जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 486, कुल 588 में से
संदर्भ में पढ़ें५६० सटीकजातकपारिजाते- शाक्य, गृह और जीवक प्रव्रज्या होती हैं (सूर्यके बली होनेसे वानप्रस्थ, शनिसे नग्न, गुरुसे भिक्षुक, शुक्रसे चरक, मङ्गलसे शाक्य, चन्द्रसे गृह और बुधसे जीवक होता है) ॥१५॥ अब प्रव्रज्याओंके स्वरूप कहते हैं—वानप्रस्थ तपस्वी है, वह जंगल तथा पर्वतों पर रहता है। विवासा-हमेशा नङ्गा बिनावस्त्रका रहता है। भिक्षु-एकदण्डी निरन्तर उपनिषत् के तत्त्वज्ञ महात्मा है। चरक-नानादेश प्रवासी यतिश्रेष्ठ है। शाक्ययोगी-कुशील होता है। गुरु-राजश्रीयुत यशस्वी है। जीवक-भोजनमें तत्पर, जल्पक (बहुत बोलने वाला) है ॥ कर्मस्था बलिनस्त्रयो गगनगाः स्वोच्चादिवर्गस्थिताः कर्मेशश्च बलाधिको यदि यतिस्तत्तुल्यशीलोऽथवा । कर्मेशे बलवर्जिते गृहगृहप्राप्ते दुराचारवान् तद्योगप्रदसद्मध्यगौ धनमदस्थानाधिपौ कामधीः ॥ १७ ॥ कर्मस्था इति । स्वोच्चादिवर्गस्थिताः = स्वकीयोच्च-मूलत्रिकोण-स्वराशिपभृतित्वर्गे व्यवस्थिता बलिनस्त्रयो ग्रहा यदि कर्मस्थाः =दशमभावगता भवेयुस्तथा यदि कर्मेशः =दश- मभावेशो ग्रहो बलाधिको भवेत्तदा जातः यतिः = जितेन्द्रियः भवेत् 'ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते' इत्यमरः । अथवा तत्तुल्यशीलः = यतिसमस्वभावः भवेत् । कर्मेश इति । दशमभावपतौ, बलवर्जिते = निर्बले, गृहगृहप्राप्ते = गृहात् चतुर्थभा- वाद् गृहं चतुर्थं (१ अ० ५० श्लो० द्र०) तद्गृहगृहं, तस्मिञ्श्चर्याङ्गाग्नात्सप्तमे भावे च विद्यमाने सति जातः दुराचारवान् = कुत्सितचरित्रः (लम्पटः) भवेत् । तदिति । धनमदस्थानाधिपौ = द्वितीयेश-सप्तमेशौ यदि तद्योगप्रदमध्यगौ = कथित- प्रव्रज्यायोगकर्तृग्रहमध्यगतौ भवेतां तदा जातः कामधीः = कामुकः भवेदिति ॥ १७ ॥ दशमेंमें बलवान् तीन ग्रह स्वोच्चादि वर्गस्थित हों कर्मेश अधिक बलवान् यदि हो तो यति अथवा उसके समान शीलवाला हो । यदि कर्मेश बलरहित हो और ७ वें भावमें प्राप्त हो तो दुराचारी होवे । द्वितीय और सप्तमके स्वामी प्रव्रज्याकारक ग्रहोंके बीचमें हों तो वह काम-बुद्धि होता है ॥ १७ ॥ तद्योगप्रदखेचरैरिनशनिक्षोणीकुमारान्वितैः संन्यासं समुपैति वित्ततनयस्त्रीवर्जितो मानवः ॥ सौम्यांशोपगतः सहस्रकिरणस्तुङ्गान्तभागस्थितं खेटं पश्यति यौवने वयसि वा बाल्ये यतीशो भवेत् ॥ १८ ॥ तद्योगेति । तद्योगप्रदखेचरैः = उक्तप्रव्रज्यायोगकारकैर्ग्रहैः, इनशनिक्षोणीकुमारान्वितैः= सूर्य-शनि-मङ्गलसंयुक्तैः सद्भिः जातो मानवः, वित्ततनयस्त्रीवर्जितः = धन-पुत्र-दारर- हितः सन् संन्यासं समुपैति । सौम्यांशोपगत इति । सहस्रकिरणः = सूर्यः सौम्यांशोपगतः= शुभनवांशगतः सन् तुङ्गान्तभागस्थितम्=उच्चतमभागे व्यवस्थितं खेटं = ग्रहं ( यं कमपि ) पश्यति तदा जातो नरः यौवने वयसि, वा बाल्ये वयसि, यतीशः=जितेन्द्रियाग्रणीः भवेत् ॥ प्रव्रज्यायोगके देनेवाले ग्रह सूर्य-शनि-मङ्गलसे युक्त हों तो मनुष्य धन, पुत्र, स्त्रीसे रहित होकर संन्यासको प्राप्त होता है । शुभनवांशमें सूर्य हो वह उच्चके अन्त भागमें स्थित ग्रह को देखता हो तो जातक युवा अवस्था में वा बाल्यावस्था में संन्यासी हो ॥ १८ ॥ शुक्रेन्दुप्रविलोकिते गतबले लग्नाधिपे निर्द्धनो भिक्षुः स्याद्यदि तुङ्गभांशकयुतस्तारापतिं पश्यति ॥ एकश्चैरविलोकिते तु बहुभिर्लग्नेश्वरे दीक्षित- स्तद्योगप्रदभावकारकदशाभुक्तौ तदीयं फलम् ॥ १६ ॥ शुकेन्द्रिति । गतबले = अतिनिर्बले, लग्नाधिपे = जन्मलग्नेशे, शुक्रेन्दुप्रविलोकिते=शुक-