भारतकोश
संग्रह पर लौटें

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

४. अध्याय १५-१८: विंशोत्तरी दशा, अष्टकवर्ग, गोचर फल एवं जातक पारिजात उपसंहार

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४२५ इदानीं कलत्रत्रययोगमाह - वित्त इति । वित्ते = लग्नाद् द्वितीयभावे पापबहुत्वे = अधिकपापग्रहे सति कलत्रेशे = सप्तमेशे च तथास्थिते = अदृश्येऽस्तङ्गते वा सति केतौ शत्रुभावगते च जातः कलत्रत्रयभाग् भवेत् । अस्मिन्योगे जातस्य स्त्रीत्रयं भवतीति । सर्वा- र्थचिन्तामणावपि कलत्रत्रययोगः- “वित्ते पापबहुत्वे तु कलत्रे वा तथाविधे । तदीशे पापसन्दृष्टे कलत्रत्रयभाग्भवेत्”॥ इति ॥ २० ॥ द्वितीय स्थानमें बहुत पापग्रह हों सप्तमेश भी पाप युक्त हो और शत्रुस्थान (छठे) में केतु हो तो जातककी तीन स्त्रियाँ होवें ॥ २० ॥ केन्द्रत्रिकोणे दारेशे स्वोच्चमित्रस्ववर्गगे । कर्माधिपेन वा दृष्टे बहुस्त्रीसहितो भवेत् ॥ २१ ॥ इदानीं बहुस्त्रीयोगमाह - केन्द्रेति । दारेशे = सप्तमेशे स्वोच्चमित्रस्ववर्गगे सति वा केन्द्रत्रिकोणे ( १।४।७।१०।५।५ ) गतवति वा कर्माधिपेन = कर्म-(दशम-) भावपतिना दृष्टे सति जातो नरः बहुस्त्रीसहितः = अत्यधिककलत्रवान् भवति ॥ २१ ॥ सप्तमेश अपनी उच्चराशि, मित्रगृह, स्ववर्गमें होकर केन्द्रत्रिकोणमें हो वा कर्मेश उसे देखता हो तो जातक बहुत स्त्रीसे युक्त हो ॥ २१ ॥ कलत्राधिपतौ केन्द्रे शुभग्रहानिरीक्षिते । शुभांशे शुभराशौ वा पत्नी व्रतपरायणा ॥ २२ ॥ इदानीं व्रतपरायणां स्त्रियमाह-कलत्रेति । कलत्राधिपतौ = सप्तमेशे केन्द्रे (१।४।७।१०) शुभांशे = शुभग्रहनवांशे, शुभराशौ वा व्यवस्थिते तस्मिन् शुभग्रहेण निरीक्षिते सति जातस्य पत्नी = स्त्री, व्रतपरायणा = पातिव्रत्यैकनियमा भवति ॥ २२ ॥ सप्तमेश केन्द्रमें हो शुभग्रह उसको देखता हो शुभांश वा शुभराशि में हो तो जातक की पत्नी व्रतमें तत्पर रहे (स्त्री पतिभक्त होवे) ॥ २२ ॥ दाराधिपे सोमसुते सपापे नीचारिवर्गे रिपुनाशभावे । पापान्तरे पापदृशा समेते जाया पतिघ्नी कुलनाशिनी स्यात् ॥ २३ ॥ इदानीं पतिघ्नीं स्त्रियमाह - दाराधिप इति । सोमसुते = बुधे दाराधिपे = सप्तमेशे सति सपापे = केनचित्पापग्रहेण सहिते नीचारिवर्गे, रिपुनाश-(६।८) भावे वा गतवति, वा पापान्तरे = पापद्वयमध्यगते (एकेन पापेन संयुक्तः, एकः पापो द्वयाद् द्वितीयोऽन्यो द्वादशे भवेदिति) तस्मिन् पापदृशा समेते वा जातस्य जाया पतिघ्नी = पतिनाशिनी, कुलनाशिनी = वंशोन्मूलिनी च भवेदिति ॥ २३ ॥ सप्तमेश बुध पापग्रहके साथ नीच या शत्रुवर्गका होकर शत्रुभाव या अष्टम भावमें हो, पापग्रहोंके बीचमें हो उसपर पापग्रहकी दृष्टि हो तो उसकी स्त्री पतिको मारनेवाली कुलनाशिनी होवे ॥ २३ ॥ शुभांशे शुभसंदृष्टे नाथे जाया सुवंशजा । पापारूढे पापवर्गे तस्य जाया कुवंशजा ॥ २४ ॥ स्पष्टार्थः ॥ २४ ॥ सप्तमेश शुभांशमें शुभदृष्ट हो तो स्त्री अच्छे वंशकी हो । यदि सप्तमेश पापयुत पापवर्ग में हो तो उसकी स्त्री कुवंशोत्पन्ना होवे ॥ २४ ॥ कामस्थाने सखेटे सितयुतखचरैर्दारसंख्यां वदन्ति स्वोच्चस्थव्योमवासो न भवति गणने शुक्रयुक्तग्रहैर्वा ॥

४२६ सटीकजातकपारिजाते- जायाधीशो सितर्क्षे सति धनभवने शुक्रसंयुक्तसंख्या शुक्रानङ्गेशयुक्तद्युचरनववधूवल्लभो जायते वा ॥ २५ ॥ इदानीं स्त्रीसङ्ख्यामाह—कामस्थान इति । कामस्थाने = सप्तमे भावे सखेटे = ग्रहयुक्ते सति सितयुतखचरैः = शुक्रसंयुक्तगगनेचरैः दारसङ्ख्यां = स्त्रीसङ्ख्यां वदन्ति । अत्रेदमूक्तं भवति । यदि सप्तमे भावे कश्चिद्ग्रहो भवेत्तदा शुक्रेण सहिता यावन्तो ग्रहा भवेयुस्तावत्यो दारास्तस्य भवन्तीति । अत्र शुक्रयुक्तग्रहैः स्वोच्चस्थव्योमवासः = स्वक्षेत्रस्थ उच्चस्थितो वा ग्रहो गणने = सङ्ख्याने ग्राह्यो न भवति । यदुक्तं 'सितयुतखचरैः दारसंख्यां वदन्ति' तत्र शुक्रेण युक्तः स्वक्षेत्रोच्चगतो ग्रहो न गणनीय इति भावः । अत्र 'वा' इति पदं मता- न्तरसूचकमिवाभातीति चिन्त्यम् । जायाधीश इति । जायाधीशे = सप्तमभावेरो, सितर्क्षे=शुक्रराशौ=वृषतुलयोरन्यतरे, धनभवने = द्वितीयभावे च सति शुक्रसंयुक्तसङ्ख्या = शुक्रेण संयुक्ता यावन्तो ग्रहास्तावती सङ्ख्या स्त्रियो वाच्या । अथवा शुक्रेण, अनङ्गशेन = सप्तमेशेन च युक्ता यावन्तो द्युचराः = ग्रहास्तावतीनां नववधूनां वल्लभः = भर्त्ता, जायते = भवति जातक इति ॥ २५ ॥ सातवां भाव ग्रह युक्त हो तो शुक्रके साथ जितने ग्रह हों उतनी स्त्रियोंकी संख्या पण्डित लोग कहते हैं । शुक्रयुक्त ग्रहोंमें उच्चगत ग्रहकी गणना नहीं होती है। सप्तमेश शुक्र के गृह (२।७) में धन आश्नमें हो (मेष लग्न हो, शुक्र वृष पर हो, या कन्या लग्न हो गुरु तुला पर हो तो यह योग मिलेगा) तो शुक्र संयुक्त संख्या जीकी जाने। वा शुक्र और सप्तमेशसे युक्त ग्रहकी संख्या तुल्य नवीन स्त्रियोंका स्वामी होवे ॥ २५ ॥ दारेशेन कुटुम्बपेन सहिता यावद्ग्रहा दुर्बला- स्तत्संख्याकलत्रनाशनकरा दुःस्थाननाथा यदि ॥ यावन्तो बलशालिनः शुभकरास्तत्तुल्यजायासुखं कुर्वन्त्येकवियच्चरो बलयुतो यद्येकदारो भवेत् ॥ २६ ॥ दारेशेनेति । दारेशन=सप्तमेशेन, वा कुटुम्बपेन—द्वितीयशेन सहिता, यावद्ग्रहा दुर्ब- लाः = बलरहिता यदि दुःस्थाननायाथ भवन्ति तदा तत्संख्याकलत्रनाशनकरा भवेयुः । बलशालिनः, शुभकराः = शुभाः शुभस्थानेशाः शुभस्थानगताश्च यावन्तो ग्रहा दारेशेन द्वितीयशेन वा सहिताः स्युस्तत्तुल्यजायासुखं कुर्वन्ति । अथ यदि बलयुत एक एव विय- च्चरः=ग्रहः सप्तमेशन कुटुम्बपेन वा सहितो भवेत्तदा जातो नर एकदारः=एकस्त्रीयुतो भवेत्। Notes—सप्तमभावगतैर्ग्रहैः जीसङ्ख्या वक्तव्या । तत्र पापास्तावत्स्त्रीनाशकाः शुभास्तावत्स्त्रीसौख्यदा भवन्ति । पापोऽपि सप्तमे यदि स्वगेहोच्चादिगतः स्यात्तदा शुभ एव भवत्येवं शुभो यदि नीचारिगतः सन् सप्तमे भवेत्तदाऽशुभकर एवेति विमृश्य वक्तव्यम् । तथा च मन्त्रेश्वरः— स्त्रीसङ्ख्यां मदगैर्ग्रहैर्मृतिमसत्खेटैश्च सद्भिः स्थितिः, यूनेशे सबले शुभे सति वधूः साध्वी सुपुत्रान्विता । पापोऽपि स्वगृहं गतः शुभकरः पत्न्याश्च कामस्थितो हित्वा षड्व्ययरन्ध्रपान् मदनगाः सौम्यास्तु सौख्यावहाः ॥ २६ ॥ जितने दुर्बल ग्रह सप्तमेश या द्वितीयेशसे युक्त हों उतनी संख्या जीका नाश करते हैं। यदि वे दुष्ट स्थानके स्वामी हों जितने बलवान् शुभ ग्रह हों उनके तुल्य जीका सुख हो । यदि एक ग्रह बली हो तो एक ही जी हो ॥ २६ ॥ अथ विवाहकालः । लग्नानङ्गपतिस्फुटैक्यगृहगे जीवे विवाहं वदे- च्चन्द्राधिष्ठिततारकावधुपयोरेक्यांशके वा तथा ॥

