जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 487, कुल 588 में से
संदर्भ में पढ़ेंदशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४६१ चन्द्राभ्यां निरीक्षिते सति जातः निर्द्धनः = दरिद्रो भवेत् । भिक्षुरिति । यदि तुङ्गांशक- युतः = स्वकीयोच्चराश्यंशकगतः कश्चिद्ग्रहः लग्नेश्वरो वा, तारापतिं = चन्द्रं पश्यति तदा जातः भिक्षुः = परिव्राट् स्यात् । एकस्थैरिति । एकस्थानगतैः बहुभिः ( त्र्यधिकैः ) ग्रहैर- वलोकिते लग्नेश्वरे तु जातः दीक्षितः = दीक्षया सहितः ( प्रव्रजितः ) भवेत् । अत्रोक्तयो- गेषूक्तानां फलानां पाककालमाह—तदिति । तदुक्तप्रव्रज्यायोगो यद्भावे सम्भवेत्तद्भावकार- कग्रहदशाभुक्तौ तदीयमुक्तं फलं वाच्यमिति ॥ १९ ॥ शुक्र और चन्द्रमा बलहीन लग्नेशको देखते हों तो दरिद्र होवे । कोई ग्रह यदि उच्च- राश्यंशमें युक्त होकर चन्द्रमाको देखता हो तो भिक्षुक ( संन्यासी ) होवे । बहुत ग्रह एक स्थानमें स्थित होकर लग्नेशको देखते हों तो दीक्षित हो । ये सब फल योगप्रद तथा भावकारककी दशा भुक्तिमें होते हैं ॥ १९ ॥ शीतांशूराशीशमिनात्मजो वा लग्नेश्वरः पश्यति दीक्षितः स्यात् । भौमर्क्षगे मन्ददृगाणभागे मन्देक्षिते शीतकरे यतिः स्यात् ॥ २० ॥ शीतांशूराशीशमिति । शीतांशोः=चन्द्रस्य यो राशिस्तदीशम् = जन्मकालीनचन्द्रा- धिष्ठितराशिपतिम् , इनात्मजः = शनैश्चरः, वा लग्नेश्वरः = जन्मलग्नपतिः यदि पश्यति तदा जातः दीक्षितः = प्रव्रजितः स्यात् । भौमर्क्षग इति । शीतकरे = चन्द्रे, भौमर्क्षगे = मेषवृश्चिकान्यतरराशिगते, वा मन्ददृ- गाणभागे = शनैश्चरस्य द्रेष्काणे नवांशे वा गतवति, न केवलं यावत्, मन्देक्षिते = शनिना विलोकिते सति जातः यतिः = जितेन्द्रियः परिव्राड् भवेदिति । अत्र वाराहोक्तमपि— “जन् मेशोऽन्यैरैर्यद्यदृष्टोऽर्कपुत्रं पश्यत्यार्किर्जन्मपं वा बलोनम् । दीक्षां प्राप्नोत्यार्किदृक्षांशसंस्थे भौमाक्यंशे सौरदृष्टे च चन्द्रे" इति चिन्त्यम् ॥ २० ॥ चन्द्रमा जहां हो उस राशिपतिको शनि या लग्नेश्वर देखता हो तो दीक्षित होवे । यदि चन्द्रमा मङ्गलकी राशि में हो शनिके द्रेष्काणमें हो उसको शनि देखता हो तो संन्यासी होवे ॥ २० ॥ जीवारमन्दलग्नेषु मन्ददृष्टियुतेषु च । लग्नाद्धर्मगते जीवे नृपयोगेऽपि तीर्थकृत् ॥ २१ ॥ जीवारेति । गुरु-भौम-शनि-लग्नेषु, मन्ददृष्टियुतेषु = शनिनावलोकितेषु, च = पुनः लग्नाद्धर्मगते जीवे = गुरौ लग्नान्नवमभावगते सति, नृपयोगेऽपि = जातकस्य कस्मिंश्चिद्राज- योगे सत्यपि जातः, तीर्थकृत् = शास्त्रकारः भवेत् । अत्र 'जीवारमन्दलग्नेषु' इत्यत्र जीवाः = गुरुः, आरः = मङ्गलः, मन्दः = शनिः, लग्नं = जन्मलग्नञ्चैतेषु, एवं व्याख्याने शनौ शनि- दृष्टेरनुपपत्तिदोषापत्तेः गुरुभौमशनीनां लग्नेषु = राशिषु ( धनुर्मीनमेषवृश्चिकमकरकुम्भेषु ) शनिनावलोकितेष्वित्येवमेव व्याख्यानं सङ्गतं स्यादिति । परञ्च तथापि कर्कसिंहकन्याऽन्य- त मस्थ्ये शनावैवास्य सम्भव इत्यपि विचिन्त्यमित्यलम् ॥ २१ ॥ गुरु, मङ्गल, शनिके लग्नमें यदि शनिकी दृष्टि हो लग्नसे ९ वें भावमें बृहस्पति हो तो राज योग होने पर भी तीर्थ करनेवाला यति होवे ॥ २१ ॥ नवमस्थानगे चन्द्रे नभोगैर्नावलोकिते । नृपयोगेऽपि सञ्जातो दीक्षितो नृपतिर्भवेत् ॥ २२ ॥ नवमस्थानग इति । यदि चन्द्रमा लग्नान्नवमस्थानगतः न केनापि ग्रहेणावलोकितश्च भवेत्तदा नृपयोगे समुत्पन्नोऽपि दीक्षितः = प्रव्रज्यामुपगतः नृपतिः भवेत् । यथाऽधुनां मण्डलेश्वरः, महान्त इत्यादिपदवाच्यः परिव्राड् भवतीति ॥ २२ ॥