जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 463, कुल 588 में से
संदर्भ में पढ़ेंसप्तमाष्टमनवमभावफलाध्यायः ।।१४।। ४३७ लग्नादन्त्यगृहाधिपे बलवति स्वर्क्षे चिरायुः सुखी लग्नेशो यदि रन्ध्रपश्च बलिनौ केन्द्रस्थितौ चेत्तथा । आधानोदयराशितोऽष्टमगृहान्मेषूरणं जन्मभं शुक्रज्ञामरवन्दितेक्षितयुतं यद्यायुरारोग्यभाक् ॥ ५३ ॥ लग्नादिति । लग्नादन्त्यगृहाधिपे = द्वादशभावपतौ बलवति स्वर्क्षे च गतवति जातः चिरायुः सुखी च भवेत् । लग्नेशः, रन्ध्रपः = अष्टमेशश्चैतौ यदि बलिनौ केन्द्रस्थितौ च भवेताम् तदा तथा = चिरायुः सुखी च भवेदिति । आधानोदयराशितः = गर्भाधानकालीनलग्नात्, वा अष्टमगृहात्=जन्मकालीनाष्टमभावात् मेषूरणं=दशमभावः, अथवा जन्मभं = जन्मकालीनचन्द्रराशिः यदि शुक्रज्ञामरवन्दितेक्षितयुतं= शुक्रबुधजीवान्यतमेन दृष्टः युतो वा स्यात् तदा आयुष्मान्, आरोग्यश्च भवेदिति ॥ ५३ ॥ लग्नसे द्वादशका स्वामी अपनी राशिमें बलवान् हो तो जातक चिरायु और सुखी होवे । यदि लग्नेश और अष्टमेश बली हों, केन्द्रमें हों तो भी वही फल हो । यदि गर्भा- धानकी लग्नराशिके अष्टम गृहसे दशवीं राशि, या जन्मलग्न शुक्र-बुध-बृहस्पतिसे दृष्ट या युत हो तो जातक आयुष्मान् और आरोग्य हो ॥ ५३ ॥ अथ मृत्युविचारः । रन्ध्रेशे रिपुरन्ध्ररिष्फगृहगे तत्पाकभुक्तौ मृतिं मन्दाक्रान्तगृहेशपाकसमये रन्ध्रेशभुक्तौ तथा ॥ पाके रन्ध्रगृहाधिपस्य तदनुक्रान्तस्य भुक्तौ तु वा खेटानां बलदुर्बलेन सकलं संचिन्त्य यत्तद्वदेत् ॥ ५४ ॥ अधुना मृत्युविचारः क्रियते—रन्ध्रेश इति । १. अष्टमभावपतौ रिपुरन्ध्ररिष्फगृहगे = षष्ठाष्टमद्वादशान्यतमभावगते सति तत्पाक- भुक्तौ = अष्टमेशदशान्तर्दशाकाले मृतिं = जातकस्य मरणं वदेत् । २. मन्दाक्रान्तगृहेशपाकसमये = जन्मकाले शनिर्यस्मिन् राशौ भवेत्तद्राशीशग्रह- दशायाम्, रन्ध्रेशभुक्तौ = अष्टमेशान्तर्दशाकाले, तथा = जातस्य मृतिं वदेदिति । ३. अथवा रन्ध्रगृहाधिपस्य = अष्टमभावपतेः, पाके = दशायाम्, तदनुकान्तस्य = अष्टमभावपतेः सङ्गतस्य ग्रहस्य, भुक्तौ = अन्तर्दशाकाले जातस्य मृतिं वदेत् । अत्रोक्तयोगत्रये खेटानां = मरणयोगकर्तृग्रहाणां बलदुर्बलेन (बलाबलविचारणपूर्वकम् ) सकलं, संचिन्त्य = विविच्य, यत् = यद्ग्रहदशायां सम्भवः स्यात्तद्ग्रहदशान्तर्दशाकाले तन्मरणं वदेदिति ॥ ५४ ॥ अष्टमेश, षष्ठ, अष्टम, द्वादश गृहमें हो तो उसकी दशामुक्तिमें मृत्यु हो। शनि जिस गृहमें हो उस गृहके स्वामीकी दशामें रन्ध्रेशकी भुक्ति (अन्तर्दशा) में मृत्यु हो । वा अष्टमेश की दशामें अष्टमस्थ ग्रहकी अन्तर्दशामें मृत्यु हो। यहां ग्रहोंके बलाबलसे सब विचार कर फल कहे ॥ ५४ ॥ लग्नेशे निधनारिरिष्फगृहगे साहौ सकेतौ तु वा होरारन्ध्रपसंयुक्तग्रहदशा जातस्य मृत्युप्रदा ॥ तत्खेटान्वितराशिनायकदशा नाशप्रदा देहिनां खेटानां प्रथमागतस्य फणिनः पाकापहारे क्रमात् ॥ ५५ ॥ लग्नेश इति । साहौ = राहुणा सहिते, वा सकेतौ = केतुयुक्ते लग्नेशे निधनारि- रिष्फगृहगे = अष्टम-षष्ठ-व्ययान्यतमभावमुपगते सति होरारन्ध्रपसंयुक्तग्रहदशा = लग्नेशा- ष्टमेशान्यतरेण सहितस्य ग्रहस्य दशा जातस्य मृत्युप्रदा भवति ।