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४१७ जीवे मित्रनवांशके बलयुते यद्येकदारान्वितः स्वांशे द्वित्रिकलत्रवान् बहुवधूनाथः स्वतुङ्गांशके ॥ २७ ॥ इदानीं जातस्य विवाहसमयमाह—लग्नेति । लग्नानङ्गपतिस्फुटैक्यग्रहगे = जन्म- लग्नेशस्य सप्तमेशस्य च पृथक् पृथक् यत्स्पष्टराश्यादिकं तयोर्योगे कृते यद्राश्यादिकं भवे- तस्मिन् सञ्चारेण गतवति जीवे = गुरौ जातस्य विवाहं वदेत् । अथवा जन्मकाले चन्द्रा- धिष्ठिततारकायाः = चन्द्रो यस्मिन्नक्षत्रे भवेत्तस्य यत्स्पष्टराश्यादिकं, तथा वधूपस्य = स- प्तमेशस्य यत्स्पष्टराश्यादिकं तयोरैक्यांशके = योगे कृते सति यन्नवांशस्तस्मिन् गतवति गोचरीयजीवे सति तथा = जातस्य विवाहं वदेदिति । अथैकदारमाह—जीव इति । जन्मकाले बलयुते = पूर्वोक्तबलसहिते जीवे = गुरौ मित्र- नवांशके च व्यवस्थिते सति जात एकदारान्वितः = एकस्त्रीयुतो भवति । अथ द्वित्रिकलत्रमाह—स्वांश इति । बलयुते जीवे स्वांशे = धनुर्मीनान्यतरराशिनवांशे सति जातः द्वित्रिकलत्रवान् भवति । अथ बहुदारमाह—बह्विति । तस्मिन्नेव बलयुते जीवे स्वतुङ्गांशके = स्वोच्च-(कर्क-) राशिनवांशे गतवति जातः बहुवधूनाथः=त्र्यधिकवनितापतिर्भवतीति ॥ २७ ॥ लग्नेश और सप्तमेशके स्पष्ट राश्यादिके योगतुल्य राशिमें जब गोचरीय बृहस्पति हो तब विवाह होना कहे । वा चन्द्राधिष्ठित नक्षत्र और सप्तमेशके योगतुल्य अंशमें गुरुके होने पर विवाह कहे । यदि गुरु मित्रके नवांशमें हो तो एक ही स्त्रीसे युक्त हो । स्वांशमें हो तो दो तीन स्त्रीवाला हो । उच्चांशमें हो तो बहुत स्त्रियोंका स्वामी होवे ॥ २७ ॥ कलत्रनाथस्थितभांशकेशयोः सितक्षपानायकयोर्बलीयसः । दशागमे द्यूनपयुक्तभांशकत्रिकोणगे देवगुरौ करग्रहः ॥ २८ ॥ इदानीं विवाहकालज्ञाने प्रकारान्तरमाह—कलत्रेति । कलत्रनाथस्थितभांशकेशयोः = सप्तमेशः स्थितो यस्मिन् ये = राशौ, अंशके = नवांशे च तदीशयोः मध्ये बलीयसो ग्रहस्य दशागमे, वा सितक्षपानायकयोः = शुक्रचन्द्रयोर्मध्ये बलीयसो ग्रहस्य दशागमे = महादशाकाले, द्यूनपेन = जन्मलग्नातसप्तमेशेन युक्तो यो राश्यंशकस्तस्मात् त्रिकोणे (५।९) गतवति गुरौ च जातस्य करग्रहः = विवाहो वाच्यः । Notes—अत्र लग्नचन्द्रयोर्बलीयसः पक्षो ग्राह्यः । अर्थात् यदि चन्द्रो बलीयांस्तदा सितक्षपानायकयोर्बलीयसः दशागमे इति, लग्ने बलीयसि कलत्रनाथस्थितभांशकेशयोः बलीयसः दशागमे इति पक्षः स्वीकार्यः । लग्नाच्चन्द्राद्वा भावविचारस्य विहितत्वादिति ॥ सप्तमेश जिस राशि और नवांशमें हो उनके स्वामियोंमें, वा शुक्र और चन्द्रमामें जो अधिक बली हो उसकी दशामें सप्तमेश युत, राश्यंशके त्रिकोणमें गुरुके होनेपर विवाह कहे ॥ २८ ॥ शुक्रोपेतकलत्रराशिपदशाभुक्तिर्विवाहप्रदा लग्नाद्वित्तपतिस्थराशिपदशाभुक्तौ च पाणिग्रहः ॥ कर्मायुर्भवनाधिनायकदशाभुक्तौ विवाहः क्रमात् कामेशेन युतः कलत्रगृहगस्तत्पाकभुक्तौ तु वा ॥ २६ ॥ इदानीमन्यानपि विवाहसमयानाह—शुकोपेतेति । •शुक्रेण उपेतस्य = सहितस्य कल- त्रराशिपस्य = सप्तमभावेशस्य दशाभुक्तिः विवाहप्रदा भवति । यस्य जन्मसमये सप्तमेशः शुक्रसंयुक्तः स्यात्तस्य सप्तमेशदशान्तर्दशाकाले विवाहो भवतीत्यर्थः ।

लग्नादिति । जन्मलग्नाद् वित्तपतिः = द्वितीयेशः यस्मिन् राशौ तिष्ठति तद्राशिपतेर्द- शाभुक्तौ च पाणिग्रहः = विवाहो वक्तव्यः । कर्मायुरिति । कर्मभावेशस्यायुर्भावेशस्य च दशान्तर्दशाकाले विवाहो वाच्यः । अथवा यदि कलत्रगृहगः = सप्तमभावगतः ग्रहः कामेशेन = सप्तमेशेन युतो भवे- तदा तु तद्दशायाः = सप्तमगतग्रहदशाया भुक्तौ विवाहो वक्तव्य इति । अत्र क्रमादित्यनेन क्रमिका योगा उक्ता इति ज्ञातव्यम् ॥ २९ ॥ शुक्रयुक्त सप्तमेशकी दशाभुक्ति विवाह करानेवाली होती है। लग्नसे द्वितीयेशकी राशिपतिकी दशाभुक्तिमें पाणिग्रहण होवे। दशमेश और अष्टमेशकी दशाकी भुक्तिमें क्रमसे विवाह होवे। या लग्नेशसे युक्त तथा कलत्र (सप्तम) राशिमें प्राप्त ग्रहकी दशा- की भुक्तिमें विवाह कहे ॥ २९ ॥ सौम्यव्योमचरः स्थितः शुभगृहे चादौ ददाति श्रियं पापर्क्षे शुभखेचरो यदि दशामध्ये विवाहादिकम् ॥ क्रूरः पापगृहोपगो यदि फलं पाकावसाने तथा सौम्यर्क्षे यदि सर्वकालफलदः सौम्यान्वितः शोभनः ॥ ३० ॥ इदानीं ग्रहाणां शुभाशुभत्ववशात् स्थितिवशाच्च फलसमयमाह—सौम्यव्योमचर इति । शुभग्रहो यदि शुभगृहे स्थितः स्यात् तदाऽसौ आदौ=स्वदशारम्भसमय एव श्रियं = शुभसम्पदं ( विवाहादिफलम् ) ददाति । शुभखेचरः=शुभग्रहो यदि पापर्क्षे=पापराशौ स्थितः स्यात्तदा स्वदशामध्ये = स्वदशाया मध्यकाले विवाहादिकं शुभफलं ददाति । क्रूरः= पापग्रहो यदि पापगृहोपगः स्यात्तदा पाकावसाने = स्वदशाया अन्तकाले तथा = विवाहादि- फलं ददाति । यदि क्रूरः सौम्यर्क्षे = शुभराशौ भवेत् तदा सर्वकालफलदो ज्ञेयः । क्रूरः सौम्यान्वितः = शुभग्रहसंयुक्तश्चेद्भवेत्तदाऽसौ शोभनः = शुभ एव स्यादिति । Notes—इतः पूर्वश्लोके यदुक्तं 'दशाभुक्तौ विवाहः' इति तत्समय एवोक्तोऽ- स्मिन् श्लोके । तत्र विवाहकर्तृग्रहस्य स्थितिं विलोक्य तद्दशाभुक्तौ विवाहसमये ब्रूयादिति । अत्र विवाह इत्युपलक्षणमेव अतः सर्वस्मिन्नेव भावविचारे तत्तद्भावकारकस्य परिस्थिति- वशेनोक्तवत्फलं वाच्यमिति निष्कर्षः ॥ ३० ॥ सौम्य ग्रहसे शुभ गृह युक्त हो तो दशामें पहले शुभफलको देता है। यदि पापराशिमें शुभग्रह हो सो दशाके मध्यमें विवाह आदि शुभ फल हो । पापग्रह यदि पापगृहमें हो तो दशाके अन्तमें फल देता है । पापग्रह यदि शुभराशिमें हो तो अपनी सम्पूर्ण दशामें फल देवे । यदि वह शुभ युक्त हो तो शुभ होता है ॥ ३० ॥ लग्नेश्वरस्थितनवांशपतिः स्वराशौ चन्द्रे पुरन्दरगुरौ च कलत्रलाभम् ॥ कामेशशुक्रगृहगेऽमरमन्त्रिणीन्दौ केन्द्रेऽथवा गुरुयुते सति गोचरेण ॥ ३१ ॥ इदानीमन्यमपि विवाहसमयमाह—लग्नेश्वर इति । लग्नेश्वरः = जन्मलग्नपतिस्तिष्ठति यस्मिन्नवांशे तन्नवांशपतेः स्वराशौ = द्वितीयस्थाने चन्द्रे, पुरन्दरगुरौ = बृहस्पतौ च गो- चरेण समागते सति जातस्य कलत्रलाभम् = स्त्रीप्राप्तिं=विवाहं विजानीयात् । अथवा केन्द्रे= जन्मलग्नात् १।४।७।१० एतदन्यतमे गुरुयुते सति कामेशशुक्रगृहे = सप्तमेशो भृगुर्वा यत्र तिष्ठति तस्मिन् राशौ गोचरेण = सञ्चारेण गतवति अमरमन्त्रिणि = गुरौ, इन्दौ=चन्द्रे च कलत्रलाभं ब्रूयादिति । Notes—अत्र वयसस्तारतम्येनापि भवितव्यम् । न केवलं गुरोः सञ्चारतः फल- मादिशेदिति ॥ ३१ ॥

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४२६ लग्नेश जहाँ स्थित हो उस नवांशका स्वामी जहां हो उससे २ री राशिमें चन्द्रमा और बृहस्पति हों तो स्त्रीका लाभ होवे। सप्तमेश और शुक्रके गृहमें जब चन्द्रमा तथा बृहस्पति हों, तथा उससे केन्द्रमें जब गोचरीय गुरु हो तो स्त्रीका लाभ होवे ॥ ३१ ॥ यत्संख्यकमजादि कामभवनं तद्वत्सरे वा नृणां साष्टाब्दे कृतमौञ्जिकर्मपरतः कल्याणकालो भवेत् ॥ लग्नादस्तविलग्ननायकयुतक्षेत्रांशके सम्भवा या सा भर्तृमनःप्रसादकरणी भर्त्ता तथैव स्त्रियाः ॥ ३२ ॥ अन्यमपि विवाहकालं स्त्रियाः स्वभावं चाह—यदिति । कामभवनं = सप्तमं स्थानम् अजादि = मेषादिगणनाक्रमेण यत्संख्याकं भवेत् तद्वत्सरे, वा साष्टाब्दे=अष्टवर्षसहिते तत्स- प्तमभावाङ्कसमे वर्षे नृणां कृतमौञ्जिकर्मपरतः = मौञ्जिसंस्कार-( व्रतबन्धन- ) तः अनन्तरं कल्याणकालः = परिणयनसमयो भवेत् । यथा कस्यचित् सप्तमे भावे कर्कराशिस्यथा । तस्य मौञ्जिबन्धनमष्टाब्दे जातं तदा मौञ्जिकर्मपरतो द्वादशे ( ८+४ ) वर्षे जन्मतो विंशतितमे ( ४+८+८ ) वर्षे वा द्वादशे वर्षे तस्य परिणयनं वाच्यमिति । अथ भर्तृमनःप्रसादकरणीं स्त्रीमनःप्रसादकरञ्चाह—लग्नादिति । लग्नात् = जन्मल- ग्नात् अस्तविलग्नं = सप्तमो भावस्तस्य नायकेन = स्वामिना ( सप्तमेशेनेत्यर्थः ) युतो य क्षेत्रांशकः = राशिनवांशास्तस्मिन् सम्भवा = उत्पन्ना या स्त्री, सा भर्तृमनःप्रसादकरणी = पतिमनोमोदिनी भवति । तथैव = तेनैव प्रकारेण ( तल्लक्षणविशिष्टः ) भर्त्ता = स्वामी, स्त्रियाः मनःप्रसादकरो भवतीति ॥ ३२ ॥ जितनी संख्या मेषादिसे सप्तम भाव हो उतने वर्ष या उसमें ८ जोड़कर यज्ञोपवीतके बाद कल्याण (विवाह) का समय होता है। लग्नसे सप्तम भावेश युक्त क्षेत्रांशकमें (अर्थात् लग्नमें सप्तमेशस्य राशिका नवांश हो) उत्पन्ना स्त्री स्वामीके मनको प्रसन्न करनेवाली होती है। उसी प्रकार स्त्रीको स्वामी प्रसन्न करनेवाला होता है ॥ ३२ ॥ कामान्वितेक्षकवियच्चरराशिजाता चन्द्राद्यतीव सुभगा च पतिप्रिया स्यात् ॥ स्त्रीजातके च पतिरिष्टकरो वधूनां दिग्देशजा भृगुसुतादबलाधिपस्य ॥ ३३ ॥ कामेति । चन्द्रात् = जन्मकालीनचन्द्राधिष्ठितराशितः कामे = सप्तमे भावे, अन्वितः= व्यवस्थितः वा ईक्षकः = सप्तमभावद्रष्टा यो वियच्चरः = ग्रहस्तस्य, राशौ = स्वगृहे जाता स्त्री अतीव सुभगा पतिप्रिया च स्यात् । इदमुक्तं भवति । जन्मकाले चन्द्राधिष्ठित- राशेः सप्तमे स्थाने यो ग्रहो भवेत्तदभावे तत्र यस्य सर्वाधिका दृष्टिर्भवति तस्य ग्रहस्य राशि- रेव यस्या जन्मराशिर्भवति सा स्त्री अतीव सुन्दरी भर्तुः प्रियतमा च भवतीति । स्त्रीजातके= स्त्रियाः जन्मकुण्डल्यामपि कथितलक्षणे सति पतिः वधूनां = स्त्रीणाम्, इष्टकरः = मनः- प्रीतिकरो भवेदिति । दिगिति । भृगुसुतात् = शुक्रात् अबलाधिपस्य सप्तमेशस्य या दिक् ( २ अ. २३ श्लोक द्र. ) तद्दिग्देशजा जातस्य स्त्री वाच्या । अत्रेदं विचिन्त्यम् । पुरुषस्य जन्मकाले शुक्को यत्र भवेत्तस्मात्सप्तमभावस्य योऽधिपस्तस्य या दिगुक्ता तस्यां दिशि तस्य विवाहो वाच्य इति ॥ अत्र दारदिग्ज्ञानेऽन्येऽपि प्रकाराः— शुक्राधिष्ठितराश्यंशदिशो वा दारसम्भवः । शुक्रजामित्रतो वाऽपि दारेशस्य दिशोऽथवा ॥ कलत्रसंस्थस्य तदीक्षकस्य लग्नात्तदीशस्य च चन्द्रतो वा ।

