम्पद्युतः, यशस्वी = कीर्तिमाँश्च भवति । जीवकः—अशनपरः=केवलमुदरम्भरः, जल्पकः=वावदूकश्च भवति ॥ १५-१६ ॥ बलवान् पांच या चार ग्रह केन्द्र ( १।४।७।१० ) या त्रिकोण ( ५।९ ) में से एक स्थान में स्थित हों उनमें सबसे अधिक बलवाले ग्रहका आश्रमस्थ जातक होगा। यहां सूर्य, शनि, गुरु, शुक्र, मङ्गल, चन्द्र और बुधसे क्रमसे वानप्रस्थ, विवास (नङ्गा), भिक्षु, चरक,

५६० सटीकजातकपारिजाते- शाक्य, गृह और जीवक प्रव्रज्या होती हैं (सूर्यके बली होनेसे वानप्रस्थ, शनिसे नग्न, गुरुसे भिक्षुक, शुक्रसे चरक, मङ्गलसे शाक्य, चन्द्रसे गृह और बुधसे जीवक होता है) ॥१५॥ अब प्रव्रज्याओंके स्वरूप कहते हैं—वानप्रस्थ तपस्वी है, वह जंगल तथा पर्वतों पर रहता है। विवासा-हमेशा नङ्गा बिनावस्त्रका रहता है। भिक्षु-एकदण्डी निरन्तर उपनिषत् के तत्त्वज्ञ महात्मा है। चरक-नानादेश प्रवासी यतिश्रेष्ठ है। शाक्ययोगी-कुशील होता है। गुरु-राजश्रीयुत यशस्वी है। जीवक-भोजनमें तत्पर, जल्पक (बहुत बोलने वाला) है ॥ कर्मस्था बलिनस्त्रयो गगनगाः स्वोच्चादिवर्गस्थिताः कर्मेशश्च बलाधिको यदि यतिस्तत्तुल्यशीलोऽथवा । कर्मेशे बलवर्जिते गृहगृहप्राप्ते दुराचारवान् तद्योगप्रदसद्मध्यगौ धनमदस्थानाधिपौ कामधीः ॥ १७ ॥ कर्मस्था इति । स्वोच्चादिवर्गस्थिताः = स्वकीयोच्च-मूलत्रिकोण-स्वराशिपभृतित्वर्गे व्यवस्थिता बलिनस्त्रयो ग्रहा यदि कर्मस्थाः =दशमभावगता भवेयुस्तथा यदि कर्मेशः =दश- मभावेशो ग्रहो बलाधिको भवेत्तदा जातः यतिः = जितेन्द्रियः भवेत् 'ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते' इत्यमरः । अथवा तत्तुल्यशीलः = यतिसमस्वभावः भवेत् । कर्मेश इति । दशमभावपतौ, बलवर्जिते = निर्बले, गृहगृहप्राप्ते = गृहात् चतुर्थभा- वाद् गृहं चतुर्थं (१ अ० ५० श्लो० द्र०) तद्गृहगृहं, तस्मिञ्श्चर्याङ्गाग्नात्सप्तमे भावे च विद्यमाने सति जातः दुराचारवान् = कुत्सितचरित्रः (लम्पटः) भवेत् । तदिति । धनमदस्थानाधिपौ = द्वितीयेश-सप्तमेशौ यदि तद्योगप्रदमध्यगौ = कथित- प्रव्रज्यायोगकर्तृग्रहमध्यगतौ भवेतां तदा जातः कामधीः = कामुकः भवेदिति ॥ १७ ॥ दशमेंमें बलवान् तीन ग्रह स्वोच्चादि वर्गस्थित हों कर्मेश अधिक बलवान् यदि हो तो यति अथवा उसके समान शीलवाला हो । यदि कर्मेश बलरहित हो और ७ वें भावमें प्राप्त हो तो दुराचारी होवे । द्वितीय और सप्तमके स्वामी प्रव्रज्याकारक ग्रहोंके बीचमें हों तो वह काम-बुद्धि होता है ॥ १७ ॥ तद्योगप्रदखेचरैरिनशनिक्षोणीकुमारान्वितैः संन्यासं समुपैति वित्ततनयस्त्रीवर्जितो मानवः ॥ सौम्यांशोपगतः सहस्रकिरणस्तुङ्गान्तभागस्थितं खेटं पश्यति यौवने वयसि वा बाल्ये यतीशो भवेत् ॥ १८ ॥ तद्योगेति । तद्योगप्रदखेचरैः = उक्तप्रव्रज्यायोगकारकैर्ग्रहैः, इनशनिक्षोणीकुमारान्वितैः= सूर्य-शनि-मङ्गलसंयुक्तैः सद्भिः जातो मानवः, वित्ततनयस्त्रीवर्जितः = धन-पुत्र-दारर- हितः सन् संन्यासं समुपैति । सौम्यांशोपगत इति । सहस्रकिरणः = सूर्यः सौम्यांशोपगतः= शुभनवांशगतः सन् तुङ्गान्तभागस्थितम्=उच्चतमभागे व्यवस्थितं खेटं = ग्रहं ( यं कमपि ) पश्यति तदा जातो नरः यौवने वयसि, वा बाल्ये वयसि, यतीशः=जितेन्द्रियाग्रणीः भवेत् ॥ प्रव्रज्यायोगके देनेवाले ग्रह सूर्य-शनि-मङ्गलसे युक्त हों तो मनुष्य धन, पुत्र, स्त्रीसे रहित होकर संन्यासको प्राप्त होता है । शुभनवांशमें सूर्य हो वह उच्चके अन्त भागमें स्थित ग्रह को देखता हो तो जातक युवा अवस्था में वा बाल्यावस्था में संन्यासी हो ॥ १८ ॥ शुक्रेन्दुप्रविलोकिते गतबले लग्नाधिपे निर्द्धनो भिक्षुः स्याद्यदि तुङ्गभांशकयुतस्तारापतिं पश्यति ॥ एकश्चैरविलोकिते तु बहुभिर्लग्नेश्वरे दीक्षित- स्तद्योगप्रदभावकारकदशाभुक्तौ तदीयं फलम् ॥ १६ ॥ शुकेन्द्रिति । गतबले = अतिनिर्बले, लग्नाधिपे = जन्मलग्नेशे, शुक्रेन्दुप्रविलोकिते=शुक-

दशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४६१ चन्द्राभ्यां निरीक्षिते सति जातः निर्द्धनः = दरिद्रो भवेत् । भिक्षुरिति । यदि तुङ्गांशक- युतः = स्वकीयोच्चराश्यंशकगतः कश्चिद्ग्रहः लग्नेश्वरो वा, तारापतिं = चन्द्रं पश्यति तदा जातः भिक्षुः = परिव्राट् स्यात् । एकस्थैरिति । एकस्थानगतैः बहुभिः ( त्र्यधिकैः ) ग्रहैर- वलोकिते लग्नेश्वरे तु जातः दीक्षितः = दीक्षया सहितः ( प्रव्रजितः ) भवेत् । अत्रोक्तयो- गेषूक्तानां फलानां पाककालमाह—तदिति । तदुक्तप्रव्रज्यायोगो यद्भावे सम्भवेत्तद्भावकार- कग्रहदशाभुक्तौ तदीयमुक्तं फलं वाच्यमिति ॥ १९ ॥ शुक्र और चन्द्रमा बलहीन लग्नेशको देखते हों तो दरिद्र होवे । कोई ग्रह यदि उच्च- राश्यंशमें युक्त होकर चन्द्रमाको देखता हो तो भिक्षुक ( संन्यासी ) होवे । बहुत ग्रह एक स्थानमें स्थित होकर लग्नेशको देखते हों तो दीक्षित हो । ये सब फल योगप्रद तथा भावकारककी दशा भुक्तिमें होते हैं ॥ १९ ॥ शीतांशूराशीशमिनात्मजो वा लग्नेश्वरः पश्यति दीक्षितः स्यात् । भौमर्क्षगे मन्ददृगाणभागे मन्देक्षिते शीतकरे यतिः स्यात् ॥ २० ॥ शीतांशूराशीशमिति । शीतांशोः=चन्द्रस्य यो राशिस्तदीशम् = जन्मकालीनचन्द्रा- धिष्ठितराशिपतिम् , इनात्मजः = शनैश्चरः, वा लग्नेश्वरः = जन्मलग्नपतिः यदि पश्यति तदा जातः दीक्षितः = प्रव्रजितः स्यात् । भौमर्क्षग इति । शीतकरे = चन्द्रे, भौमर्क्षगे = मेषवृश्चिकान्यतरराशिगते, वा मन्ददृ- गाणभागे = शनैश्चरस्य द्रेष्काणे नवांशे वा गतवति, न केवलं यावत्, मन्देक्षिते = शनिना विलोकिते सति जातः यतिः = जितेन्द्रियः परिव्राड् भवेदिति । अत्र वाराहोक्तमपि— “जन् मेशोऽन्यैरैर्यद्यदृष्टोऽर्कपुत्रं पश्यत्यार्किर्जन्मपं वा बलोनम् । दीक्षां प्राप्नोत्यार्किदृक्षांशसंस्थे भौमाक्यंशे सौरदृष्टे च चन्द्रे" इति चिन्त्यम् ॥ २० ॥ चन्द्रमा जहां हो उस राशिपतिको शनि या लग्नेश्वर देखता हो तो दीक्षित होवे । यदि चन्द्रमा मङ्गलकी राशि में हो शनिके द्रेष्काणमें हो उसको शनि देखता हो तो संन्यासी होवे ॥ २० ॥ जीवारमन्दलग्नेषु मन्ददृष्टियुतेषु च । लग्नाद्धर्मगते जीवे नृपयोगेऽपि तीर्थकृत् ॥ २१ ॥ जीवारेति । गुरु-भौम-शनि-लग्नेषु, मन्ददृष्टियुतेषु = शनिनावलोकितेषु, च = पुनः लग्नाद्धर्मगते जीवे = गुरौ लग्नान्नवमभावगते सति, नृपयोगेऽपि = जातकस्य कस्मिंश्चिद्राज- योगे सत्यपि जातः, तीर्थकृत् = शास्त्रकारः भवेत् । अत्र 'जीवारमन्दलग्नेषु' इत्यत्र जीवाः = गुरुः, आरः = मङ्गलः, मन्दः = शनिः, लग्नं = जन्मलग्नञ्चैतेषु, एवं व्याख्याने शनौ शनि- दृष्टेरनुपपत्तिदोषापत्तेः गुरुभौमशनीनां लग्नेषु = राशिषु ( धनुर्मीनमेषवृश्चिकमकरकुम्भेषु ) शनिनावलोकितेष्वित्येवमेव व्याख्यानं सङ्गतं स्यादिति । परञ्च तथापि कर्कसिंहकन्याऽन्य- त मस्थ्ये शनावैवास्य सम्भव इत्यपि विचिन्त्यमित्यलम् ॥ २१ ॥ गुरु, मङ्गल, शनिके लग्नमें यदि शनिकी दृष्टि हो लग्नसे ९ वें भावमें बृहस्पति हो तो राज योग होने पर भी तीर्थ करनेवाला यति होवे ॥ २१ ॥ नवमस्थानगे चन्द्रे नभोगैर्नावलोकिते । नृपयोगेऽपि सञ्जातो दीक्षितो नृपतिर्भवेत् ॥ २२ ॥ नवमस्थानग इति । यदि चन्द्रमा लग्नान्नवमस्थानगतः न केनापि ग्रहेणावलोकितश्च भवेत्तदा नृपयोगे समुत्पन्नोऽपि दीक्षितः = प्रव्रज्यामुपगतः नृपतिः भवेत् । यथाऽधुनां मण्डलेश्वरः, महान्त इत्यादिपदवाच्यः परिव्राड् भवतीति ॥ २२ ॥