४३० सटीकजातकपारिजाते- दिङ्ग्जातमात्रं प्रवदेत् कलत्रं पुंसोऽङ्गनायाश्च पतिं तथैव ॥ कामस्थकामाधिपभार्गवानामृक्षं दिशं शंसति तस्य पत्न्याः ॥ इति ॥ ३३ ॥ पुरुषके चन्द्रमासे सप्तममें स्थित तथा सप्तमको देखनेवाले ग्रह उसकी राशि में उत्पन्न होनेवाली स्त्री अत्यन्त सुन्दरी और पतिप्रिया होती है । स्त्री जातकमें ऐसा हो तो स्त्रियों के मनोरथ पूर्ण करनेवाला पति होता है । शुक्रसे सप्तमेशकी दिशाकी स्त्री कहे । याने जातक की शादी शुक्रसे सप्तमेशकी दिशामें कहनी चाहिये ॥ ३३ ॥ अथ वरवधूजातकसंयोगः । इदानीं वरस्य वध्वाश्च जातकसंयोगमाहेत आरभ्य श्लोकश्चतुर्द्दशभिः- धनावसानस्मरयानरन्ध्रगो धरासुतो जन्मनि यस्य दारहा ॥ तथैव कन्याजनजन्मलग्नतो यदि क्ष्मासूनुरनिष्टदः पतेः ॥ ३४ ॥ धनेति । यस्य पुरुषस्य जन्मनि = जन्मकाले धरासुतः = मङ्गलः, धनावसानस्मर- यानरन्ध्रगः = द्वितीय-द्वादश-सप्तम-चतुर्थाष्टमानामन्यतमगतः स्यादसौ पुरुषो दारहा = स्त्रीविनाशकः भवेदर्थात्तस्य नरस्य स्त्री न जीवेदित्यर्थः । कन्याजनजन्मलग्नतो यदि क्ष्मासूनुः = मङ्गलः तथैव = धनावसानस्मरयानरन्ध्र- ( २।१२।७।४।८ ) गतः स्यात् तदा पतेः = स्वामिनः अनिष्टदः = मृत्युकरः भवेदिति । अत्र योगे जाता कन्याऽपि भर्तृविनाशिनी भवतीति भावः । अत्र वध्वा वरस्य च जन्म- लग्नगतो भौमोऽशुभ उक्तः । अत्रोपलभ्यतेऽपि विशेषवचनम्- “लग्ने व्यये च पाताले जामित्रे चाष्टमे कुजे । कन्या भर्तृविनाशाय भर्त्ता कन्याविनाशकृत्” इति ॥ ३४ ॥ जिस पुरुषके द्वितीय, द्वादश, सप्तम, चतुर्थ वा अष्टममें मंगल हो वह (दारहा) स्त्री का नाशक होवे । इसी प्रकार कन्या के लग्नसे (२-४-७-८-१२) भावमें यदि मंगल हो तो पतिका अनिष्ट करनेवाली होती है । “धना” की जगह “लग्ना” पाठमें अन्य ग्रन्थोंसे भी सहयोग होगा । क्योंकि “लग्ने व्यये च पाताले जामित्रे चाष्टमे कुजे” इससे १-४-७-८ १२ ये स्थान अनिष्टकर अन्य ग्रन्थोंमें दृष्टि गोचर होते हैं ॥ ३४ ॥ क्रूरव्योमचरः स्त्रीणामष्टमस्थो विलग्नतः । नीचारिपापवर्गेषु यदि मृत्युकरः पतेः ॥ ३५ ॥ क्रूरैति । क्रूरव्योमचरः = कश्चित्पापग्रहः नीचारिपापवर्गेषु विद्यमानः सन् यदि स्त्रीणां विलग्नतः=जन्मलग्नात् अष्टमस्थो भवेत् तदा तस्याः पतेः=स्वामिनः मृत्युकरो भवेदिति॥३५॥ स्त्रियोंके लग्नसे अष्टम क्रूरग्रह नीच, शत्रु, पापके वर्गमें हो तो पतिकी मृत्यु करने वाला होता है ॥ ३५ ॥ द्यूनकुटुम्बगतौ यदि पापौ दारवियोगजदुःखकरौ तौ । तादृशयोगजदारयुतश्चेज्जीवति पुत्रधनादियुतश्च ॥ ३६ ॥ द्यूनकुटुम्बगताविति । पापौ = द्वौ पापग्रहौ यदि द्यूनकुटुम्बगतौ = सप्तमद्वितीयगतौ भवेताम्, (एकः सप्तमे, एको द्वितीये इति) तदा तौ दारवियोगजदुःखकरौ = स्त्रीवियोग- जनितदुःखदायिनौ भवेताम् । अस्मिन्योगे जातस्य पुरुषस्य स्त्री म्रियत इत्यर्थः । अथासौ पुरुषो यदि तादृशयोगजदारयुतः = तादृशे योगे ( द्यूनकुटुम्बगतौ यदि पापावित्यस्मिन् ) जातः दारैः (स्त्रीभिः) युतो भवेत् अर्थात् तस्य जातस्य स्त्रिया जन्मकुण्डल्यामपि पापौ द्वितीय- सप्तमौ भवेतां तदा पुत्रधनादियुतश्च जीवति । न तदानीं दम्पत्योरकाले मरणमिति भावः॥३६॥ यदि पापग्रह सप्तम और द्वितीय स्थानमें हों तो दोनों स्त्रीवियोगोत्पन्न दुःख देनेवाले होवें । ऐसे ही योगवाली उसकी स्त्री हो तो पुत्र धनादिसे युक्त होकर जीवे ॥ ३६ ॥

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४३१ कलत्रराशित्रितयेऽथवा स्यात्तदीशसंयुक्तभराशिकोणे । कलत्रराशैर्यदि पुत्रशाली तदन्यराशैर्यदि पुत्रहीनः ॥ ३७ ॥ कलत्रेति । पुरुषजन्मकुण्डल्याम्—कलत्रराशित्रितये=कलत्रराशेर्भेदत्रये ( कलत्रेशो यत्र भवेत् १, तस्योच्चं नीचं वा २, कलत्रराशिः ३ इति कलत्रस्य भेदत्रयं भवति ) किंवा सप्तमादित्रये, अथवा तदीशसंयुक्तभराशिकोणे=सप्तमेशस्थितराशेः कोणे ( ५।९ ) यदि कलत्रराशिः = स्त्रिया जन्मराशिः स्यात्तदा जातः पुत्रशाली भवेत् । तस्मिन् यदि तदन्यराशिः = स्त्रिया जन्मराशेर्भिन्नो राशिः स्यात्तदा पुत्रहीनो भवेदिति ॥ ३७ ॥ पुरुषके कलत्र* राशित्रयमें वा सप्तमेशसे संयुक्त राशिके कोणमें यदि उसके स्त्रीकी राशि हो तो पुत्रशाली ( पुत्रवान् ) हो । उससे अन्य राशि हो तो पुत्रहीन होवे ॥ ३७ ॥ अथ स्त्रियाः स्तनविचारः । काठिन्योरुकुचा मदे दिनकरे कामाधिपे केन्द्रगे जीवेन्दुज्ञसितान्विते गुरुकुचा, शुष्कस्तना भूमिजे । लम्बापीनपयोधरा सगुलिकच्छायासुताहिश्वजे, धूमादौ विषमाकृतिस्तनवती दुःस्थेऽथवा कामपे ॥ ३८ ॥ इदानीं कथम्भूता स्त्री भवेदित्याह—काठिन्येति । दिनकरे = सूर्ये, मदे=सप्तमे स्थिते सती जातस्य स्त्री काठिन्योरुकुचा=काठिन्यं=घनत्वमुपगतावूरू = जघनौ, कुचौ = स्तनौ च यस्यां सा तथाभूता भवेत् । जीवेन्दुज्ञसितान्विते = गुरु-चन्द्र-बुध-शुक्रान्यतमेन सहिते कामाधिपे = सप्तमभावेशे केन्द्रगे सति स्त्री गुरुकुचा = पीनपयोधरा भवेत् । भूमिजे=मङ्गले सप्तमगे सति शुष्कस्तना = गलत्कुचा भवेत् । सगुलिकच्छायासुताहिश्वजे = गुलिकेन सहिते छायासुते = शनौ, अहिश्वजे = राहुकेत्वोरन्यतरे वा सप्तमे गतवति सति स्त्री लम्बापीनपयो- धरा = लम्बायमानावपीनौ ( स्थूलौ ) च पयोधरौ ( कुचौ ) यस्यास्तथाभूता भवेत् । धूमादौ = सप्तमे भावे धूमाद्युपग्रहे सति स्त्री विषमाकृतिस्तनवती = असमान-(लघुमहत्-) पयोधरधरा भवेत् । अथवा कामपे = सप्तमेशे दुःस्थे सत्यपि विषमाकृतिस्तनवती स्त्री भवेदिति ॥ ३८ ॥ सूर्य सप्तममें हो तो उसके स्त्रीकी जांघें और स्तन कठिन हों। सप्तमेश केन्द्रमें हो बृह- स्पति, चन्द्रमा, बुध या शुक्रसे युक्त हो तो स्त्रीके स्तन बड़े हों। यदि ७ वेंमें मङ्गल हो तो शुष्क स्तन हों। गुलिकके साथ शनि, राहु या केतु हों तो लम्बे मोटे स्तन हों। सप्तमेश दुष्टस्थानमें हो अथवा सप्तममें धूमादि उपग्रह हो तो स्त्री विषमस्तनवाली हो ॥ ३८ ॥ अथ गम्यस्त्रीविवरणम् । बन्ध्यासङ्गमिनेऽस्तगे समयधूकेलिं निशानाथके भूपुत्रे तु रजस्वलाजनरतिं बन्ध्यावधूमेति वा । वेश्यामिन्दुसुते तु विप्रवनितां जीवे सिते गर्भिणीं नीचस्त्रीरतिमर्कजोरगशिखिप्राप्तेऽथवा पुष्पिणीम् ॥ ३६ ॥ इदानीं कथम्भूतया स्त्रिया सह सङ्गो भवेदित्याह—बन्ध्येति । इने = सूर्ये, अस्तगे = सप्तमभावगते सति पुरुषो बन्ध्यासङ्गं करोति । निशानाथके = चन्द्रे सप्तमगते सति समव- धूकेलिं = स्वसमानरूपगुणवयोयुतया वध्वा सह केलिं = रतिक्रीडां करोति । भूपुत्रे = भौमे सप्तमे सति रजस्वलाजनरतिं करोति । अथवा बन्ध्यावधूम एति = प्राप्नोति । इन्दुसुते = बुधे

  • कलत्रनाथस्थितभं तदीयराशिं कलत्रस्य विदुर्महान्तः । 29 तस्योच्चनीचं यदिवा कलत्रराशिं तदंशत्रितयं तदीयम् ॥

तृणकाष्ठविरचितं गृहं वाच्यम् । बुधे चतुर्थे सति विहारस्थलं = विहरणभूमिः । जीवे चतुर्थे सति देवगृहं = देवालयः=मठमन्दिरादि । सिते = शुक्रे चतुर्थे सति तु सलिलं = जलाशय- तटम् । अथ मन्दे = शनौ, पन्नगे = राहौ, केतौ वा चतुर्थे सति माधव-शङ्कर-प्रिया-सुत- स्थानं वधूसङ्गमे = स्त्रीप्रसङ्गे स्थानं वाच्यमिति ॥ ४० ॥ सुख स्थान में सूर्य हो तो वनमें (गृहातिरिक्त स्थानमें) रतिक्रीड़ा हो । चन्द्रमा हो तो रमणीय गृहमें विहार हो । मङ्गल हो तो कुटीमें रमण हो । बुध हो तो विहारके ही स्थानमें विहार हो । गुरु हो तो देवागारमें केलि हो । शुक्र हो तो जलके समीप क्रीडा हो । शनि वा राहु, केतु हो तो विष्णु, शङ्कर, देवी, गणेश, आदि देवताओंके मन्दिरमें मैथुन करे ॥४०॥ शुक्रांशे मदनस्थितेऽवनिसुते कामाधिपे पञ्चमे । जायारिष्टमुपैति सप्तमगते भानौ कलत्रार्थवान् । [L

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४३३ अथ भगचुम्बनयोगः। जातः समेति भगचुम्बनमस्तनाथे शुक्रेण वीक्षितयुते भृगुमन्दिरे वा । एवं कुटुम्बभवनाधिपतौ तथा स्याद् दारर्क्षगे दशमपे ससिते तथैव ॥ ४२ ॥ इदानीं भगचुम्बनयोगमाह—जात इति । १. अस्तनाथे = सप्तमेश्वरे शुक्रेण वीक्षिते वा भृगुमन्दिरे = वृषतुलयोरन्यतरे यत्र तत्र गते सति जातः भगचुम्बनं समेति । अस्मिंल्लक्षणे जातो नरः स्त्रीभगस्य चुम्बनं कुर्यादिति । २. कुटुम्बभवनाधिपतौ = द्वितीयेशे एवमुक्तल- क्षणसंयुक्ते (शुक्रेण वीक्षितयुते भृगुमन्दिरे वा ) तथा स्यादर्थाज्जातो भगचुम्बनमेति । अपि च ३. ससिते = शुक्रसंयुक्ते दशमपे = दशमभावेशो, दारर्क्षगे = सप्तमभावगते सति तथैवार्थाज्जातो भगचुम्बनं समेतीति ॥ ४२ ॥


[कुण्डली १]

भावग्रह / राशि
१ (लग्न)३ ल.
शु.
१ (भगचुम्बन योगः)
वृ. ७

[कुण्डली २]

भावग्रह / राशि
१ (लग्न)३ ल.
चं. २
२ (भगचुम्बन योगः)
शु.
१२

सप्तमेश यदि शुक्रसे दृष्ट या युत हो तो जातक भग (योनि) का चुम्बन करे। शुक्रके गृहमें सप्तमेश हो तो भी यही फल हो। इसी प्रकार द्वितीयेशके होने पर भी फल होता है। दशमेश शुक्रके साथ सप्तममें हो तो भी यही फल होता है ॥ ४२ ॥


[कुण्डली ३]

भावग्रह / राशि
१ (लग्न)३ ल.
१२
३ (भगचुम्बन योगः)
९ वृ. शु.

अथ स्त्रिया भगविचारः । कामेश्वरो देवगुरुः सितो वा समं भगं चारुतरं तरुण्याः । ह्रस्वं भगं सप्तमराशिनाथे शनीन्दुतार्रासुतमध्ययाते ॥ ४३ ॥ दीर्घं समेति भगमस्तपतौ जलर्चे तत्कारके जलगृहोपगते तथैव । सार्द्रं भगं मदनगे भृगुवीक्षितेऽब्जे गुह्यं त्वनार्द्रमुपयाति वधूः सपापे ॥४४॥ इदानीं जातकस्थ स्त्रिया भगविचारमाह—कामेश्वर इति । देवगुरुः = बृहस्पतिः वा सितः = शुक्रः, कामेश्वरः = सप्तमभावपतिः स्याच्चेत्तदा तरुण्याः = स्त्रियाः समं = नाति- ह्रस्वं नातिदीर्घं च चारुतरम् = अतीव चिक्कणं, भगम् = योनिः स्यात् । मेषवृश्चिकयोः मिथुनकन्ययोर्वाऽन्यतरे लग्ने सति अयं योगः सम्भवेत् । सप्तमराशिनाथे = सप्तमेशे शनी- न्दुतार्रासुतमध्ययाते = शनिचन्द्रबुधमध्यगते सति स्त्रिया ह्रस्वं = लघुप्रमाणकं भगं स्यादिति ॥४३॥ दीर्घमिति । अस्तपतौ = सप्तमेशे, जलर्चे = जलचरराशौ = मृगापरार्द्धान्त्यकुलीरसंज्ञे, सति, दीर्घं = महत्प्रमाणकं भगं (योनिम्) समेति । तत्कारके = सप्तमभावकारकग्रहे (शुके) जलगृहोपगते = जलचरराशौ गतवति सति तथैवार्थाद्दीर्घं भगं समेति । ३७ जा०

४३४ सटीकजातकपारिजाते- सार्द्रमिति। अब्जे = चन्द्रे, मदनगे = सप्तमभावगते, तस्मिन् भृगुवीक्षिते = शुक्रेणाव- लोकिते च सति सार्द्रं = क्लिन्नं (सजलमिति) भगं समेति। अथ तादृशेऽब्जे सपापे = पाप- ग्रह-संयुक्ते सति वधूः = स्त्री, अनाद्रं = शुष्कं, गुह्यं = रहस्यदेशं = भगम्, उपयाति = प्राप्नोतीति। Notes—एते योगाः स्त्रियाः पुरुषस्य च जन्मकुण्डल्यां समफला एव भवन्तीति चिन्त्यम् ॥ ४४ ॥ सप्तमेश, बृहस्पति या शुक्र हो तो उसके स्त्रीकी योनि सम और अच्छी हो। सप्तमेश यदि शनि, चन्द्र और बुधके मध्यमें हो तो योनि छोटी हो ॥ ४३ ॥ सप्तमेश जलचर राशिमें हो तो बड़ी योनि हो। उसका (स्त्रीभावका) कारक ग्रह जलर्क्षमें हो तो भी बड़ी योनि हो। चन्द्रमा सप्तममें हो उसे शुक्र देखता हो तो सार्द्रं (भींगी हुई या अत्यन्त शीतल) भग हो और सप्तममें पापग्रह हो तो योनि आर्द्र न हो शुष्क हो ॥ ४४ ॥ लग्नेशस्थनवांशनाथगृहगे जीवे समेति स्त्रियं नीचारातिनवांशके सति मृतस्त्रीको विदारोऽथवा। लग्ने कामपतिस्फुटादपहृते राशित्रिकोणे गुरौ लग्ने सप्तमराशिपात्स्फुटहृते जीवे मृतिं योषितः ॥ ४५ ॥ लग्नेशेति। लग्नेशस्थनवांशनाथगृहगे = लग्नेशो यन्नवांशे तिष्ठति तन्नवांशनाथो ग्रहो यद्गृहगतो भवेत् तत्र गतवति जीवे = गुरौ सति जातः स्त्रियं समेति प्राप्नोति। नीचारातिनवांशके = तथाभूते जीवे स्वनिचराशेः, शत्रुग्रहस्य वा नवांशे सति जातः मृतस्त्रीकः, अथवा विदारः = स्त्रीरहितः (अविवाहितः) भवेत्। अथ स्त्रीमरणमाह—लग्न इति। कामपतिस्फुटात् = स्पष्टसप्तमेशग्रहात् लग्ने अप- हृते = विशोधिते यच्छेषं स्यात्तद्राशित्रिकोणे गतवति गुरौ, अथवा लग्ने सप्तमराशिपात्स्फु- टेन हृते रहिते (ऊनीकृते) यच्छेषं तद्राशौ गतवति गुरौ योषितः = जातकस्य पत्न्याः मृतिं वदेदिति ॥ ४५ ॥ लग्नेश जहां हो वहांके नवांशपतिके गृहमें जब गुरु हो तो स्त्री प्राप्त हो। यदि लग्नेश नीच या शत्रुके नवांशमें हो तो स्त्री मरे, या बिना स्त्रीका ही रहे। स्पष्ट सप्तमेशमेंसे लग्न को घटानेसे शेष राशिसे त्रिकोणमें गुरुके होने पर या लग्नमें स्पष्ट सप्तम राशिपतिके घटाने पर शेषमें गुरु हो तो स्त्रीकी मृत्यु कहे ॥ ४५ ॥ लग्नात्कामपकारकौ शुभकरौ वीर्याधिके सप्तमे पत्या साकमुपैति मृत्युमबला पापैर्युक्तेक्षिते। कामच्छिद्रदशापहारसमये शुक्राष्टवर्गोदिते राशौ भानुसुते कलत्रकरणं जीवे तदंशान्विते ॥ ४६ ॥ लग्नादिति। जन्मलग्नात् यः कामपतिः = सप्तमेशः, कारकः = स्त्रीकारकश्च तौ यदि शुभकरौ = शुभग्रहौ सप्तमे भवेतां तथा सप्तमे भावे वीर्याधिके = पूर्णबलान्विते तस्मिन् पापैर्युक्तेक्षिते = पापयोगदृष्टिवर्जिते सति अबला = स्त्री, पत्या = भर्त्रा, साकं = सहैव मृत्यु- मुपैति। अस्मिन् योगे सकृदेव दम्पत्योर्मरणं भवतीति भावः। कलत्रमरणमाह—कामच्छिद्रदशापहारसमये = सप्तमस्थानाधिकर्तृकच्छिद्रग्रहस्य (अ० ५, श्लो० ५२-५३ द्र०) दशापहारकाले, शुक्राष्टवर्गोदिते = पूर्वोक्त (अ० १०) शुक्रा- ष्टवर्गकथितराशौ भानुसुते = शनैश्चरे, तथा तदंशान्विते = तद्राश्यंशे गतवति गुरौ च कल- त्रमरणं = स्त्रीमरणं स्यादिति ॥ ४६ ॥ लग्नसे सप्तमेश और ७ मका कारक शुभग्रह हों, सप्तम भाव बली हो उसपर पापग्रहों का