४६२ सटीकजातकपारिजाते- नवम स्थानमें चन्द्रमाको कोई ग्रह न देखते हों तो राजयोगमें उत्पन्न हो तो भी दीक्षित राजा होवे ॥ २२ ॥ सुरगुरुशशिहोरास्वाकिदृष्टासु धर्मे गुरुरथ नृपतीनां योगजस्तीर्थकृत् स्यात् । नवमभवनसंस्थे मन्दगेऽन्यैरदृष्टे भवति नरपयोगे दीक्षितः पार्थिवेन्द्रः ॥ २३ ॥ सुरगुरुशशिहोरास्विति । सुरगुरुः = वृहस्पतिः, शशी = चन्द्रः, होरा = जन्मलग्नम् तासु आर्किदृष्टासु = शनिनाऽवलोकितासु, अथ = तथा, गुरुः धर्मे = नवमे भवेत्, तदा नृपतीनां योगजः = कस्मिंश्चिद्राजयोगे जायमाने जनः, तीर्थकृत्=शास्त्रकर्त्ता स्यात् । तथा च विशेषवचनम्- गुरुशशिलग्ना दृष्टा कोणेन तु नवमगो यदि गुरुः । नरनाथजन्मजातः शास्त्रकरो भवति न च नृपः ॥ नवमभवनसंस्थ इति । मन्दगे = मन्दं ( स्वल्पं ) गच्छतीति मन्दगस्तस्मिन् = शनै- श्चरे, अन्यैः = इतरग्रहैः, अदृष्टे = नावलोकिते तत्र नरपयोगे = कस्मिंश्चिद्राजयोगेऽपि सति जातो नरः, दीक्षितः = प्रव्रज्यामुपगतः, पार्थिवेन्द्रः = राजाधिराजः ( King of Kings ) स्यात् । अत्र राजयोगाभावे निगदितयोगे जातो नरः प्रव्रज्यामुपेयादिति । तथोक्तमपि- "नवमस्थाने सौरो यदि स्थितः सर्वदर्शनविमुक्तः । नरनाथयोगजातो नृपोऽपि दीक्षान्वितो भवति ॥ नृपयोगस्याभावे योगेऽस्मिन् दीक्षितो नरो जातः । निःसन्दिग्धं प्रव्रदद्योगस्यास्य प्रभावेन" इति ॥ २३ ॥ गुरु, चन्द्रमा और लग्न पर शनिकी दृष्टि हो और बृहस्पति नवममें हो तो राजयोगमें उत्पन्न भी तीर्थ (शास्त्र) करने वाला हो। नवम भवनमें शनि किसीसे देखा न जाता हो तो राजयोगमें भी दीक्षित राजेन्द्र होता है ॥ २३ ॥

+---------------+---------------+
| २   | १ ल. | १२ | ३   | २   | १   |
| ३   |      | ११ | ४   |     |१२वृ.चं|
| ४ चं|  १.  |१० मं|५र.बु.शु| २.  | मं. ११|
| ५ र.|      | ९ वृ| ६   |     | १० श.|
| बु. ६ शु.| ७ श.| ८ | ७ | ८ | ९   |
+---------------+---------------+

इदानीं ग्रहाणां संयोगेन प्रव्रज्याभेदानाहेत आरभ्योूनचत्वारिंशच्छूलोकावधि । सितार्कभौमार्कसुता महाबलाः सुरेज्यभूनन्दनभानुभानुजाः । कुजेन्दुवागीशशनैश्चरा इसे समं गताश्चेज्जनयन्ति तापसम् ॥ २४ ॥ सिताकेंति । १-सिताकेंभौमार्कसुताः = शुक्र-सूर्य-कुज-शनैश्चराः । वा- २-सुरेज्यभूनन्दनभानुजाः = गुरु-भौम-सूर्य-शनैश्चराः । वा- ३-कुजेन्दुवागीशशनैश्चराः = कुज-चन्द्र-गुरु-शनैश्चराः- यदि महाबलाः = पूर्णबलसंयुक्ताः सन्तः समं गताः = यत्र तत्रैकत्र सम्मिलिताः स्यु- स्तदा तापसं = वानप्रस्थं जनयन्ति । अत्रान्यतमयोगे जातो नरस्तपस्वी भवतीत्यर्थः ॥२४॥ शुक्र, सूर्य, मंगल और शनि या वृहस्पति, मंगल, सूर्य और शनि या मंगल, चन्द्रमा वृहस्पति और शनि पूर्णबली होकर एक स्थानमें हों तो तपस्वी उत्पन्न करते हैं ( इन तीनों योगोंमें उत्पन्न जातक तपस्वी होता है ) ॥ २४ ॥

दशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४६३ ग्रहैश्चतुर्भिः सहिते तदीशे केन्द्रत्रिकोणोपगतैस्तु मुक्तः । चतुर्ग्रहैः कर्मगतैः प्रव्रज्यां प्राप्नोति जातः कथितो मुनीन्द्रैः ॥ २५ ॥ ग्रहैरिति । तदीशे = दशमभावेशे केन्द्रत्रिकोणोपगतैः यैः कैश्चिचतुर्भिर्ग्रहैः सहिते सति जातो नरः मुक्तो भवेत् । यैः कैश्चिचतुर्ग्रहैः कर्मगतैः=दशमभावगतैः जातः प्रव्रज्याम् आप्नोति इति मुनीन्द्रैः कथितः । तत्र चतुर्णां मध्ये यो बलीयान् भवेत्तत्कृतां प्रव्रज्यां प्राप्नु- याज्जातक इति वाच्यम् ॥ २५ ॥ दशम भावका स्वामी केन्द्र या त्रिकोणमें स्थित चार ग्रहोंसे युक्त हो तो मुक्त (मोक्षभागी) होवे । चार ग्रह दशवें हों तो जातक संन्यासको प्राप्त हो ऐसा मुनियों ने कहा है ॥ २५ ॥ कुजार्कसोमार्कजदेववन्दितैः कुजार्कचन्द्रात्मजमन्दभार्गवैः । रवीन्दुभौमासितदानवप्रियैर्भवन्ति जाता व्रतसंयुता नराः ॥ २६ ॥ कुजार्कति । १—कुजार्कसोमार्कजदेववन्दितैः = भौम-सूर्य-चन्द्र-शनि-गुरुभिः, वा— २--कुजार्कचन्द्रात्मजमन्दभार्गवैः = भौम-सूर्य-बुध-शनि-शुक्रैः, वा— ३—रवीन्दुभौमासितदानवप्रियैः = सूर्य-चन्द्र-कुज-शनि-शुक्रैः, यत्र तत्रैकत्र सम्मिलितैः सद्भिः जाता नराः व्रतसंयुताः=परिव्राड्‌व्रतपालका भवन्ति॥२६॥ मंगल, सूर्य, चन्द्रमा, शनि और गुरु या मंगल, सूर्य, बुध, शनि और शुक्र या सूर्य, चन्द्र, मंगल, शनि और शुक्र इनके एकत्र होने पर जो उत्पन्न हो वह मनुष्य व्रतसे युक्त (नियमो, संयमी) होवे ॥ २६ ॥ सितारसूर्यात्मजजीवभास्करैः कुजेन्दुदेवेज्यबुधार्कनन्दनैः । सितेन्दुपुत्रार्किशशाङ्कभूमिजैर्भवेत्तपस्वी वनपर्वताश्रयः ॥ २७ ॥ सितारेत्यादि । १-शुक्र-कुज-शनि-गुरु-सूर्यैः । वा, २-भौम-चन्द्र-गुरु-बुध- शनैश्चरैः । वा-३-शुक्र-बुध-शनि-चन्द्र-मङ्गलैश्च कुत्राप्येकस्थानगतैः जातः वनपर्वता- श्रयः = वनगिरिनिलयः तपस्वी भवेदिति ॥ २७ ॥ शुक्र, मंगल, शनि, गुरु और सूर्यके एकत्र होनेसे या मंगल, चन्द्रमा, गुरु, बुध और शनिके एकत्र या शुक्र, बुध, शनि, चन्द्र और मंगलके एकत्र होने पर जातक पर्वत तथा बनमें रहनेवाला तपस्वी होवे ॥ २७ ॥ चन्द्रेन्दुपुत्रारसुरेज्यभास्करैः शशाङ्कसूर्येन्दुजशुक्रमूमिजैः । एकत्रगेरेभिरिह प्रजाता भवन्ति विद्यामुनयोऽस्त्रदूषकाः ॥ २८ ॥ चन्द्रेत्यादि । १-चन्द्र-बुध-भौम-गुरु-सूर्यैः । वा, २-चन्द्र-सूर्य-बुध-शुक्र- मङ्गलैः सम्मिलितैरेकत्र गतैः सद्भििरिहास्मिन्नन्यतरयोगे प्रजाता नरा अस्त्रदूषकाः =आयुध- निन्दका विद्यामुनयः=सज्ज्ञानप्रवर्त्तकशास्त्रकर्त्तारो मुनयो भवन्ति ॥ २८ ॥ चन्द्रमा, बुध, मंगल, गुरु और सूर्यके एकत्र होनेसे या चन्द्र, सूर्य, बुध, शुक्र और मंग- लके एक राशिमें होने से उत्पन्न हों तो अन्न शस्त्रोंका विरोधी विद्याभ्यासी मुनि होते हैं॥२८॥ रवीन्दुभौमेन्दुजजीवभार्गवैः सुधाकरार्किगुरुज्ञभास्करैः । कुजेन्दुसूर्यार्किसितेन्दुसम्भवेर्भवेदमीभिः सहितैर्व्रती नरः ॥ २६ ॥ रवीत्यादि । १—सूर्य-चन्द्र-कुज-बुध-गुरु-शुक्रैः, वा २-चन्द्र-कुज-शनि-गुरु- बुध-सूर्यैः, वा ३-मङ्गल-चन्द्र-सूर्य-शनि-शुक्र-बुधैरमीभिर्ग्रहैः सहितैरेकस्थानगतैः नरो व्रती भवेत् । अस्मिन्नन्यतमयोगे जातो नरो नियमकृद्भवतिति ॥ २६ ॥ सूर्य, चन्द्रमा, मंगल, बुध, गुरु और शुक्र एक राशिमें हों, या चन्द्रमा, मङ्गल, शनि, गुरु, बुध और रवि एक राशिमें हों या मङ्गल, चन्द्रमा, सूर्य, शनि, शुक्र और बुध एकत्र 31 हों तो इन योगोंमें उत्पन्न मनुष्य व्रती होवे ॥ २९ ॥

४६४ सटीकजातकपारिजाते- सितेन्दुजीवार्कजभानुलोहितैः सिताकिर्जीवार्कभृगाङ्कसोमजैः ॥ एकत्र यातैर्गगनाटनैः सदा भवन्ति जाता मुनयस्तपस्विनः ॥ ३० ॥ सितेन्द्रित्यादि । १-शुक्र-चन्द्र-गुरु-शनि-सूर्य-मङ्गलैः, वा २-शुक्र-शनि-गुरु-सूर्य- चन्द्र-बुधैः, एकत्रयातैरेभिः गगनाटनैः = ग्रहैः जाता नराः सदा तपस्विनः मनयो भवन्ति ॥ शुक्र, चन्द्रमा, वृहस्पति, शनि, सूर्य और मङ्गल एकत्र हों वा शुक्र, शनि, वृहस्पति, सूर्य, चन्द्र और बुध एकत्र हों तो जातक तपस्वी होता है, यह मुनि लोग कहते हैं ॥३०॥ कुजज्ञवागीशसितासितारुणैः सितार्किजीवेन्दुजचन्द्रभूमिजैः ॥ बलप्रधानैर्गगनाटनैयदा यदि प्रजातः पुरुषस्तपस्विनाम् ॥ ३१ ॥ कुजज्ञेति । १-मङ्गल-बुध-गुरु-शुक्र-शनि-सूर्यैः, वा २-शुक्र-