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४३५ योग या दृष्टि नहीं हो तो स्त्री पतिके साथ मरे । सप्तम भावसे छिद्र ग्रहकी दशा प्राप्त होने पर शुक्रके अष्टवर्गोक्त राशिमें शनि हो और उसके नवांशमें जब गुरु हो तब स्त्रीकी मृत्यु कहे ॥ ४६ ॥ तद्दनभवननाथे पारिजातादिवर्गे सुरगुरुयुतदृष्टे शोभनस्थानयाते । दधिमधुघृतसूपक्षीरपक्कोपदेशैः सह शुचि रुचिरान्नं चारुकान्तामुपैति ॥ ४७ ॥ स्पष्टार्थः ॥ ४७ ॥ इति सप्तमभावविचारः । सप्तमेश अपने पारिजातादि वर्गमें हो, गुरुसे युक्त या दृष्ट हो, शुभ स्थानमें हो तो दधि-मधु-घी-दाल-दूध पक्व पदार्थोंके साथ सुन्दर अन्नका भोजन और रमणीय स्त्री प्राप्त होती है ॥ ४७ ॥ अथाष्टमभावफलम् । अथाधुनाऽष्टमभावफलानि विवक्षुरादौ तत्र विचारणीयकथनपूर्वक मल्पायुर्योगद्वयमाह— आयुर्दायमनिष्टहेतुमुदयव्योमायुरीशार्कजै- रुक्तं तत्सकलं तथापि निधनप्राप्तिं प्रवक्ष्ये पुनः । अल्पायुर्व्ययगोऽथवा रिपुगते पापान्विते रन्ध्रपे लग्नेशेन युते तु तत्र विबले जातोऽल्पजीवी नरः ॥ ४८ ॥ आयुर्दायमिति । उदयव्योमायुरीशार्कजैः = लग्नेश-दशमेशा-ष्टमेश-शनैश्चरैः, जा- तस्यायुर्दायम् , अनिष्टहेतुं = मरणकारणं च विचारयेदिति सकलं पूर्वमुक्तम् ( आयुर्दाया- ध्यायेऽरिष्टाध्याये ) तथापि पुनः निधनप्राप्तिं प्रवक्ष्ये । अत्राष्टमेशाष्टमभावाभ्यामायु र्विचारो निधनविचारश्च कार्य इति तात्पर्यम् । अल्पायुरिति । पापान्विते=पापग्रहेण सहिते रन्ध्रपे = अष्टमभावपतौ व्ययगे = द्वादशे, अथवा रिपुगते = षष्ठमुपगते जातः अल्पायुर्भवेत् । अथ तत्र = रन्ध्रपे तथाभूते विबले लग्ने- शेन युते च जातो नरः अल्पजीवी भवेदिति । Notes—यस्य भावस्याधिपतिः षडष्टव्ययगतो भवति तस्य भावस्य हानिरिति सामान्यो नियमस्तेनाष्टमभावादायुषो विचारस्य सद्भावादष्टमेशे षष्ठे व्यये वा गतेऽल्पायुर्बुद्ध- मिति किं चित्रम् ॥ ४८ ॥ लग्न दशम और अष्टमके स्वामी और शनिसे आयुर्दाय तथा अनिष्टका कारण पहले कहा है, तथापि फिर अष्टमभाव प्रसङ्गसे सब कहते हैं । अष्टमेश द्वादश वा षष्ठ भावमें पापग्रहसे युक्त होतो जातक अल्पायु होवे । वहीं ( १२।६ ) पर यदि अष्टमेश बलहीन तथा लग्नेशके साथ हो तो जातक अल्पजीवी होवे ॥ ४८ ॥ स्वस्थे रन्ध्रपतौ चिरायुरुदयच्छिद्राधिपौ षष्ठगौ रिष्फस्थौ यदि वा समेति मनुजो जातश्चिरायुर्बलम् । व्यापारोदय रन्ध्रराशिपतयः केन्द्रत्रिकोणायगा दीर्घायुर्विबलाः सभानुतनया यद्यल्पमायुर्वदेत् ॥ ४९ ॥ अधुना दीर्घायुर्योगानाह—स्वस्थ इति । रन्ध्रपतौ = अष्टमेशे स्वस्थ्ये = स्वराशिस्थे ( अत्र सूर्यचन्द्रान्यतरस्याष्टमेशत्वे सति स्वस्थ्ये = अष्टमस्थे इत्येवमेव ) जातश्चिरायुः = दीर्घजीवी स्यात् । उदयच्छिद्राधिपौ = लग्नेशाष्टमेशौ, षष्ठगौ, वा रिष्फस्थौ = द्वादशगतौ यदि स्याताम् तदा जातः मनुजः चिरायुर्बलं समेति = दीर्घजीवी भवतीति । व्यापारोदय रन्ध्रराशिपतयः = दशमेश-लग्नेशा-ष्टमेशाः यथासम्भवं केन्द्रत्रिकोणाय- ( १।४।७।१०।५।९।११ ) गाः भवेयुस्तदा जातो दीर्घायुः स्यात् ।

४३६ सटीकजातकपारिजाते- अथालपायुराह—विवला इति । एत एव तथा भूता ग्रहाः भानुतनयाः = सूर्यपुत्रेण ( शनिना ) सहिताः यदि विबलाः = निर्बला भवेयुस्तदा अल्पमायुर्वदेत् । तदानीं जातो- ऽल्पायुर्भवेदिति ॥ ४९ ॥ अष्टमेश अपने स्थानमें हो तो दीर्घायु हो । लग्नेश और अष्टमेश दोनों छठे भावमें हों या द्वादशमें हों तो जातक दीर्घायु होवे। दशम, लग्न और अष्टमके स्वामी केन्द्र, त्रिकोण या एकादश भावमें प्राप्त हों तो दीर्घायु हो । यदि वे शनिके साथ हों तो अल्पायु कहे ॥ ४९ ॥ कर्मेशारन्ध्रतनुपा बलशालिनश्चेज्जातश्चिरायुरिननन्दनयोगहीनाः । द्वावप्यतीव बलिनौ यदि मध्यमायुरेको बली लघुतदायुरनायुरन्यः ॥ ५० ॥ इदानीं दीर्घ-मध्य-लघु-हीनायुर्योगानाह—कर्मेशेति । चिरायुः—कर्मेशारन्ध्रतनुपाः = दशमेशाष्टमेशलग्नेशाश्चेद्यदि बलशालिनः = पूर्णबलाः ( त्रयोऽपि ) भवेयुस्तथा इननन्दनयोगहीनाः = शनैश्चरयोगरहिताश्च भवेयुस्तदा जातश्चिरायुः= दीर्घजीवी स्यात् । अत्र पूर्णबला अपि शनियोगसहिता न तावद्‌दीर्घायुष्कराः स्युरिति ज्ञेयम् । मध्यायुः—यदि तेषु ( कर्मेशाष्टमेशलग्नेशेषु ) द्वावपि कौचिदतीव बलिनौ भवेताम् तदा मध्यमायुः स्यात् । अल्पायुः—यदि तेषु त्रिषु कश्चिदेको बली भवेत् तदा लघुतदायुः = अतिलघ्वायुः = अल्पायुर्भवेत् । हीनायुः—अन्यः अनायुर्थात् तेषु न कश्चिदपि बली स्यात् अत्युत लग्नेशाष्टमेशदश- मेशाः निर्बला भवेयुस्तदा अनायुः = हीनायुः भवेदिति ॥ ५० ॥ दशमेश, अष्टमेश, लग्नेश बली हों और शनिका योग न हो तो जातक चिरायु होता है। इनमें दो यदि अत्यन्त बली हों तो मध्यमायु हो । एक बली हो तो अल्पायु हो यदि तीनोंमें कोई बली नहीं हो तो आयु नहीं होती है ॥ ५० ॥ रन्ध्राधिपे पापगृहोपयाते दुःस्थानगे पापयुतेऽल्पमायुः । शुभान्विते शोभनराशियुक्ते शुभेक्षिते रन्ध्रगते चिरायुः ॥ ५१ ॥ इदानीमल्पायुश्चिरायुर्योगमाह—रन्ध्राधिप इति स्पष्टार्थ एवेत्यलम् ॥ ५१ ॥ अष्टमेश पापगृहमें प्राप्त हो दुष्ट स्थानमें पापग्रह युत हो तो अल्पायु होवे । वही यदि शुभग्रह से युक्त शुभराशिमें हो या शुभदृष्ट अष्टममें प्राप्त हो तो चिरायु होवे ॥ ५१ ॥ नाशस्थे तनुपेऽथवा निधनपे पापेन युक्तेक्षिते मूढेऽदृश्यगतेऽथवा रिपुगृहे जातो गतायुर्भवेत् । दीर्घायुर्निजतुङ्गगे शुभयुते केन्द्रत्रिकोणोऽथवा रन्ध्रे रन्ध्रपतौ चिरायुरुदयं यातो विलग्नाधिपे ॥ ५२ ॥ नाशस्थ इति । तनुपे = लग्नेशे, अथवा निधनपे = अष्टमेशे, नाशस्थे = अष्टमभाव- गते, केनचित् पापेन युक्तेक्षिते = सहिते वा दृष्टे, मूढेऽदृश्यगते=सूर्येण सहादृश्यकालांशान्त- र्गते परमास्तं गत इत्यर्थः, अथवा रिपुगृहे = षष्ठभावगते सति जातः गतायुः = आयू- रहितः भवेन्न जीवेदित्यर्थः । अथ चिरायुः—तस्मिन्नेव तनुपेऽथवा निधनपे शुभयुते निजतुङ्गगे = स्वकीयोच्चंगते केन्द्रत्रिकोणौ वा गतवति चिरायुः स्यात् । अथवा रन्ध्रपतौ, रन्ध्रे = अष्टमे, विलग्नाधिपे= लग्नेशे, उदयं याते = लग्नं गते जातश्चिरायुर्भवेदिति ॥ ५२ ॥ लग्नेश अष्टममें हो वा अष्टमेश पापग्रहसे युक्त या दृष्ट होकर अस्तं गत हो अथवा शत्रु- गृहमें हो तो जातक आयु रहित हो । अष्टमेश अपनी उच्चराशिमें शुभग्रहयुत हो, केन्द्रत्रि- कोणमें हो तो दीर्घायु हो । अथवा अष्टमेश ८ वें हो लग्नेश लग्नमें हो तो जातक चिरायु होवे ॥ ५२ ॥

सप्तमाष्टमनवमभावफलाध्यायः ।।१४।। ४३७ लग्नादन्त्यगृहाधिपे बलवति स्वर्क्षे चिरायुः सुखी लग्नेशो यदि रन्ध्रपश्च बलिनौ केन्द्रस्थितौ चेत्तथा । आधानोदयराशितोऽष्टमगृहान्मेषूरणं जन्मभं शुक्रज्ञामरवन्दितेक्षितयुतं यद्यायुरारोग्यभाक् ॥ ५३ ॥ लग्नादिति । लग्नादन्त्यगृहाधिपे = द्वादशभावपतौ बलवति स्वर्क्षे च गतवति जातः चिरायुः सुखी च भवेत् । लग्नेशः, रन्ध्रपः = अष्टमेशश्चैतौ यदि बलिनौ केन्द्रस्थितौ च भवेताम् तदा तथा = चिरायुः सुखी च भवेदिति । आधानोदयराशितः = गर्भाधानकालीनलग्नात्, वा अष्टमगृहात्=जन्मकालीनाष्टमभावात् मेषूरणं=दशमभावः, अथवा जन्मभं = जन्मकालीनचन्द्रराशिः यदि शुक्रज्ञामरवन्दितेक्षितयुतं= शुक्रबुधजीवान्यतमेन दृष्टः युतो वा स्यात् तदा आयुष्मान्, आरोग्यश्च भवेदिति ॥ ५३ ॥ लग्नसे द्वादशका स्वामी अपनी राशिमें बलवान् हो तो जातक चिरायु और सुखी होवे । यदि लग्नेश और अष्टमेश बली हों, केन्द्रमें हों तो भी वही फल हो । यदि गर्भा- धानकी लग्नराशिके अष्टम गृहसे दशवीं राशि, या जन्मलग्न शुक्र-बुध-बृहस्पतिसे दृष्ट या युत हो तो जातक आयुष्मान् और आरोग्य हो ॥ ५३ ॥ अथ मृत्युविचारः । रन्ध्रेशे रिपुरन्ध्ररिष्फगृहगे तत्पाकभुक्तौ मृतिं मन्दाक्रान्तगृहेशपाकसमये रन्ध्रेशभुक्तौ तथा ॥ पाके रन्ध्रगृहाधिपस्य तदनुक्रान्तस्य भुक्तौ तु वा खेटानां बलदुर्बलेन सकलं संचिन्त्य यत्तद्वदेत् ॥ ५४ ॥ अधुना मृत्युविचारः क्रियते—रन्ध्रेश इति । १. अष्टमभावपतौ रिपुरन्ध्ररिष्फगृहगे = षष्ठाष्टमद्वादशान्यतमभावगते सति तत्पाक- भुक्तौ = अष्टमेशदशान्तर्दशाकाले मृतिं = जातकस्य मरणं वदेत् । २. मन्दाक्रान्तगृहेशपाकसमये = जन्मकाले शनिर्यस्मिन् राशौ भवेत्तद्राशीशग्रह- दशायाम्, रन्ध्रेशभुक्तौ = अष्टमेशान्तर्दशाकाले, तथा = जातस्य मृतिं वदेदिति । ३. अथवा रन्ध्रगृहाधिपस्य = अष्टमभावपतेः, पाके = दशायाम्, तदनुकान्तस्य = अष्टमभावपतेः सङ्गतस्य ग्रहस्य, भुक्तौ = अन्तर्दशाकाले जातस्य मृतिं वदेत् । अत्रोक्तयोगत्रये खेटानां = मरणयोगकर्तृग्रहाणां बलदुर्बलेन (बलाबलविचारणपूर्वकम् ) सकलं, संचिन्त्य = विविच्य, यत् = यद्ग्रहदशायां सम्भवः स्यात्तद्ग्रहदशान्तर्दशाकाले तन्मरणं वदेदिति ॥ ५४ ॥ अष्टमेश, षष्ठ, अष्टम, द्वादश गृहमें हो तो उसकी दशामुक्तिमें मृत्यु हो। शनि जिस गृहमें हो उस गृहके स्वामीकी दशामें रन्ध्रेशकी भुक्ति (अन्तर्दशा) में मृत्यु हो । वा अष्टमेश की दशामें अष्टमस्थ ग्रहकी अन्तर्दशामें मृत्यु हो। यहां ग्रहोंके बलाबलसे सब विचार कर फल कहे ॥ ५४ ॥ लग्नेशे निधनारिरिष्फगृहगे साहौ सकेतौ तु वा होरारन्ध्रपसंयुक्तग्रहदशा जातस्य मृत्युप्रदा ॥ तत्खेटान्वितराशिनायकदशा नाशप्रदा देहिनां खेटानां प्रथमागतस्य फणिनः पाकापहारे क्रमात् ॥ ५५ ॥ लग्नेश इति । साहौ = राहुणा सहिते, वा सकेतौ = केतुयुक्ते लग्नेशे निधनारि- रिष्फगृहगे = अष्टम-षष्ठ-व्ययान्यतमभावमुपगते सति होरारन्ध्रपसंयुक्तग्रहदशा = लग्नेशा- ष्टमेशान्यतरेण सहितस्य ग्रहस्य दशा जातस्य मृत्युप्रदा भवति ।

४३८ सटीकजातकपारिजाते- अथ यदि लग्नेशेनाष्टमेशेन वा न कश्चिद् ग्रहः संयुतो भवेत्तदा तत्खेटान्वितराशि- नायकदशा = तेन खोटेन (लग्नेशाष्टमेशान्यतरेण) अन्वितो यो राशिरर्थाल्लग्नेशाष्टमे- शान्यतरो ग्रहो यस्मिन् राशौ भवेदित्यर्थः, तन्नायकस्य = तद्राशीशग्रहस्य दशा देहिनां = जनिमतां नाशप्रदा = मृत्युदा भवति । अथोक्तग्रहदशायां कदा मरणमित्याह- खेटानामिति । योगकर्तृग्रहाणां प्रथमागत- स्य = पूर्व प्राप्तस्य फणिनः = राहोः क्रमात् पाकापहारे = भुक्तौ मरणम् । अत्रेदं तावदवधे- यम् । मृत्युदशायां राहुप्रभृतिग्रहदशाभुक्तिर्मृत्युकर्त्री भवति, न ततः पूर्वमिति ॥ ५५ ॥ लग्नेश अष्टम, षष्ठ या द्वादश गृहमें हो, राहुके साथ वा केतुके साथ हो तो लग्नेश या अष्टमेशसे संयुक्त ग्रहकी दशा मृत्यु देनेवाली हो । यदि लग्नेश या अष्टमेशके साथ ग्रह न हो तो उससे युक्त राशिके स्वामी की दशा मनुष्योंको नाश करने वाली होती है। पूर्वोक्त ग्रहों में क्रमसे पहले राहु की अन्तर्दशा प्राप्त होने पर मृत्यु कहे ॥ ५५ ॥ व्यापाररन्ध्रतनुनाथशनैश्चराणां मध्ये विधुन्तुदयुतो विबलग्रहो यः । तत्पाकभुक्तिसमये मरणं नराणां तद्युक्तवीक्षकनभोगदशान्तरे वा ॥ ५६ ॥ व्यापारेति । दशमेशाष्टमेशलग्नेशशनैश्चराणां चतुर्णां मध्ये यो ग्रहो विबलो विधुन्तु- दयुतः = राहुयुतो भवेत् तस्य ग्रहस्य पाकभुक्तिसमये, अथवा तद्युक्तस्य ग्रहस्य, तद्वीक्षकस्य ग्रहस्य वा दशान्तरे नराणां मरणं वाच्यम् ॥ ५६ ॥ दशमेश, अष्टमेश, लग्नेश और शनिके मध्यमें राहुयुत और बलरहित जो ग्रह हो उस की दशा भुक्तिमें मनुष्योंका मरण होता है। वा उसके साथी या दर्शी ग्रहकी अन्तर्दशा में मृत्यु होती है ॥ ५६ ॥ नाशे नाशपतौ तु तद्ग्रहदशाभुक्तौ समेत्यामयं लग्ने लग्नपतौ तु लग्नपदशाभुक्तौ शरीरातभाक् ॥ पश्चादामयनाशनं तनुसुखं मोदश्च सञ्जायते रन्ध्रेशे बलसंयुते तनुपतेर्दाये मृतिर्देहिनाम् ॥ ५७ ॥ नाश इति । नाशपतौ = अष्टमभावेशे, नाशे = अष्टमभावगते तु तद्ग्रहदशाभुक्तौ= अष्टमेशग्रहदशान्तर्दशाकाले जातः आमयं = रोगं समेति = प्राप्नोति, रोगी भवेदित्यर्थः । लग्नपतौ लग्ने गते तु जातः लग्नपदशाभुक्तौ = लग्नेशग्रहदशान्तर्दशाकाले, शरीरार्ति- भाक् = शरीरक्लेशयुक्तः ( रुग्णः) स्यादिति । अथात्र लग्नेशाष्टमेशग्रहयोर्मध्ये रन्ध्रेशे = अष्टमेशग्रहे, बलसंयुते = बलीयसि सति पश्चात्, आमयनाशनं = व्याधिविमुक्तिः, तनुसुखं = शरीरसुखम्, मोदश्च=हर्षश्च सञ्जा- यते । तथा तनुपतेः = लग्नेशग्रहस्य, दाये=दशायाम्, देहिनां मृतिः स्यात् ॥ ५७ ॥ अष्टमेश अष्टममें हो तो उसकी दशा भुक्ति प्राप्त होने पर रोग होता है लग्नमें लग्नेश हो तो उसकी दशाभुक्तिमें पहले शरीरमें दुःख होता है, बाद रोगका नाश होकर शरीर का सुख होता है, हर्ष होता है। यदि अष्टमेश बली हो तो लग्नेशकी दशामें मनुष्यों की मृत्यु होती है ॥ ५७ ॥ जातस्य जन्मसमये विबले विलग्ने लग्नेश्नरन्ध्रपतिपाकमतीव कष्टम् । पश्चादतीव सुखमेति विलग्ननाथे वीर्यान्विते निधनपस्य मृतिं दशायाम् ॥५८॥ जातस्येति । जन्मसमये विलग्ने विबले = बलहीने सति लग्नेश्नरन्ध्रपत्योः पाकं (दशा) जातस्यातीव कष्टं = दुःखदं भवति । तत्र विलग्ननाथे- लग्नेशे वीर्यान्विते-पूर्ण- बलयुक्ते सति पश्चादनन्तरमतीव सुखमेति । तथा निधनपस्य = अष्टमभावपतेः दशायाम् मृतिः स्यात्तस्य जातस्येति ॥ ५८ ॥

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४३६ जातकके जन्म समय लग्न निर्बल हो तो लग्नेश और अष्टमेशकी दशा विशेष कष्ट देने वाली होती है। यदि लग्नेश बली हो तो बादमें विशेष सुख हो। अष्टमेशकी दशामें मृत्यु हो५८ देहेशो च विनाशपे बलयुते केन्द्रत्रिकोणस्थिते तद्युक्तग्रहपाकभुक्तिसमये रोगापवादः फलम् । रन्ध्रेशस्तनुपञ्च खेंचरयुतौ केन्द्रत्रिकोणस्थितौ रन्ध्रस्थानगतस्य पाकसमये मृत्युं समेति ध्रुवम् ॥ ५६ ॥ देहेश इति । देहेशो = लग्नस्वामिनि, च = अथवा विनाशपे=अष्टमेशे बलयुते केन्द्र- त्रिकोणस्थिते च सति तद्युक्तग्रहपाकभुक्तिसमये = तथाभूतेन लग्नेशाष्टमेशान्यतरेण युक्तस्य ग्रहस्य पाकभुक्तिकाले रोगापवादः = व्याधिभयम् फलं प्राप्नुयाज्जातक इति । रन्ध्रेशः = अष्टमेशः, तनुपः = लग्नेशश्चैतौ, खेचरयुतौ =येन केनचिद् ग्रहेण युक्तौ, केन्द्र- त्रिकोणस्थितौ च भवेतां तदा रन्ध्रस्थानगतस्य = अष्टमभावस्थितस्य ग्रहस्य पाकसमये जातो ध्रुवम् = अवश्यमेव मृत्युं समेति = प्राप्नोति ॥ ५६ ॥ लग्नेश तथा अष्टमेश बलवान् हों केन्द्र या त्रिकोणमें स्थित हों तो उससे युक्त ग्रहकी दशाभुक्तिमें रोग और अपवाद फल होता है। अष्टमेश तथा लग्नेश दोनों किसी भी ग्रह से युक्त तथा केन्द्र, त्रिकोणमें हो तो अष्टम स्थानमें स्थित ग्रहकी दशामें निश्चय मृत्युको प्राप्त होता है ॥ ५९ ॥ नो चेदष्टमखेचरौ यदि तनुप्राप्तेन सञ्चिन्तये- न्मन्दे लग्नगतेऽथवाऽष्टमगते तत्पाकभुक्तौ मृतिः । रन्ध्रेशोदयनायकौ सखचरौ युक्तग्रहो दुर्बलो यस्तस्य द्युचरस्य पाकसमये भुक्तौ च मृत्युं वदेत् ॥ ६० ॥ नो चेदिति । पूर्वश्लोके (५९) यदुक्तं 'रन्ध्रस्थानगतस्य पाकसमये मृत्युं समेति ध्रुवम्' तत्र रन्ध्रे ग्रहाभावे सति तनुप्राप्तेन=लग्नगतेन ग्रहेणार्थाल्लग्नगतग्रहस्य पाकसमये मृत्युं सञ्चिन्तयेदिति । अथ मन्दे=शनैश्चरे लग्नगते, अथवा अष्टमगते सति तत्पाकभुक्तौ = शनिदशान्त- र्दशायाम् जातस्य मृतिः स्यात् । अपि च रन्ध्रेशोदयनायकौ = अष्टमेशलग्नेशौ सखचरौ = केनचित्स्वेतरग्रहेण सहितौ भवेतां तदा तत्र यो ग्रहो दुर्बलो युक्तस्तस्य ग्रहस्य पाकसमये तस्यैव भुक्तौ च जातस्य मृत्युं वदेदिति ॥ ६० ॥ यदि ऐसा (८ वें में ग्रह) न हो तो लग्नमें प्राप्त ग्रहसे विचारे। शनि लग्नमें वा अष्टममें हो तो उसकी दशा भुक्तिमें मृत्यु हो। अष्टमेश और लग्नेश जिस ग्रहसे युक्त हो वह युक्त ग्रहकी दशा और भुक्तिमें मरण कहे ॥ ६० ॥ इदानीं मारकग्रहदशाभुक्तौ कदा मरणं स्यादित्याह— लग्नात्पञ्चमराशिपेन सहितव्योमाटनानां दशा- संख्याभानुहृतावशेषगृहगे मृत्युं दिनेशे सति । पुत्रेशो न वियच्चरेण सहितः स्वाब्देन सञ्चिन्तये- ल्लग्नेशेन युताब्दमङ्गविहृतं संक्रान्तिपूर्वं दिनम् ॥ ६१ ॥ लग्नादिति । जन्मलग्नात् पञ्चमराशिपेन = पञ्चमेशेन सहितानां, व्योमाटनानां = ग्रहाणां, दशासङ्ख्याभानुहृतावशेषगृहगे =दशासमामानानि द्वादशभिर्विभज्य शेषमिते राशौ गतवति दिनेशे = सूर्ये सति जातस्य मृत्युं वदेत् । अथ यदि पञ्चमेशो न केनापि वियच्चरेण=ग्रहेण सहितो भवेत्तदा स्वाब्देन=स्वदशा-

४४० सटीकजातकपारिजाते- वर्षेण मृत्युं सञ्चिन्तयेत् । अर्थात्पञ्चमेशे ग्रहयोगरहिते सति तदानीं पञ्चमेशस्यैव दशा- वर्षमानं द्वादशभक्तं कृत्वा लब्धमिते राशौ गतवति सूर्ये मरणमिति । अथ तत्र राशौ सूर्ये सति कस्मिन्दिने मरणमित्याह-लग्नेशेनेति । लग्नेशग्रहेण युताब्दं = सहितग्रहाणां दशावर्षमानं ( तस्मिन् ग्रहयोगाभावे केवलं लग्नेशवर्षमिति ) अङ्गविहृतं = त्रिशद्भक्तं (अत्र क-ट-प-य-वर्णभवैरित्यादिना अङ्गं = ३०) शेषमितं सङ्क्रा- न्तिपूर्व = सूर्यस्य राशिसङ्क्रमणमारभ्य दिनं वाच्यमर्थात्तद्राशौ तद्दिने मरणं स्यादिति ॥६१॥ लग्नसे पञ्चमराशिके स्वामीसे युक्त ग्रहोंकी दशा संख्यामें १२ से भागदेने पर जो गृह हो उसमें जब सूर्य हो तो मृत्यु होवे । पञ्चमेश यदि किसी ग्रहसे युक्त न हो तो केवल अपने वर्ष (दशावर्ष) से विचारे । लग्नेशसे युत वर्षमें ३० का भाग देने पर जो हो उतने दिन संक्रान्तिसे मृत्युके होते हैं ॥ ६१ ॥ इदानीं मात्रा पित्रा च सह मृत्युयोगम्, अपस्मारान्मृत्युयोगं चाह- त्रिकोणे केन्द्रे वा यदि पितृतनुक्षेत्रपतयो दशाभुक्तौ तेषामनुमरणमाहुर्मुनिगणाः ॥ सभौमे मन्दाढ्ये फणियुजि तु वेन्दौ निधनगे त्वपस्मारस्तस्मान्मरणमथवेन्दौ कृशत नौ ॥ ६२ ॥ त्रिकोण इति । पितृतनुक्षेत्रपतयः = पितृ-( ९ ) भावेशः, लग्नेशः क्षेत्रपतिः = मातृ- भावपतिः = चतुर्थेशः इति त्रयो ग्रहा यदि त्रिकोणे=लग्नात् ५।९ भावे, वा केन्द्रे १।४। ७।१० भवेयुस्तदा तेषां मध्ये बलीयसो ग्रहस्य दशाभुक्तौ तेषामनुमरणं = सहैव मृत्यं मुनि- गणाः = पूर्वे महर्षयः आहुः । तथा च सर्वार्थचिन्तामणौ- सुखेश-भाग्येश-विलग्ननाथास्त्रिकोणगाः केन्द्रगताश्च सर्वे । भुक्तौ यदा तत्परिपाक काले पित्रा सहैवानुमृतिश्च मातुः ॥ अथ सभौमे = मङ्गलयुक्ते वा मन्दाढ्ये = शनियुक्ते, वा फणियुजि = राहुयुक्ते, इन्दौ = चन्द्रे, निधनगे = अष्टममुपगते तु जातस्यापस्मारः = मृगी रोगः स्यात् । अथवा कृशतनौ= क्षीणज्योतिषि ( नष्टबले ) इन्दौ = चन्द्रे पूर्वोक्तलक्षणे सति तस्यापस्मारान्मरणं स्यादिति । तथा हि सर्वार्थचिन्तामणौ- रन्ध्रे शशाङ्के फणिनाथयुक्ते हीने त्वपस्मारयुतः समन्दे । तत्र स्थिते हीनबले शशाङ्के पिशाचपीडा जलजा च पीडा ॥ भौमाहिमन्दान्यतमेन युक्ते क्षीणे शशाङ्के निधनस्थितेऽपि । दुःस्थे त्वपस्मारभयान्मृतिः स्यात् पिशाचपीडा त्वथवा मृतिः स्यात् ॥६२॥ नवमेश, लग्नेश और चतुर्थेश त्रिकोणमें वा केन्द्रमें हों तो उनकी दशाभुक्तिमें मुनिगण अनुमरण उनका (माता पिताका) कहे हैं । यदि चन्द्रमा-मंगल या शनि या राहुके साथ अष्टममें हो वा चन्द्रमा निर्बल हो तो मृगी रोगसे मृत्यु होवे ॥ ६२ ॥ चन्द्रे वित्तगतेऽथवा निधनगे जातो बहुस्वेदवान् कर्मस्थानगते कुजे बुधयुते दुर्गन्धदेहो भवेत् । पापे रन्ध्रगते तु पापसहिते रोगप्रमादाकरः सौम्यव्योमगृहेऽतिशोभनयुते जातः समोदः सुखी ॥ ६३ ॥ स्पष्टार्थ एवैत्यलम् ॥ ६३ ॥ चन्द्रमा द्वितीय भावमें अथवा अष्टममें हो तो जातक बहुत स्वेद ( पसीना ) वाला हो । दशममें मंगल बुधसे युक्त हो तो दुर्गन्ध देह हो । अष्टममें पापग्रह पापयुक्त हो तो

सप्तमाष्टमनवमभावफलाध्यायः ॥१४॥ ४४१ बहुत रोग हो । बुध दशम गृहमें हो और अत्यन्त शुभग्रहसे युक्त हो तो जातक हर्ष युत तथा सुखी हो ॥ ६३ ॥ शीर्षोदयेषु चरभादिषु वित्तपस्य लग्नाधिपस्य भुजगस्य दशापहारे । पृष्ठोदये सति तदीयदृगाणपस्य तद्वीक्षितादिसहितस्य मृतिं वदेद्वा ॥ ६४ ॥ इदानीं लग्ने चरादिराशिवशान्मृत्युविचारमाह—शीर्षोदयेष्विति । शीर्षोदयेषु राशिषु (१ अ० १४ श्लो० द्र०) लग्नगतेषु चरभादिषु = चरस्थिरद्वन्द्वराशिषु क्रमेण–वित्तपस्य = धनेशस्य, लग्नाधिपस्य, भुजगस्य = राहोः दशापहारे मृतिं वदेत् । एतदुक्तं भवति । मिथुन-सिंह-कन्या-तुला-वृश्चिक-कुम्भानां मध्ये तुला-लग्ने द्वितीयस्य दशापहारे, सिंह- वृश्चिक-कुम्भान्यतमे लग्ने लग्नेशस्य दशापहारे, मिथुन-कन्ययोरन्यतरे लग्ने राहोर्द- शापहारे जातस्य मरणं वदेत् । अथ पृष्ठोदये = वृष-कर्क-मेष-धनुः-मकरान्यतमे (१ अ. श्लो० १४ द्र०) लग्ने सति तदीयदृगाणपस्य = लग्नाश्रितद्रेष्काणपतेः, तद्वीक्षितादिसहितस्य = लग्नगतद्रे- ष्काणपतिदृग्दृष्टसंयुक्तस्य वा दशापहारे मृतिं वदेत् । अत्रापि त्रैविध्यमुक्तं, तच्चरादिराशि- परमेवार्यात् मेषकर्कमकरान्यतमे लग्ने-लग्नद्रेष्काणपतेर्दशापहारे, वृषलग्ने-लग्नद्रेष्काण- पतिद्रष्टुर्दशापहारे, धनुर्लग्ने-लग्नद्रेष्काणपतिसहितस्य दशापहारे जातस्य मरणं वाच्यम् । Notes—अत्र लग्नद्रेष्काणपतौ ग्रहदृष्टियोगाभावे तद्द्रेष्काणपतिरेव ग्राह्य इति ॥६४॥ शीर्षोदय राशिमें, चर आदि राशिमें क्रमसे धनेशकी, लग्नेशकी और राहुकी दशामें, पृष्ठोदय राशिमें क्रमसे चरादि राशिमें उसके द्रेष्काणपति, ॰उसके देखने वाले तथा उसमें युक्तकी दशामें मृत्यु कहे ॥ ६४ ॥ इति अष्टमभावफलविचारः । 𑁋𑁋𑁋𑁋𑁋𑁋𑁋𑁋𑁋𑁋 अथ नवमभावफलम् । तत्रादौ भाग्यविचारः । अथाधुना नवमभावफलविचारः क्रियते । तत्रादौ नवमभावात्तत्कारकाच्च [(गुरोः) विचारणीयविषयकथनपूर्वकं भाग्ययोगमाह— भाग्यप्रभावगुरुधर्मतपःशुभानि संचिन्तयेन्नवमदेवपुरोहिताभ्याम् । भाग्येशदेवसचिवौ शुभवर्गयातौ भाग्ये शुभग्रहयुते समुपैति भाग्यम् ॥ ६५ ॥ भाग्यप्रभावेत्यादि । नवमदेवपुरोहिताभ्याम् = लग्नान्नवमभावतः गुरोश्च सकाशात् भाग्यम् = दैवम् (तकदीर), प्रभावः = सामर्थ्यम्, गुरुः = शिक्षको दीक्षकश्च, धर्मः, तपः, शुभम् = सत्कार्याणि एतानि सञ्चिन्तयेत् = विचारयेत् । एतेषां शुभाशुभविचारो नवमभावबृहस्पतिभ्यां प्रकर्त्तव्य इति । भाग्येशदेवसचिवौ = नवमभावेशो बृहस्पतिश्च शुभवर्गयातौ भवेताम्, भाग्ये = नवमे भावे शुभग्रहयुते सति जातो नरः भाग्यं = सदभ्युदयं, समुपैति = प्राप्नोति । अस्मिन् लक्षणे जातो भाग्यवान् भवेदित्यर्थः ॥ ६५ ॥ नवम भाव और बृहस्पतिसे भाग्य, प्रभाव, गुरु, धर्म, तप और शुभका विचार करना चाहिये । नवमेश और बृहस्पति शुभवर्गमें हों, भाग्य भाव शुभग्रहसे युक्त हो तो जातक भाग्य- वान् होता है ॥ ६५ ॥

४४२ सटीकजातकपारिजाते- पापारिनीचरविलुप्तकरा नभोगा भाग्यस्थिता यदि यशोधनधर्महीनाः ॥ पापोऽपि तुङ्गनिजमित्रगृहोपगश्चेद्भाग्ये तु भाग्यफलदः सततं नराणाम् ॥६६॥ पापारीति । पापग्रहाः, शत्रुगृहगताः, नीचगताः, सूर्येण सहास्तङ्गता वा नभोगाः = ग्रहाः यदि, भाग्यस्थिताः = नवमभावगताः स्युस्तदा जाताः नराः यशोधनधर्महीना भवन्ति । अथ यदि पापोऽपि = कश्चित्पापग्रहोऽपि तुङ्गगतः ( उच्चस्थः ), निजगृहगतः मित्रगृहोपगतः सन् चेद् भाग्ये=नवमभावे स्थितः स्यात्तदा तु नराणां सततं भाग्यफलदः = अभ्युदयकृदेव भवेत् । पापो वा शुभो वा कश्चिद्ग्रह उच्च-स्व-मित्रगृहगतो यद्भावगतः स्यात्तद्भावपोषक एव भवतीति प्रायः सर्वेषां सिद्धान्त एवावगम्यः ॥ ६६ ॥ यदि पापग्रह, नीचराशिस्थ ग्रह, या अस्तग्रह नववें भावमें हों तो जातक यश, धर्म और धनसे हीन हो । पापग्रह भी यदि उच्चस्थानमें, मित्रगृहमें होकर नववेंमें हो तो मनुष्य निरन्तर भाग्यवान् होता है ॥ ६६ ॥ सौम्यस्वामियुतेक्षितं नवमभं भाग्यप्रदं प्राणिनां तद्राशीशसमेतराशिरमणो भाग्यस्य कर्त्ता भवेत् ॥ भाग्येशः परिपाचको भवति तत्पुत्रेश्वरो बोधक- स्तुङ्गस्वर्क्षगृहोपगो यदि चिरं भाग्यं प्रकुर्वन्ति ते ॥ ६७ ॥ सौम्यस्वामीति । नवमभम् = भाग्यस्थानम् , सौम्येन = शुभग्रहेण, स्वामिना = स्वपतिना ( नवमेशेन ) युक्तमीक्षितं = दृष्टं वा भवेत्तदा प्राणिनां = जनिमताम् भाग्य- प्रदम् = अभ्युदयकारकं भवेदिति । तदिति । तद्राशीशः भाग्यराशिपतिः ( नवमेशः ) समेतः = स्थितो यस्मिन् राशौ तद्राशिरमणः = तद्राशिपतिः=नवमेशाधिष्ठितराशिपतिर्ग्रह इत्यर्थः, स भाग्यस्य कर्त्ता भवेत् । भाग्येशाधिष्ठितराशिप्तेः शुभाशुभस्थितिवशेन।पि शुभाशुभभाग्यविचारः कर्त्तव्य इति भावः । भाग्येश इति । भग्येशो ग्रहो हि परिपाचको भवति । अर्थात्भाग्येशदशायां भाग्यो- दयसम्भवः । तत्पुत्रेश्वरः=नवमभावात्पञ्चमेशोऽर्थाल्लग्नेशः, बोधकः=भाग्यज्ञापको भवति । ते सर्वे पूर्वोक्ताः ( भाग्येश-भाग्येशाधिष्ठितराशीश-भाग्यगत-लग्नेशाः ) यदि तुङ्गस्वर्क्ष- गताः स्युस्तदा चिरं = यावदायुः भाग्यं प्रकुर्वन्ति ॥ ६७ ॥ नवमभाग यदि अपने स्वामीसे या शुभग्रहसे युत या दृष्ट हो तो

सप्तमाष्टमनवमभावफलाध्यायः ॥ १४॥ ४४३ अपने वैशेषिकांशमें, उच्चमें, स्वगृहमें, नवांशमें स्थित पांच ग्रह यदि भाग्य स्थानमें हों उनपर नवमेशकी दृष्टि या योग हो तो जातक राजा तथा अनेक सम्पत्तिसे सहित भाग्यशाली होता है। यदि चार ग्रह बली और अपने उच्च तथा नवांशमें स्थित होकर भाग्य स्थानमें हों तो भाग्य तथा अपने २ देशमें उत्पन्न सम्पत्तियां जातकको देते हैं। यदि वे ग्रह अन्य नवांशमें हों तो अन्यत्र उत्पन्न सम्पत्ति देते हैं। सु. शा. कार ॥ ६८ ॥ अथ नवमे गुरौ ग्रहदृष्टिफलानि । इत आरभ्य ७२ श्लोकं यावन्नवमे गुरौ ग्रहदृष्टिफलान्युच्यन्ते— भाग्ये तत्पतिशोभनेक्षितयुते भाग्यं समेति ध्रुवं धर्मे पापयुते भृगौ शशिनि वा जातो गुरुस्त्रीरतः ॥ दृष्टेऽर्केण गुरौ नृपः क्षितिभुवां मन्त्री बुधेनार्थवान् शुक्रेणाश्वपतिः सुखी तु शशिना मन्देन चोष्ट्रादिभाक् ॥ ६६ ॥ भाग्य इति । भाग्ये = नवमभावे तत्पतिना=नवमेशेन, शोभनेन = शुभग्रहेण वा ईक्षिते वा युते जातो नरः ध्रुवं = निश्चयेन, भाग्यं समेति, भाग्यवान्भवेदित्यर्थः । पापग्रहेण युते भृगौ = शुक्रे, वा शशिनि = चन्द्रे, धर्मे = नवमभावे गतवति जातो नरो गुरुस्त्रीरतः = गुरुपत्न्यामासक्तो भवेत् । तथा च जातकरत्ने— चन्द्रे सपापे यदि धर्मराशौ भृगोः सुते वा गुरुदारगामी । धर्माधिपस्यांशपतौ तथैव युक्ते तथा तादृशदारगामी ॥ दृष्टेऽर्केणेति । गुरौ = बृहस्पतौ, अर्केण, = सूर्येण दृष्टे जातो नृपो भवेत् । क्षिति- भुवा = भौमेन दृष्टे गुरौ जातो मन्त्री = सचिवः ( Minister ) भवेत् । बुधेन दृष्टे गुरौ जातोऽर्थवान् भवेत् । शुक्रेण दृष्टे गुरौ जातोऽश्वपतिः = तुरङ्गधनी भवेत् । शशिना = चन्द्रेण दृष्टे गुरौ सुखी स्यात् । मन्देन = शनिना दृष्टे गुरौ जातः उष्ट्रादिभाक् = उष्ट्र- प्रभृतिचतुष्पदयुक्तो भवेत् । Notes—अत्र यदि गुरुर्भाग्यस्थः स्यात्तदा ग्रहदृष्टिफलस्याधिक्यं वक्तव्यम् ॥ ६९ ॥ यदि भाग्यस्थान ( ९ वां भाव ) अपने स्वामी या शुभग्रहसे युत या दृष्ट हो तो जातक अवश्य भाग्यवान् होता है। पापग्रहसे युत शुक्र या चन्द्रमा यदि भाग्य ( ९ ) स्थानमें हों तो जातक अपने गुरुकी स्त्रीमें आसक्त होवे । नवम भावगत गुरु यदि सूर्यसे देखे जावें तो जातक राजा हो । मङ्गल गुरुको देखे तो जातक मन्त्री हो । बुध देखे तो धनी हो । शुक्र देखे तो घोड़ेवाला हो । चन्द्रमा देखे तो सुखी हो । शनि देखे तो ऊँट वगैरह चौपायोंसे युक्त हो । सु. शा. कार ॥ ६९ ॥ विद्वान् वारणगोतुरङ्गधनवानिन्द्रार्कदृष्टे गुरौ सेनावाहनरत्नवान्भवमगे जीवे कुजार्केक्षिते ॥ विद्यावादविनोदवित्तविपुलः सूर्येन्दुजालोकिते शुक्रादित्यनिरीक्षिते विनयवान् जीवे तपःस्थानगे ॥ ७० ॥ मन्दादित्यनिरीक्षिते गुणनिधिः प्राज्ञो बहुग्रामवान् जीवे चन्द्रकुजेक्षिते पृथुयशाः सेनासुखश्रीयुतः ॥ तारेशेन्दुजवीक्षिते गृहसुखश्रेष्ठार्थशय्यासनः शुक्रेन्दुप्रविलोकिते वितनयः शूरो धनी कर्मकृत् ॥ ७१ ॥ चन्द्रादित्यसुतेक्षिते तु गुणवान् वादी विदेशं गतो-

४४४ सटीकजातकपारिजाते- जीवे शुक्रबुधेक्षिते नवमगे विद्याधिको जायते ॥ सर्वव्योमचरेक्षिते नरवरो राजा बहुद्रव्यवान् सौभाग्याचरराज्यवित्तफलदाः सर्वे तपःस्थानगाः ॥ ७२ ॥ विद्वानिति । नवमगे गुरौ इन्द्वर्कदृष्टे = चन्द्रसूर्याभ्यामवलोकिते जातो विद्वान्, वारण- गोतुरङ्गधनवांश्च भवेत् । कुजार्काभ्यामीक्षिते नवमगे गुरौ जातः वाहनरत्नवान् भवेत् । अन्यत्सर्वं स्पष्टमेवेत्यलम् । Notes—नवमगतो गुरुः सकलग्रहनिरीक्षमाणो जातकं बहुधनयुतं राजानं करोति । तत्रापि यदि गुरुस्स्वस्थः स्वगृहादिगतो वा स्यात्तदाऽतिशयेनेति । सर्वे शुभाः भाग्यस्थाने सदा निश्चलराज्यदा अर्थादेव पापा नवमे भाग्यबाधकाः स्युरित्यपि चिन्त्यम् ॥ ७०-७२ ॥ नवम भावमें स्थित गुरुको चन्द्रमा और सूर्य देखें तो जातक पण्डित तथा हाथी, गौ, घोड़े और सम्पत्तियोंसे युक्त हो । मङ्गल और सूर्य देखें तो सेना, वाहन और रत्नसे युक्त- हो । सूर्य और बुधसे देखे जानेपर विद्याकी चर्चाओंमें आनन्दित और खूब धनी हो । शुक्र और सूर्य नवमगत गुरुको देखें तो जातक अत्यन्त मधुर बोलनेवाला हो । नवमगत गुरुको शनि और सूर्य देखें तो जातक बहुत बड़ा गुणी, विद्वान् और अनेक गांव (इलाके) वाला हो । चन्द्रमा और मङ्गल देखें तो बहुत बड़ा यशस्वी, सेना-सुख- और सम्पत्तिसे पूर्ण हो । चन्द्रमा और बुध देखें तो अनेक प्रकारके गृहसुख, उत्तम धन और शय्यादि सुखोंसे युक्त हो । शुक्र और चन्द्रमा देखें तो पुत्रहीन, पराक्रमी, धनवान् और कर्मकर्त्ता हो । नवमगत गुरुको चन्द्रमा और शनि देखें तो जातक गुणी हो, विवादी हो और विदेश, वाली हो । बुध और शुक्र देखें तो उत्तम विद्वान् हो । यदि नवमगत गुरुको सभी ग्रह देखते हों तो मनुष्योंमें पूज्य, बहुत धनी राजा हो । सभी शुभग्रह यदि ९ वें भावमें होवें तो अचल राज्य और धन देनेवाले होते हैं । सुधाशालिनीकारः ॥ ७०-७२ ॥ नवमे द्विग्रहयोगफलानि इत आरभ्य ७७ श्लोकं यावन्नवमे द्विग्रहयोगफलान्युच्यन्ते— भाग्यस्थे शशिनि प्रभाकरसुतज्ञारेक्षिते भूपति- स्तुङ्गव्योमचरे तपःस्थलंगते भूपः शुभालोकिते । सेन्दौ तिग्मकरे तु तत्र धनिको नेत्रामयार्त्तो भवेद् दुःखी वादरतः कुजेन सहिते भानौ नृपालप्रियः ॥ ७३ ॥ भाग्यस्थ इति । शशिनि = चन्द्रे भाग्यस्थे, तस्मिन् प्रभाकरसुतज्ञारेक्षिते = शनिबुध- भौमैरवलोकिते जातो भूपतिः = राजा भवेत् । तुङ्गव्योमचरे = उच्चाश्रिते कस्मिन्नपि ग्रहे, तपःस्थलंगते = नवमभावगते (तत्र शुभ ग्रहे विशेषेणेति बोद्धव्यम्) तस्मिन् शुभालोकिते च जातो भूपः स्यात् । (सू. चं.)—सेन्दौ = चन्द्रसहिते तिग्मकरे = सूर्ये, तत्र = नवमस्थे (अमावास्याया- मित्यं सम्भाव्यते) तु जातः धनिकः, नेत्रामयार्त्तः = चक्षूरोगपीडितश्च भवेत् । (सू. मं.)—कुजेन सहिते भानौ भाग्यस्थे जातो दुःखी, वादरतः = विवादप्रियः, नृपालप्रियश्च भवेदिति ॥ ७३ ॥ नववें भावमें स्थित चन्द्रमाको शनि, बुध और मंगल देखते हों तो जातक राजा हो । उच्चराशिके ग्रह नववें भावमें हों उसे शुभग्रह देखते हों तो जातक राजा हो । नववें भावमें चन्द्रमा और सूर्य हों तो धनी हो और नेत्ररोगी हो । मङ्गलके साथ सूर्य ९ वें में हो तो दुःखी, विवादी और राजाका प्रिय होवे ॥ ७३ ॥